पृष्ठम्:नवरात्रप्रदीपः.djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नवरात्रपदार्थनिर्णयः

त्रेणाऽऽगतोऽस्मि’ इत्यादौ नत्ररात्रशब्दप्रयोगादतिप्रसङ्गतादवस्थ्यमिति वाच्यम् । तस्यास्मत्साधकत्वात् । तद्यथा-यतश्चैत्राश्चिनसम्बन्धिरात्रिसमुदायविशेषे अन्यत्रापि नवसङ्ख्याकरात्रिसमुदाये नवरात्रशब्दप्रयोगः । अत एव शुद्धयौगिकत्वम् , न योगरूढत्वमिति । अत्रोच्यते । नाऽयं नवरात्रशब्दः कालवचनः । प्रतिपदि तदारम्भविधानाऽनुपपत्तेः । प्रतिपद्रूपे काले कर्मणो विधानं शक्यम्, न तु नवरात्ररूपस्य कालस्य । तस्य पुरुषकृत्यसाध्यत्वात् । विधानं च नारदीयपुराणे श्रूयते-

आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् ।
आदौ प्रतिपदं प्राप्य तिथिं चण्डीमनःप्रियाम् ॥

कुर्यादिति शेषः । रुद्रयामलेऽपि--

आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् ।
प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै ॥

प्रतापरुद्रनिबन्धे धौम्योऽपि विदधाति-

आश्विने शुक्लपक्षे तु कर्तव्यं नवरात्रकम् ।
प्रतिपदादिक्रमेणैव यावद्धि नवमी भवेत् ॥