पृष्ठम्:भामती.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-१ पा. ३ ख.४३]
[भामती]
[२८०]

म्, यूचावस्थानसमर्थ इति । अत एव सर्वस्येशानः सा मय्येन ह्ययमुक्तेन सर्वस्येष्टे तदिच्छानुविधानाज्जगतः । श्र त एव सर्वस्याधिपतिः सर्वस्य नियन्ता ऽन्तर्यामीति या वत् । किं च स एवंभूतेो हृद्यन्तज्र्येतिः पुरुषेो विज्ञान मया न साधनां कर्मणा भूयानुत्कृष्टा भवतीत्येवमाद्या श्रुतये ऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्मा जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपाद नपरे येायं विज्ञानमय इत्यादिर्वाक्यसंदर्भ इति सिङ्कम् ॥ इति श्रीमद्दाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यवि भागे भामत्यां प्रथमस्याध्यायस्य टतीयः पादः ।

आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगगृहीतेर्दर्शयति च ॥१॥

स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणे लक्षणमुक्त जन्माद्यस्य यत इति, तचेदं लक्षणं न प्रधानादै गतं येन व्यभिचारादलक्षणं स्यात्, किं तु ब्रह्मण्येवेतीक्षतेनशब्दमि ति प्रतिपादितम् । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्म कारणवाद प्रति विद्यते, न प्रधानकारणवाद ' प्रतीति प्र पञ्चितमधस्तनेन खूत्रसंदर्भण, तत्किमवशिष्यते यदर्थमुक्तरः संदर्भ श्रारभ्यते । न च मद्दतः परमव्यक्तमित्यादीनां प्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८५&oldid=140956" इत्यस्माद् प्रतिप्राप्तम्