पृष्ठम्:भामती.djvu/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-४ ३.१८]
[६७७]

दति दि । न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाहारेणापवादादपीत्यर्थः । स्या देतत् । भवत्वष परामर्शान्यार्थः । ये चेमैरण्यइत्यादिभ्य स्वाश्रमान्तरं सेव्यतीत्यत आह। ‘ये चेमे ऽरण्य’इति । अ स्यापि देवपथोपदेशपरत्वात् नैतत्परत्वमित्यर्थः । न चान्यप दपि स्फुटतराश्रमान्तरप्रत्यय इत्याह । ‘संदिग्धं चेति । नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति । नन्वेतमेव प्रव्राजिन इति वचनाद् आश्रमा न्तरं सेव्यतीत्यत आह ।‘तथैतमेवे’ति । ‘एतदपि लोक संस्तवनपरमिति । अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्ष वचनमिति कृत्वचिन्तेयमिति समाधत्ते तत्र ( १) "ननु ब्रह्मचर्यादेवे”ति ।

अनुष्ठेयं बादराणः सम्यश्रुतेः॥ १९॥

भवत्वन्यार्थः परामर्शः तथाप्येतस्मादाश्रमान्तरणि प्रती यमानानि च नापाकरणमर्हन्ति । एवं तान्यपाक्रियेरन्य द्यमानं प्रतीयेरन् । प्रतीयमानानि वा श्रुत्या बाध्येरन् । न तावन्न प्रतीयन्ते । तथायि । त्रयो धर्मस्कन्धा इति स्कन्ध त्रित्वं प्रतिज्ञातम् । तत्रस्कन्धशब्दो यद्याश्रमपरो न स्याद् अ पि तु समूचवचनस्ततो | धर्माणां यज्ञादीनां प्रातिस्त्रिकोप तीन किमपेच्य त्रित्वं संख्यासु व्यवस्थाप्येत एकैकाश्रभो पसंपृचीतास्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमि त्याश्रमत्रित्वप्रतिज्ञोपपत्तिस्तत्र यज्ञादिलिङ्गो गुदश्रम एको


(१) तत्रेति ३ पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८०&oldid=141752" इत्यस्माद् प्रतिप्राप्तम्