पृष्ठम्:भामती.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा.४ ६.२२]
[३२१]

भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासंग तिः । न जातु घटः पटे भवति । ननूक्तं यथा नदी । समुदं भवतीति । का पुनर्नद्यभिमता ऽऽयुशनः । किं पाथ परमाणव उतैषां संस्थानभेद आचेखित्तदारब्धेवयवी । तत्र संस्थानभेदस्य वा ऽवयविने समुद्रनिवेशे विनाशात् क स्य समुद्रेणैकता नदीपाथ परमाणूनां तु समुपायःपरमाणु भ्यः पूर्वावस्थितेभ्यो भेद एव नांभेदःएवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नयमेव मतमास्थाय जोवं प रमामनीशमाचख्युस्तेषां कथं ‘निष्कलं निष्क्रियं शान्त मिति न श्रुतिविरोधः । निष्करमिति सावयवत्वं व्यासेधि न तु सांशत्वम् । अंशश्च जीवः परमात्मने नभसइव क नमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं वायेरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावनभे नभसेंशस्तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति वेद् , धन्त तर्वि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्सं येगे वेत्युक्तं भवति । न च कर्णनेमिमण्डलं तस्यांशस्त स्य तते भेदात् । तत्संयोगे नभोधर्मत्वात्तस्यांश इति चे ( त् । न । अनुपपत्तेः । नभीधर्मत्वे च तदनवयवं सर्वत्रभि नमिति तत्संवेगः सर्वत्र प्रथेत । नह्यस्ति संभवे ऽनव यवमव्याप्य वर्ततइति । तस्मात्तत्रास्ति चेद्वाप्यैव । न चेद्या मेति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसंबन्ध्यधी ननिरूपणतया न सर्वत्र निरूप्यतइति चेत् न नाम निरूप्य ताम । तत्संयुक्तं तु नभः श्रवणयेग्यं सर्वत्रास्तीति सर्वत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२६&oldid=141030" इत्यस्माद् प्रतिप्राप्तम्