पृष्ठम्:भामती.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३पा. ३ स.३८]
[भामती]
[६४६]

मेव भवति । शेषमत्रिरोचितार्थम् । सेयं , सत्यविद्यायाः सनामाश्वरोपासनता। यद्यपि तद्यत्सत्यमिति प्रकृतानुकर्षण भेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्य काम्यविषययोर्दर्शपूर्णमासाभ्य स्वर्गकामो यजेत यावज्जी वं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः सत्यप्यनुबन्धाभेदे ऽभेद इति प्राप्ते प्रत्युच्यते । एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् । न च फलभेदः तस्योपनिषदहरदमिति । तस्यैव यदङ्गान्तरं रदस्यनाम्नो पासनं तत्प्रशंसार्थे ऽर्थवादोयं न फलविधिः । यदि पुन विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायांमार्थवादिकं फलं कलप्येत ततो जानेडाविवद्यमाणविशेषतया संवलिताधि कारकल्पना तनञ्च समस्तार्थवादिकफलयुक्तमेकमेवोपास नमिति सिद्धम् । परकोयं व्याख्यानमुपन्यस्यति । "कोचि पुनरिति । वाजसनेयकमप्यच्यादित्यविषयं छान्दोग्यम पीत्युपास्याभेदादभेदः । ततश्च वाजसनेयोक्तानां सत्यादी नामुपसंशर इत्यनर्थं सैव धि सत्यादय इति सूत्रं व्या ख्यानं तदेतदृषयति । "प्तन्न साध्विति । ज्योतिषेमकर्म सम्बन्धिनयमुद्रोथव्यपाश्रयेत्यनुबन्धाभेदेऽपि साध्यभेदात्रेद इति विद्याभेदादनुपसंहार इति ॥

कामदीतरत्र तत्र चयतनदिभ्यः॥ ३९ ॥

छन्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुषत्वेन भेदः । तथाचि । शन्देग्ये अथ यदूचत्मानमनुविद्य व्रजन्ति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४९&oldid=141708" इत्यस्माद् प्रतिप्राप्तम्