पृष्ठम्:भामती.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा -२ - १५]
[भामती]
[५५८]

प्रकाशवच्चवैयर्यात् ॥ १५॥

चकारात्सच्च। अवैयर्थात् । ब्रह्मणिसच्छुतेः । सिदान्त यति ॥

आह च तन्मात्रम् ॥ १६ ॥

प्रकाशमात्रंनहि सत्वं नाम प्रकाशरूपादन्यत् यथा सर्वगन्धत्वादयोपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं । ब्रह्मण इत्यर्थः । तदेतदनेनोपन्यस्य दूषितम् । सत्ताप्रका शयोरेकस्वे नोभयलक्षणत्वम् । भेदेन स्थानपीति नि राकृतमिति नाधिकरणान्तरं प्रयोजयति । परमार्थतस्वभे द एव प्रकर्षप्रकाशवदिति । सर्वेषां च साधारणे प्रविल यार्थत्वे सत्यरूपवदेव दि सत्प्रधानत्वादिति विनिगमनका रणवचनमनवकाशं स्यात् । एवं हि तस्यावकाशः स्याद् यदि काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिनीरूप ब्रह्मप्रतिपादनपरा भवेयुः । सर्वासां तु प्रविल्यार्थत्वेन नरूपब्रह्मप्रतिपादनार्थत्वे उक्ते विनिगमनतर्न स्यादि त्यर्थः । एकविनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदि त्यधिकाराभिप्रायम् । अनुबन्धभेदात्तु भिन्नो ऽनयोरपि नियोग इति । "कोयं प्रपच्चप्रविलय” इति । वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् । समारो पितस्य वा रज्यां सर्वभावस्येव रज्जुतत्वपरिज्ञानात् । न तावद्वस्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्तुम् । अपि च प्रज़ादशएकादिभिः पुरुषधै

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६३&oldid=141575" इत्यस्माद् प्रतिप्राप्तम्