पृष्ठम्:भामती.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज३ पा-१.८]
[भामती]
[५३२]

मिष्टापूर्तकारी खयं निरनुशयो भुक्तभोगत्वात्तयापि पित्रा दिगतानुशयवशात्तद्विपाकान् जात्यायुर्भगांश्चन्द्रलोकादव रुह्यानुभविष्यति । अयेन ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्संबन्धिनस्तफलभागिता । ‘पतत्वयई शरीरेण यस्य भार्या सुरां पिबेदित्यादि । तथा श्राङ्वैश्वानरीयेदे पितापुत्रा दिगामिफलश्रुतिः । तस्माद्यावत् संपातमित्युपक्रमानुरोधा द्यत्किं चेलु करोतीति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं संबन्ध्यन्तरगतमिष्टापनकारिणि भाक्तं गमयितव्यम् । तथा च निरनुशयानामेव भुक्तभोगानामवरोद्ध इति प्राप्ते, उच्यते । येन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेपि सानुशया एव चन्द्रमण्डलादवरोचन्ति । कुतः । इष्टद्युतिभ्याम् । प्रत्यक्षदृष्टा श्रुतिर्दष्टशब्दवाच्या । स्फुतिश्चोपन्यस्ता। अथ वा दृष्टशब्देनोच्चावचरूपो भोग()उच्यते । अयमभिसंधिः । कपूयचरणा रमणीयचरण इत्ववरोदतामेतद्विशेषणम्। न च सति मुख्यार्थसंभवे संबन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् । न चोपक्रमविरोधाच्छुत्यन्तरविरोधाच्च मुख्यार्थासंभव इति सांप्रतम् । दत्तफलेष्टापूर्नकर्मापेक्षया ऽपि यावन्पदस्य यत्किं चेतिपदस्य चोपपत्तेः । नचि यावज्जीवमनिोत्रं जुहुयादिति यावज्जीवमाचरविश्रादिसमयेपि क्षेमं विधत्ते, नापि मध्याह्नादावपि तु सायंप्रातःकालापेक्षया । सायंप्राप्तः कालविधानसामर्थात्कालस्य चानुपादेयतयानङ्गस्यापि नि मित्तानुप्रवेशात्तथैवमिति चेत् । न । इचापि रमणयचरणा


(१) रूपः संभोग-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३७&oldid=141545" इत्यस्माद् प्रतिप्राप्तम्