सप्तम्यन्तोऽपि क्वचित्पाठः । देवीपुराणेपि--
मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः ।
सम्पूज्य नवदुर्गां च नक्तं कुर्यात्समाहितः।।इत्यादि।
न च नवसङ्ख्याकरात्रसमुदायसाध्यत्वाद् व्रतस्य लक्षणया नवरात्रशब्दवाच्यत्वमिति वाच्यम् । ‘नवरात्र व्रतं कुर्यात् इति विधौ लक्षणाप्रसङ्ग “न विधौ परः शब्दार्थः” इतिन्यायविरोधात् । न च “न विधौ परः शब्दार्थः’ इत्यत्र विधिशब्देन प्रत्यये गृह्यते न तु वाक्यम् । तेन प्रत्ययांश एव न लक्षणा तद्वाक्यान्तर्गतशब्दान्तरेऽपीति वाच्यम् ।‘‘आद्यमेकादशेऽहनि” इत्यत्र एकादशाहशब्दस्य आशौचाऽनन्तरदिनोपलक्षकत्वे तन्न्यायविरोधस्य भट्टविश्वेश्वरैरप्यङ्गीकृतत्त्वात् । किं च तस्य कालपरत्वे ‘‘प्रारभ्य नवरात्रं स्यात्” इत्यदौ नपुंसकलिङ्गाऽनुपपतिः।“रात्राह्नाहाः पुंसि पा० सू० २–४-२९ ) इत्यनेन रात्रान्तस्य पुल्लिङ्गत्वाऽनुशासनात् । अस्तु वा “सङ्ख्यापूर्वं रात्रं क्लीबम्” ( का० वा० ) इति वार्तिकेन नपुंसकत्वम् , तथाऽपि पूर्वोक्तयुक्त्या सामानाधिकरण्येन च कर्मनामधेयत्वमेव