पृष्ठम्:नवरात्रप्रदीपः.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
प्रतिपन्निर्णयः

 तस्माद्भद्रान्विता राजन् ! नवरात्रे प्रशस्यते ।
 आश्विने मासि मे भक्तैः कर्त्तव्या शुक्लपक्षजा ।।
 प्रतिपत्त्रिमुहूर्त्ता या पुत्रपौत्रप्रवर्द्धिनी ।
 धनवृद्धिकरी पुंसां सर्व्वसौख्यकरी तथा ॥
 अतोऽन्यथा न कर्त्तव्या नवरात्रव्रते मम । इत्यादि ।

मार्कण्डेयोSपि--

 सुस्नातस्तिलतैलेन चापराह्णे महामुने !।
 प्रतिपद्याश्विने मासि शुद्धे विद्धेSथ भद्रया ।
 एवं शुद्धे च विद्धे च भद्रया प्रतपत्तिथौ ।
 भद्रकालीं स्तुवीतार्या श्रद्धाभक्तिसमन्वितः ॥

 इत्यादीनि तत्रेदमुत्तरम्-भवदुदाहृतेषु हेमाद्रि-माधवीय-चन्द्रिका-कल्पतरु-कालादर्श-निबन्धसर्व्वस्व-स्मृतिसङ्रग्रहः-दुर्गोत्सव-भोजराजीय-रूपनारायणीय-निर्णयामृत-धर्मप्रदीपादिनिबन्धेष्वपि चिन्तामणि-वर्षप्रदीप-रत्नाकर–पारिजात-राजमार्तण्ड-प्रतापरुद्रीय-हरनाथ–सययप्रकाशादिष्वप्यदर्शनात्समूलत्वाSनिश्चये कथमेषु विश्वासः। अस्तु वा समूलत्वं,