पृष्ठम्:भामती.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.१ ष.१४]
[भामती]
[३५४]

पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना । "वैदिकचेति। कर्मकाण्डमोक्षशाखव्यवद्वारसमर्थना। “खनव्यवहारस्येवे’- ति विभजने । ‘यथा सुप्तस्य प्राकृतस्येति । कथं चानृतेन मोक्षशास्त्रेणेति यदुक्तं तदनुभाव्य दूषयति(१९)। ‘कथं वसत्येने"ति । शक्यमत्र वक्तुं श्रवणाद्युपाय आत्मसाशा त्कारपर्यन्तो वेदान्त समुत्थोपि ज्ञाननिचयो ऽसत्यः सोपि चि वृत्तिरूपः कार्यतया निरोधधर्मा यस्तु ब्रह्मखभव(२)- साक्षात्कारोस न कार्यस्सखभावत्वात्तस्मादचोद्यमेतत् ‘क- थमसत्यासत्योत्पाद' इति । यत्खलु सत्यं न तदुत्पद्यतइति कुनस्तस्यासत्यादुत्पादो यच्चोत्पद्यते तत्सर्वमसत्यमेव । सां व्यवदारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्ये व श्रवणादीनामप्यभिन्नं, तस्मादभ्युपेत्य वृत्तिखरूपस्य ब्र ह्मसाक्षात्कारस्य परमार्थसत्यत व्यभिचारेङ्गावनमिति म न्तव्यम् । यद्यपि सांव्यवचारिकस्य सत्यादेव (३) भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरविस्तज्ज्ञानं वा ऽसत्यं ततो भयं सत्यं (४) जायतइत्यसत्यासत्यस्योत्पत्तिरुक्ता । यद्यपि चाद्विज्ञानमपि खरूपेण सत्तथापि न तउज्ञानत्वेन भयहे तुरपि त्वनिर्वाच्यादिरूषितत्वेन । अन्यथा रज्जुज्ञानादपि


(१) परिहरति-पा० २ । ३ । ४ ।

(२) ब्रह्मभाव-पा० २ ॥

(3) सांसारिकस्य सत्यादेव-पा० २ । ससारिकसत्यादेव - -२ 3 । सव्य वहारिकसत्यादेव-पा० ४ ।।

(४) भयहेतुरहिज्ञानमसत्यं–पा १ २ | भयहेतुरहिज्ञानमसत्यं ततो भयं सत्यं पा० 3 ।४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५९&oldid=141064" इत्यस्माद् प्रतिप्राप्तम्