पृष्ठम्:नवरात्रप्रदीपः.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

}}

धर्माधिकारिविनायकपण्डितविरचितः-

नवरात्रप्रदीपः


श्रीगणेशाय नमः । श्रीएकवीरायै नमः।

अभिनन्द्य जगद्वन्द्यपदद्वन्द्वं विनायकम् ॥
नवरात्रविधिं वक्ति श्रीविनायकपण्डितः ॥ १ ॥
अमुष्मिन्सन्दर्भे वचनरचनायामपि मनाङ्
 मनः कर्तुं शक्यं यदपिहि न गीर्वाणगुरुणा ॥
तथापेि श्रीदुर्गाचरणपरिचर्याव्रतविधेर्विचारे
 या शक्तिर्मम स खलु तस्यैव महिमा ॥ २॥

अथ नवरात्रव्रतनिर्णयः।

 तत्रादौ नवरात्रशब्दो विचार्यते, किमयं कालवचनः उत कर्मवचन इति । तत्र कालवचन इति प्राप्तम् । अनुशासनसामर्थ्यात् । तथाहि “अच्प्रत्यन्ववपूर्वात्सामलोम्नः” (पा०सू० ५-४-७५) इत्यतोऽच् प्रत्ययानुवृत्तौ "तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः"(पा०