यैः समूलमुन्मूलितः प्रपञ्चइति शङ्न्यं जगद्भवेत् । न च वास्तवं तत्त्वज्ञानन शक्यं समुच्छेत्तुम् आरोपितरूपवि रोधित्वत्तत्त्वज्ञानस्येत्युक्तम् । समारोपितरूपस्तु प्रपञ्चे. ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्बह्मतत्त्वमवबोधयङ्गि शक्यः स मुच्छेत्तुमिति कृतमत्र विधिना । नहि विधिशतेनापि वि ना तत्त्वावबोधनम् प्रवर्तस्वात्मज्ञानइति वा कुरु प्रपञ्चप्रवि लयं वेति प्रवर्तितः शनकोति प्रपञ्चप्रविलयं कर्तुम् चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भ वति । मैलिकस्य खाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वैदराशेः फलवदर्थावबोधनपरतामापादयतो वि द्यमानत्वादन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेशेरन्नि ति । न च चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायाः मस्माभिरुपपादितम् । विस्तरेण चायमर्थस्तत्रैव प्रपञ्चि तस्माज्जनिलयवाग्वा जुहुयादितिवद् विधिसरूपा एते आत्मा वा अरे द्रष्टव्य इत्यादयो न तु विधय इति । तदिदमुक्तं द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति । अपि च ब्रह्मतत्त्वं नि प्रपञ्चमक्तं न तत्र नियोज्यः कश्चित्संभवति जीवो छि नियोज्यो भवेत् स चेत् प्रपञ्च्वपक्षे वर्तते को नियोज्य स्तस्योच्छिन्नत्वात् । अथ ब्रह्मपक्षे, तथाप्यनियोज्यो ब्रह्म यो नियोज्यत्वात् । अथ ब्रह्मणे नन्योप्यविद्यया ऽन्य इवेति नियोज्यः । तदयुक्तम् । ब्रह्मभावं(१) पारमार्थिकम
(१) ब्रह्मभावमस्येति-पा० २ ।