तस्मात्परिशेषान्मानसपञ्चवत् क्रियाप्रवेशशङापाकरणार्थ मवधारणम । न चैवमर्थत्वे संभवति द्योतकत्वमात्रेण नि पातश्रुतिः पीडनीया । तस्मात् श्रुतिलिङ्गवाक्यानि प्रकरण मपोद्य खातन्त्र्य' मनचिदादीनामवगमयन्तीति सिद्धम् । अ मुबन्धातिदेशशुल्यादिभ्य एवमेव विज्ञेयम् । ते च भाष्यएव स्टाः । यदुक्तं पूर्वपक्षिणक्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मन चिदादीनां विकल्प इति । तदनुख्यकार्यत्वेन दूषयति । ‘न च सत्येव क्रियासंबन्ध”इति । अपि च पूर्वापरयोर्भागयो र्विद्याप्राधान्यदर्शनात् तन्मध्यपातिनोपि तत्सामान्यादू विद्या प्रधानत्वमव लंच्यंते न कर्माङ्गत्वमित्याङ हुत्रेण ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वत्वनुबन्धः ॥ ५२ ॥
स्टमस्य भाष्यम् । अस्ति राजस्ढ्यः । राजा राज्य कामो राजख्येन यजेतेति । तं प्रकृयामनन्ति । अवेटिं नामेष्टिम् । आग्नेयोष्टाकपालो चिरण्यं दक्षिणेत्येन्नमादित प्रकृत्याधीयते । यदि ब्राह्मणे यजेत बार्हस्पत्यं मध्ये नि धायाहुतिं हुत्वभिघारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति । तत्र संदिह्यते किं ब्राह्मणादीनां प्राप्त नहीं निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति । अत्र यदि प्रजापालनकण्टकोइरणदि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थः । ततो राजा राजड येन यजेतेनि राज्यस्य कर्ट राजद्वयेधिकारः । तस्मात्संभ