पृष्ठम्:भामती.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र.१ पा.४.२]
[२८९]

नस्यावाप्त्यन्यात्मज्ञानविषयवरत्रयप्रदानानन्तर्भावो ऽन्यत्र धर्मादित्याः प्रश्नस्य । तुरीयवरान्तरकरूपनायां वा ढतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्र धानाख्यानमप्यनन्तभृतं वरप्रदाने ऽस्तु महतः परमव्यक्तमि त्याक्षेपः । परिहरति । "अत्रोच्यते नैवं वयमिहे"ति । व स्तुती जीवपरमात्मनेरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकं, क्षत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवञ्च जीवपरमात्मनोरभेदस्तत्रतत्र (९) भृत्युपन्यासेन भगवता भा व्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्व(२)प्र- अस्येत्यादि । येयं प्रेत इति वि नचिकेतसः प्रश्नमुपश्रुत्य त त्तत्कामविषयमलोभं चास्य प्रतीत्य म्हृत्युर्विद्याभीपिनं नचि केनसं मन्यइत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मवेत्तरमुवाच । "तं दुर्दर्शमि”ति । यदि पुनर्जीवात्प्राशे भिद्यत जोवगोचरः प्रश्नः प्राशगोचरं चेत्त रमिति किं केन संगच्छेत । अपि च यद्विषयं प्रश्नमुपश्रुत्य म्वत्युनैष प्रशंसितो नचिकेता यदि तमेव भयः पृच्छेत्तदुत्तरे (२) चावदध्यात् ततः प्रशंसा दृष्टार्था स्यात् प्रश्नान्तरे त्व सावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह । “यत्प्रश्ने"ति । यस्मिन्प्रशने यत्प्रशनः । शेषमतिरोचितार्थम् ॥


(१) उत्तरत्र-पा० २ ।

(२) नास्तित्वेति नास्ति । २ ।

(3; पूज्येत तदुनरे-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९४&oldid=140972" इत्यस्माद् प्रतिप्राप्तम्