ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० ब्रह्मवैवर्तपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

सौतिरुवाच ।।
बभूव काले बालश्च क्रमेण पञ्चहायनः ।।
जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मृतः सदा ।।१ ।।
गीयते सततं कृष्णयशोनामगुणादिकम् ।।
क्षणं रोदिति नृत्येन पुलकाञ्चितविग्रहः ।। २ ।।
कृष्णसम्बन्धिनीं गाथां शृणोति यत्र तत्र वै ।।
तत्सम्बन्धि पुराणं च तत्र तिष्ठति बालकः ।। ३ ।।
धूलिधूसरसर्वाङ्गो धूलिनैवेद्यमीप्सितम् ।।
धूलिषु प्रतिमां कृत्वा धूलिना पूजयेद्धरिम् ।। ४ ।।
पुत्रमाह्वयते माता प्रातराशाय चेन्मुने ।।
हरिं संपूजयामीति मातरं संवदेत्पुनः।। ५ ।।
शौनक उवाच ।।
किं नाम बालकस्यास्य जन्मन्यत्र बभूव ह ।।
व्युत्पत्त्या संज्ञया वाऽपि तद्भवान्वक्तुमर्हति ।। ६ ।।
सौतिरुवाच ।।
अनावृष्ट्यवशेषे च काले बालो बभूव ह ।।
नारं ददौ जन्मकाले तेनायं नारदाभिधः ।।७।।
ददाति नारं ज्ञानं च बालकेभ्यश्च बालकः ।।
जातिस्मरो महाज्ञानी तेनायं नारदाभिधः ।। ८ ।।
वीर्येण नारदस्यैव बभूव बालको मुने ।।
मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः ।। ९ ।।
शौनक उवाच ।।
शिशुनाम च विज्ञातं व्युत्पत्त्या च यथोचितम् ।।
मुनीन्द्रस्य कथं नाम नारदश्चेति मंगलम् ।। 1.21.१० ।।
सौतिरुवाच ।।
अपुत्रकाय विप्राय धर्मपुत्रो नरो मुनिः ।।
ददौ पुत्र कश्यपाय तेनायं नारदाभिधः ।। ११ ।।
शौनक उवाच ।।
अधुना नामव्युत्पत्तिः श्रुता सौते शिशोरपि ।।
शूद्रयोनौ ब्रह्मपुत्रः कथं स नारदाभिधः ।। १२ ।।
सौतिरुवाच ।।
कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः ।।
नरान्ददौ तत्कण्ठं च तेन तन्नारदं स्मृतम् ।।१३।।
ततो बभूव बालश्च नारदात्कण्ठदेशतः ।।
अतो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम् ।। १४ ।।
साम्प्रतं शिशुवृत्तान्तं सावधानं निशामय ।।
उपालम्भरहस्येन विशिष्टं किं प्रयोजनम् ।। १५ ।।
ववृधे गोपिकाबालो विप्रगेहे दिनेदिने ।।
सपुत्रां पालितां चक्रे ब्राह्मणः स्वसुतां यथा ।।१६ ।।
एतस्मिन्नन्तरे विप्रा आययुर्विप्रमन्दिरम् ।।
शिशवः पञ्चवर्षीया महातेजस्विनो यथा ।। १७ ।।
प्रच्छन्नं हृतवन्तश्च ग्रीष्ममध्याह्नभास्करम् ।।
मधुपर्कादिकं दत्त्वा तान्ननाम गृही द्विज ।। १८ ।।
फलमूलादिकं काले चत्वारो मुनिपुङ्गवाः ।।
विप्रदत्तं बुभुजिरे तच्छेशं बुभुजे शिशुः ।। १९ ।।
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ मुदा ।।
तेषां बभूव दासः स द्विजस्य मातुराज्ञया ।।1.21.२०।।
एकदा शिशुमाता च गच्छन्ती निशि वर्त्मनि ।।
ममार सर्पदष्टा च तत्क्षणं स्मरती हरिम् ।। २१ ।।
सद्यो जगाम वैकुण्ठं विष्णुयानेन सा सती ।।
विष्णुपार्षदसंयुक्ता सद्रत्ननिर्मितेन च ।। २२ ।।
प्रातर्बालो द्विजैः सार्धं प्रययौ विप्रमन्दिरात् ।।
तत्त्वज्ञानं ददुस्तस्मै ब्राह्मणाश्च कृपालवः ।। २३ ।।
ब्रह्मपुत्राः शिशुं त्यक्त्वा स्वस्थानं प्रययुः किल ।।
महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे ।।२४ ।।
तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः ।।
क्षुत्पिपासारोगशोकहरं वेदेषु दुर्लभम् ।। २५ ।।
महारण्ये च घोरे च अश्वत्थमूलसन्निधौ ।।
कृत्वा योगासनं तस्थौ सुचिरं तत्र बालकः ।। २६ ।।
शौनक उवाच ।।
कं मन्त्रं बालकः प्राप कुमारेण च धीमता ।।
दत्तं परं श्रींहरेश्च तद्भवान्वक्तु मर्हति ।। २७ ।।
सौतिरुवाच ।।
कृष्णेन दत्तो गोलोके कृपया ब्रह्मणे पुरा ।।
द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः ।। २८ ।।
तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते ।।
कुमारेण स दत्तश्च मन्त्रश्च शिशवे द्विज ।। २९ ।।
ॐ श्रीं नमो भगवते रास मण्डलेश्वराय ।।
श्रीकृष्णाय स्वाहेति च मन्त्रोऽयं कल्पपादपः ।। 1.21.३० ।।
महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत् ।।
अस्यौपयौगिकं ध्यानं सामवेदोक्तमेव च ।। ३१ ।।
तेजोमण्डलरूपे च सूर्य्यकोटिसमप्रभे ।।
योगिभिर्वाञ्छितं ध्याने योगैः सिद्धगणैः सुरैः ।। ३२ ।।
ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसन्निधौ ।।
अतीव कमनीयानिर्वचनीयं मनोहरम् ।। ३३ ।।
नवीनजलदश्यामं शरत्पङ्कजलोचनम् ।।
शरत्पार्वणचन्द्रास्यं पक्वबिम्बाधिकाधरम् ।। ३४ ।।
मुक्तापङ्क्तिविनिन्दैकदन्तपंक्तिमनोहरम् ।।
सस्मितं मुरलीन्यस्तहस्तावलम्बनेन च ।। ३५ ।।
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।।
चन्द्रलक्षप्रभाजुष्टं पुष्टश्रीयुक्तविग्रहम् ।। ३६ ।।
त्रिभङ्गसङ्गि वा युक्तं द्विभुजं पीतवाससम् ।।
रत्नकेयूरवलयरत्ननूपुरभूषि तम् ।। ३७ ।।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।।
मयूरपुच्छचूडं च रत्नमालाविभूषितम् ।। ३८ ।।
शोभितं जानुपर्य्यन्तं मालतीवनमालया ।।
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकारकम् ।।३९ ।।
मणिना कौस्तुभेन्द्रेण वक्षस्थलसमुज्ज्वलम् ।।
वीक्षितं गोपिकाभिश्च शश्वद्व्रीडितलोचनैः ।।1.21.४०।।
स्थिरयौवनयुक्ताभिर्वेष्टिताभिश्च सन्ततम् ।।
भूषणैर्भूषिताभिश्च राधावक्षःस्थलस्थितम् ।। ।। ४१ ।।
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम् ।।
किशोरं राधिकाकान्तं शान्तरूपं परात्परम् ।। ४२ ।।
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।।
ध्यायेत्सर्वेश्वरं तं च परमात्मानमीश्वरम् ।। ४३ ।।
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने ।।
मन्त्रोपयौगिकं सत्यं मन्त्रश्च कल्पपादपः।।४४।।
साम्प्रतं बालकस्तस्थौ ध्यानस्थस्तत्र शौनक ।।
दिव्यं वर्षसहस्रं च निराहारः कृशोदरः।। ।।४५।।
शक्तिमान्परिपुष्टश्च सिद्धमन्त्रप्रभावत।।
ददर्श बालको ध्याने दिव्यं लोकं च बालकम्।।४६।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।।
किशोरवयसं श्यामं गोपवेषं च सस्मितम् ।। ४७ ।।
गोपैर्गोपाङ्गनाभिश्च वेष्टितं पीतवाससम् ।।
द्विभुजं मुरलीहस्तं चन्दनेन विचर्चितम्।।४८।।
ब्रह्मविष्णुशिवाद्यैश्च स्तूयमानं परात्परम् ।।
दृष्ट्वा च सुचिरं शान्तं शान्तश्च गोपिकासुतः।।४९।।
विरराम च शोकार्तो यदा तद्द्रष्टुमक्षमः ।।
रुरोदाश्वत्थमूले च न दृष्ट्वा बालकं शिशुः ।। 1.21.५० ।।
बभूवाकाशवाणीति रुदन्तं बालकं प्रति ।।
सत्यं प्रबोधयुक्तं च हितमेव मिताक्षरम् ।। ५१ ।।
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः ।।
अपि पक्वकषायाणां दुर्दर्शं च कुयोगिनाम् ।। ५२ ।।
एतस्मिन्विग्रहेऽतीते संप्राप्ते दिव्यविग्रहे ।।
पुनर्द्रक्ष्यसि गोविन्दं जन्ममृत्युहरं हरिम् ।। ५३ ।।
इति श्रुत्वा बालकश्च विरराम मुदाऽन्वितः ।।
काले तत्याज तीर्थे च तनुं कृष्णं हृदि स्मरन् ।। ५४ ।।
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।।
बभूव शापमुक्तश्च नारदश्च महामुनिः।।५५।।
तनुं त्वक्वा स जीवश्च विलीनो ब्रह्मविग्रहे ।।
बभूव प्राक्तनान्नित्यः कालभेदे तिरोहितः ।। ५६ ।।
आविर्भावस्तिरोभावः स्वेच्छया नित्यदेहिनाम् ।।
जन्ममृत्युजराव्याधिर्भक्तानां नास्ति शौनक ।। ५७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदशापविमोचनं नामैकविंशोऽध्यायः ।। २१ ।।