पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
नृसिहप्रसादे

तथा ब्रह्मण्डपुराणे

‘शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डभ्यश्च दापयेव” इति ।

ब्रह्मचारिणः शिखिनः, धातुरक्ताः धातुरक्तवस्रधारिणो

वनस्थाः । तत्र पूर्वं यतिः श्रेष्ठःततो वानप्रस्थः, ततो ब्रह्मचारी,
ततो गृहस्थ इति ।
तदाह नारद --

“यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विदुषो वसतो ग्रामे कथं तद्याति राक्षसान्" इति ।

ग्रामे स्वग्रामे वसतो यतीन् तेषामनादरेण य इतरान् द्विजान् ।

भोजयेत् तदीयं कव्य पित्रर्थं सङ्कल्पितमपि राक्षसानेव याती
ति भावः ।
तथा च ब्रह्माण्डपुराणे

“श्रलाभेष्वातितिकूणां भोजयेद् ब्रह्मचारिणम् ।
तदभावे ख़ुदासीनं गृहस्थमपि भोजयेत्” इति । ।

तथा पितृगाथा श्रूयते

“अपि स्यात्स कुले जन्तुभोजयेद्यस्तु योगिनम् ।
विप्रश्राद्धं प्रयत्नेन तेन तृष्यामहे वयम्’ इति । ।

यः प्रयत्नेन भोजयेदित्यादरार्थम् । तथा च पुराणम् -

‘गृहस्थानां सहसेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्त्रेण यो योगी स विशिष्यते" इति ।

तथा च पद्मपुराणे

{{c|“साङ्गांस्तु चतुरो वेदान् अधीते सम्यगर्थवित् ।