पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्मवान कमॅसंशुद्धः स श्राद्ध प्रथमां मतः" इत ।


“योगिनं भोजयेन्नित्यं दृष्टतत्वं मनीषिणम् ।
तेषा तु दत्तमक्षय्यं भवतीति न संशयः" इति ।

ये तु योगिनो वृत्ते स्थितास्त एव भोज्या न स्वरूपेण ।

तदुक्तम्

‘ये तु वृत्तस्थिता नित्यं ज्ञानिनो ध्यानिनश्च ये' इति ।

अनेन योगशास्रपाठमात्ररतस्य पञ्चमहापातकयुक्तस्याभोज्यवः

मुक्तम् । वस्तुज्ञाननिष्ठस्य ध्याननिष्ठस्य मद्यपानादौ प्रवृत्यभावा
दिति ततो ज्ञानध्यानयुक्तो भोज्यः । आत्मादिस्वरूपपरिस्थिति
ज्ञानं विजातीयबुद्धिहान्यात्मसाक्षात्कारे–छागलेय

“सर्वारम्भनिवृत्तानां यतीना दत्तमक्षयम् ।
सततं योगयुक्ताना वीतरागतपस्विनाम् ” इति ।।

यम

‘‘यतये वीतरागाय दत्तमन्नं सुपूजितम् ।
न क्षीयते श्रद्धया अपि कल्पकोटिशतैरैपि ।
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् ।
न तत्फलमवाप्नोति स्वर्गस्थानपि पातयेत् ॥
योगिनं तु परित्यज्य पूजयन्ति परस्पम् ।
दाता भोक्ता च नरकं गच्छन्ति सह बान्धवैः " इति । ।

अत्र सततयोगयुक्तादि यतिविशेषणान्येकदण्डिविषय एव

समीचीनानि ।