पृष्ठम्:नवरात्रप्रदीपः.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
नवरात्रप्रदीपे

 मोहादथोपदेशाद्वा कृतं पुत्रविनाशकम् ॥
 आरम्भे नवरात्रस्य द्वितीया त्रुटिसम्मिता ।
 न केवलं तिथिं हन्ति वेधात्सा पुत्रसम्पदम् ॥

तथा –

 द्वितीयादिकलोपेता प्रतिपच्चण्डिकार्चने।
 वर्ज्जनीया प्रयत्नेन विषलेशो यथाऽम्भसि॥
 यदि मोहात्प्रकुर्व्वीत ज्येष्ठपुत्रो विनश्यति ।

धवलनिबन्धेऽपि--

   श्रीदेव्युवाच--

 प्रतिपच्छेषसंयुक्तद्वितीयायां ममार्चनम् ।
 कृत धर्मं नाशयति सन्ततिं पुत्रपौत्रिकीम् ॥
 अमायुक्तैव सा ग्राह्या प्रतिपञ्चण्डिकार्चने ।
 अन्यथाकरणे तावद्राज्यभङ्गः प्रजायते ॥

  इत्यादिवाक्यैर्द्वितीयायुक्तप्रतिपन्निषेधात्, अमायुक्तप्रतिपदि देवीपूजाविधानाच्च सामान्यतो विशेषतोऽप्यमायुक्तप्रतिपद्येव नवरात्रारम्भ इति सिद्धम् । अत्र केचित् द्वितीयायुक्तप्रतिपदि तदारम्भमिच्छन्तो वा-