खानुभवात्परस्परविरुह्योर्वाधबाधकभावावभासनात् । त
त्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं श
क्तिज्ञानं प्राप्तिपूर्वकत्वात् प्रतिषेधस्य । रजतशनात् प्राक्
प्रापकाभावेन उक्तेरप्राप्तायाः प्रतिषेधासंभवान् पूर्वशानप्राप्तं
तु रजतं शक्तिज्ञानमपबाधितुमर्चति । तदपबाधात्मकं च
खानुभवादवसीयते । यथाहुः ।
{
आगामित्वादबाधिस्था परं पूर्वं वि जायते ।
पूर्वं पुनरबाधित्वा परं नोत्पद्यते क चित् ॥
न च वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्या गोच रयन्न भविष्यता खसमयवर्तिनों उक्तिं गोचरयता प्रत्य येन बाध्यते कालभेदेन विरोधाभावादिति युक्तम् । मा नामास्य ज्ञासीत्प्रत्यहं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमु पकारहेतुभावमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमा कलयति । असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थि रं रजतत्वादनभूतप्रत्यभिज्ञातरजतवत् । तथा च रज सगोचरं प्रत्यक्ष वस्तुतः स्थिरमेव रजतं गोचरयेत् । त था च भविष्यच्छुक्तिकाज्ञानकालं रजतं व्याप्नुयादिति वि रोधात् शक्तिज्ञानेन बाध्यते । यथाहुः ।
रजतं गृह्यमाणं वि चिरस्थायीति गृह्यते ।
भविष्यकुक्तिकाज्ञानकालं व्याप्नोति तेन तत् ॥ इति ।
प्रत्यक्षेण चिरस्थायीति गृह्यतइति के चिद्याचक्षते । त दयुक्तं, यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्रतीन्द्रियत्वात् । अथ कालान्तरव्यापित्वं, तदययक्तं,