पृष्ठम्:नवरात्रप्रदीपः.djvu/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
नवरत्रस्य नक्तव्रतत्वम् ।

 इत्याद्युत्पत्तिवाक्ये नवरात्रिकालसम्बन्धेनोत्पन्ना । पूजा, सैव च नवरात्ररूपकालसंयोगेन निमित्तेन नवरात्रशब्दाभिधेया । ततश्च

यावज्जीवं नरः स्त्री वा नवरात्रं महाव्रतम् ।
कुरुते चण्डिकाप्रीत्यै भुक्तिं मुक्तिं च विन्दति ।।

 इत्यादिविनियोगविधिना नवरात्रशब्देनोपादाय सैव च भुक्त्यादिफले विनियुज्यते । तेनाऽत्र पूजैव प्रधानम् । यथा "दर्शपूर्णमासयोरिज्याप्राधान्यमविशेषात्" इत्यत्राऽमावास्यापौर्णमासीकालसंयोगेनोत्पन्ननामाग्नेयादीनां तत्कालसंयोगेनैव निमित्तेन दर्शपूर्णमासशब्दोपात्तानां फलसम्बन्धात्प्राधान्यमुक्तं , तद्वत्प्रकृतेऽपि । तथा च प्रधानभूतायाः पूजाया नक्तकाले विहितत्वान्नक्तव्रतत्वम् । एतस्य विधानं च रूपनारायणीयोदाहृतदेवीपुराणे-- }}

|आश्विने मासि मेघान्ते महिषासुरमर्द्दिनीम् ।
देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीषु च ॥ इति ।

    तथा तत्रैव---

मातॄणां चैव देवीनां पूजा कार्या तदा निशि। इति