पृष्ठम्:नवरात्रप्रदीपः.djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
नवरात्रपदीपे-

 कालिकापुराणेऽपि--

  आश्विने मासि मेघान्ते प्रतिपद्या तिथिर्भवेत् । ।
  तस्यां नक्तं प्रकुर्वीत रात्रौ देवीं च पूजयेत्॥इत्यादि।

 तस्माद्यत्र प्रधानं च नक्तकाले विधीयते तदेव नक्तव्रतम् । न तु नक्तकालभोजनमात्रप्रयुक्तं नक्तव्रतत्वम्। येनोक्तदोषः स्यात् । एकभक्तनक्ताऽयाचितोपवासानां च फलिसंस्कारद्वारा वैकमङ्गत्वं तत्राऽपि "फलस्य कर्मनिष्पत्तेः, तेषां लोकवत्परिमाणतश्च फलविशेषः स्यात्" ( जै.सू. १-२-१-१७) इतिन्यायेन प्रधानोपकारतारतम्येन फलतारतम्यं कल्प्यम् । तेनैकभक्तादि चतुष्टयप्रतिपादकवाक्यानां नानर्थक्यविरोधादिकं शङ्क्यम् तस्मान्नवरात्राभिधं कर्म नक्तव्रतमिति सिद्धम् । अत एव वचननिचयात् । माधवाचायैरपि 'तस्य नक्तव्रतत्वात्' इत्यनेन नक्तव्रतत्वं सिद्धान्तितम् । यत्तु नृसिंहप्रसादो दाहृतस्कान्दभविष्यादिवाक्यानां निर्मूलत्वे तत्र तत्राऽनुपलब्धिः, अनेकानिबन्धऽपरिग्रहश्च हेतुरित्युक्तम् ,तद्रूपनारायणीयादिसर्व्वर्देशीयशिष्टपरिगृहीतनिबन्दहेषु हीतनिबन्धेषु प्रत्यक्षपरिदृश्यमानानामपि वचनानां