धर्मार्थकाममोक्षार्थमनुष्ठेयं द्विजातिभिः ॥ |
इतिनृसिंहप्रसादोदाहृतभविष्योत्तरवाक्ये "नवरात्राभिधं कर्म" इतिश्रुत्यैव साक्षान्नवरात्रशब्दस्य कर्मनामधेयत्वमाविष्कृतमित्यलं बहुनोक्तेन । तस्मान्नवरात्रशब्दः कर्मनामधेयमिति सिद्धम् । एवं युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ द्युमणौ परिस्फुरति नवरात्रशब्दस्य नामधेयत्वमनङ्गीकुर्वतां प्राच्यानामतितरां तमोवलितत्वमवगम्यते । ननु नवरात्रकालसम्बन्धस्य तिथिह्रासवृद्ध्यादावसत्त्वेनानियतत्वात्कथं नवरात्रशब्दप्रवृत्तिनिमित्ततेति चेत् मैवम् । रात्रिशब्दस्य तिथिपरत्वात् । तिथिपरता चाऽवश्यं तस्य वाच्या । अन्यथा कालपरतायामपि तस्य तिथिवृद्ध्यादौ विवक्षितार्थाऽसिद्धेः। अत एव डामरकल्पे –
तिथिवृद्धौ तिथिह्रासे नवरात्रमपार्थकम् । |
इति साक्षादेवाऽभिहितम् । न च प्रतिपदमारभ्य यथा नवाहोरात्राणि व्याप्नोति व्रतं तथा कार्यमिति वाच्यम् । तथा सति तिथिक्षयवशेनाष्टरात्रादौ नवम्यां पारणविधानाऽनुपपत्तेः । न चास्तु तथेति वाच्यम् ।