पृष्ठम्:नवरात्रप्रदीपः.djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
प्रतीपन्नीर्णयः

"पूर्वाह्णे पूजयेच्छिवाम्" इतिपूर्वाह्णपदोपादानात्पूर्वाह्णव्यापित्वं प्रतिपदः सेत्स्यतीति वाच्यम्, तत्रोच्यते-अत्र प्रतिपच्छब्दः प्रतिपदादिनवतिथ्युपलक्षणार्थः । ‘‘प्राणभृत उपदधाति” इतिवत् ‘‘छत्रिणो गच्छन्ति’ इतिवद्वा । अन्यथा एकस्यां तिथौ ‘प्रतिपत्सु” इतिबहुवचनस्य ‘‘यथाक्रमम्" इतिक्रमविधानस्य चाऽनुपपत्ते: । न च पाशबहुत्ववदेव बहुत्वाSभिप्रायेण बहुवच- नमिति वाच्यम् । क्रमविधानस्य तथाऽप्यनुपपत्तेः । तथा च प्रतिपदादितिथिषु

 त्रिकालं पूजयेद्देवीं त्रिकाल शिवपूजकः ।

 इत्यादिवाक्यविहितपूजास्वाद्यपूजाकालत्वेन पूर्वाह्णविधानान्न विरोधः । अन्यथा त्रिकालपूजाश्रवणात्रिकालव्यापिन्येव तिथिरङ्गं स्यान्न खण्डतिथिरिति प्रधानलोपप्रसङ्गः । किं चाऽस्य नक्तव्रतत्वप्रतिपादकेषु वाक्येषु नक्तं पूजाश्रवणान्नक्तकालव्यापिनी प्रतिपत्कुतो नेष्यते ? वस्तुतस्त्वस्मिन्वाक्यं तलतलस्नानाङ्गत्वेन पूर्वाह्नश्रवणन्न पूजाङ्गत्वाऽसाडः । तथा च डाम