पृष्ठम्:नवरात्रप्रदीपः.djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रात्रिपदार्थनिर्वचनम् ।
नवरात्र
    रात्रिपदार्थनिर्वचनम् |

दशम्यां पारणनिषेधात् । तस्य चाऽग्रे वक्ष्यमाणत्वात् । तस्माद्रात्रिशब्दस्तिथिपरः । एवं च भविष्यपुराणीयं लिङ्गमपि घटते । यथा--

प्रथमा द्वितीया तृतीया चतुर्थी च नराधिप!।
एतास्तु एकभक्तेन प्रवदन्ति मनीषिणः ।।
पञ्चमी च तथा षष्ठी सप्तमी चाष्टमी नृप ! ।
उपवासपरो भूत्वा पूजयेच्चण्डिका बुधः ॥ इति

 तथा भविष्योत्तरेपि--

प्रतिपद्याहृतं खड्गं द्वितीयायां धृतं धनुः ।
तृतीयायां करे चक्रं चतुर्थ्यां चर्म निर्मलम् ॥
पञ्चम्यामाददे शूलं षष्ठ्यां तु परशुं तथा ।
गदामबिभ्रत्सप्तम्यामष्टम्यां शक्तिमुत्तमाम् ।
नवमी च सदा देव्या मूर्तिर्द्दैत्यविनाशनी ॥ इति ।

 यद्यहोरात्रपरतैव विवक्षिता स्यात्तर्हि प्रतिपदादिशब्दैर्नाभिदध्यात्, किं तु प्रथमाहादिशब्दैर्ब्रूयात् ब्रूते च तथा । तस्मात्तिथिपर एव रात्रिशब्दः । एवं च

तिथिवृद्धौ तिथिह्रासे नवरात्रमपार्थकम् ।

 इत्यपि डामरकल्पीयं वचनं सङ्गच्छते । अत एव


नवरात्रोपरि टिप्पणी
वसिष्ठधनुर्वेदसंहिता
धनुषोपरि टिप्पणी