पृष्ठम्:भामती.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-२६-२८]
[६४७]

एतांश्च सत्यान् कामानित्यात्मवन् कामानामपि वेदत्वं धू यते । वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते बिमो ऋयीति तथापि तयोः परस्परगुणेपसंचारः। निघृणयां नावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासम्बन्धिगुणेपसंहारः संभवी । सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणे पसंहारसंभवः । नचि निर्गुणाय विद्यायामाध्यातव्यत्वेनैने चोदिता येनात्रध्येयत्वेन संबध्येरन्नपि तु सत्यकामादिगुण नान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंचार उच्यते । एवं व्यव स्थित एष संक्षेपो ऽधिकरणार्थस्य साम्यबाहुख्येप्येकत्रका शाधारत्वस्यापरत्र चकाशतादात्म्यस्य श्रवणाद् भेदे वि द्ययोर्न परस्परगुणोपसंदर इति पूर्वपक्षः । राझ्न्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मैपदेशदाकाशशब्देनैकात्मोक्तं - न्यत्र च दशराकाशधारः स एवोक्त इति । सर्वसाम्याद् ब्रह्मण्युभयत्रापि सर्वगुणोपसंचारः । सगुणनिर्गुणत्वेन तु विद्याभेदपि गुणेपसंघरव्यवस्था दर्शिता । तस्मात्सर्वमव दतम् ॥

अदरादरुपः॥ ४० ॥

अस्ति वैश्वानरविद्याय तदुपासकस्यातिथिभ्यः पूर्वभाज नम् । तेन यद्यपीयमुपासनागोचरा न चिन्ता साशात्तथापि तत्संबद्वप्रथमभोजनसम्बन्धादस्ति सङ्गतिः । विचारगोचरं दर्शयति । ‘छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति । विचारप्रयो जकं संदेचमा। किं भोजनलोपहति । अत्र पूर्वपशाभा वेन संशयमाशिपति । “तद्यन्नक्तमि”ति । “भक्तागमनसं योगादिति। उक्तं खल्वेतत्प्रथमव तन्त्रे पदकर्माप्रयोजकं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५०&oldid=141710" इत्यस्माद् प्रतिप्राप्तम्