पृष्ठम्:भामती.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा.२.२०]
[४२५]

निबन्धनं प्रतीत्य समुपादमभ्युपेत्य प्रत्ययेपनिवन्धनः प्र तीत्य समुपादो दूषितः । सम्प्रति वेढपनिबन्धनमपि तं दूषयतीत्यर्थः । दूषणमाच । "इदमिदानीमिति । "नि- रुध्यमानस्येति । न तावदैशेषिकवनिरोधकारणस निध्यै निरुध्धमानता स्वीक्रियते() वैनाशिकैरकारणं वि नाशमभ्युपगच्छद्भिः । तस्यानिष्टत्वात् । तस्माद्विनाशशग्रस्त त्वंमचिरनिरुद्वत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्दत्वं च चिरनिरुद्धत्वं विवशितं, तथा चोभयोरप्यभावगतत्वाद्री तुत्वानुपपत्तिः । शङ्कते । ‘अथ भावश्चत”इति । का रणस्य चि कायेत्पादात्प्राकालसत्तार्थवती न कार्यकाल तदा कार्यस्य सिद्धत्वेन तत्सिद्यर्थायाः सत्ताया अनु पयोगादिति भावः । । तदेनलोकडा दूषयति । "भाव तस्येति । श्रुत्वा व्यापृत्य भावाः प्रायेण च कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम्, इतरथा तु लोकविरोध इति । पुनः शङ्कते । ‘अथ भाव एवेति । यथाङ्गः । भूनियैषां क्रिया सैव कारकं सैव चोद्यते इति । भवत्वेवं व्यापारवत्ता तथापि क्षणिकस्य न कार णत्वमित्यञ्च । "तथापि नैवोपपद्यते” क्षणिकस्य कारण भावः । हृत्सुवर्णकारण द्वि घटादयश्च रुचकादयश्च ६ वर्णात्मानो ऽनुभूयन्ते । यदि च न कार्यसमये कार णं सत्कथं तेषां तदात्मनानुभवः । न च कारणसाह्यं कार्यस्य न तु तादास्यमिति वाच्यम् । असति कस्य


(१) ‘स्वीक्रियते’ । ३ । ४ पुस्तकेषु नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३०&oldid=141175" इत्यस्माद् प्रतिप्राप्तम्