ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ ब्रह्मवैवर्तपुराणम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

नारद उवाच ।।
लक्ष्मीः सरस्वती गंगा तुलसी लोकपावनी ।।
एता नारायणस्यैव चतस्रश्च प्रिया इति ।। १ ।।
गंगा जगाम वैकुण्ठमिदमेव श्रुतं मया ।।
कथं सा तस्य पत्नी च बभूव ब्रूहि केशव ।। २ ।।
नारायण उवाच ।।
गंगा जगाम वैकुण्ठं तत्पश्चाच्च गतो विधिः ।।
गत्वोवाच तया सार्द्धं प्रणम्य जगदीश्वरम् ।। ३ ।।
ब्रह्मोवाच ।।
राधाकृष्णागसंभूता या देवी द्रवरूपिणी ।।
तदधिष्ठातृदेवीयं रूपेणाप्रतिमा भुवि ।। ४ ।।
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ।।
शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता ।। ५ ।।
यदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ।।
तत्रापि मानिनी राधा महातेजस्विनी वरा ।। ६ ।।
समुद्यता पातुमिमां भीतेयं बुद्धिपूर्वकम् ।।
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।। ७ ।।
सर्वं विशुष्कं गोलोकं दृष्ट्वाऽहमगमं तदा ।।
गोलाकं यत्र कृष्णश्च सर्ववृत्तान्तलब्धये ।। ८ ।।
सर्वान्तरात्मा सर्वं नो ज्ञात्वाऽभिप्रायमेव च ।।
बहिश्चकार गंगां च पादाङ्गुष्ठनखाग्रतः ।। ९ ।।
दत्त्वाऽस्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ।।
संप्रणम्य च राधेशं गृहीत्वाऽत्रागमं विभो ।। 2.12.१० ।।
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ।।
सुरेश्वरस्त्वं रसिको रसिकां रसभावनः ।। ११ ।।
पुंरत्नं पुंसु देवेषु स्त्रीरत्नं स्त्रीष्वियं सती ।।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ।। १२ ।।
उपस्थितां च यः कन्यां न गृह्णाति मदेन च ।।
तं विहाय महालक्षी रुष्टा याति न संशयः ।। ।। १३ ।।
यो भवेत्पण्डितः सोऽपि प्रकृतिं नावमन्यते ।।
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।। १४ ।।
त्वमेव भगवा नाद्यो निर्गुणः प्रकृतेः परः ।।
अर्द्धांगो द्विभुजः कृष्णोऽप्यर्धांगेन चतुर्भुजः ।। १५ ।।
कृष्णवामांगसम्भूता परमा राधिका पुरा ।।
दक्षिणाङ्गात्स्वयं सा च वामाङ्गात्कमला यथा ।। १६ ।।
तेन त्वां सा वृणोत्येव यतस्त्वद्देहसम्भवा ।।
स्त्रीपुंसौ वै तथैकाङ्गौ यथा प्रकृतिपूरुषौ ।। १७ ।।
इत्येवमुक्त्वा धाता च तां समर्प्य जगाम सः ।।
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।। १८ ।।
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।।
रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ।। १९ ।।
गां पृथ्वीं च गता यस्मात्स्वस्थानं पुनरागता ।।
निर्गता विष्णुपादाच्च गङ्गा विष्णुपदी स्मृता ।।2.12.२०।।
मूर्च्छां सम्प्राप सा देवी नवसङ्गममात्रतः ।।
रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता ।।२१।।
तद्दृष्ट्वा दुःखिता वाणी सापत्न्येर्ष्याविवर्जिता ।।
नित्यमीर्ष्यति तां वाणी न च गंगा सरस्वतीम् ।।२२।।
गङ्गया सहितस्यैव तिस्रो भार्या रमापतेः ।।
सार्द्धं तुलस्या पश्चाच्च चतस्रो ह्यभवन्मुने ।। २३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे गङ्गोपाख्यानं नाम द्वादशोऽध्यायः ।। १२ ।।