पृष्ठम्:भामती.djvu/२८४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[प्र. १ पा. ३६.४२]
[२७६]

स्य तस्याभावः । तंप्रतिपादका चि शतश आगमा ईक्ष तेर्नाशब्दं गतिसामान्यादित्यादिभिः पूत्रसंदर्भरुपपादिताः। न चात्रापि संसार्यतिरिक्त परमात्मसंकीर्तनाभावः, सुषुप्त्यु त्क्रान्त्यस्तसंकीर्तनात् । न च प्राशस्य परमात्मने जीवा- नेदेन संकोर्तनं सति संभवे राधेः शिर इतिवदेपचारि कं युक्तम् । न च प्राशशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृ- ( त्तिः कथं चिदशविषये व्याख्यातुमुचितः । न च प्रशा प्रकर्षो ऽसंकुचवृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदेन्यत्र सं भवति । न चेत्थंभूतो जीवात्मा, तस्मात्सुषुप्युठन्योर्भ देन जीवान्प्राशस्य परमात्मने व्यपदेशाद्योयं विज्ञानमय इत्यादिना जीवात्मानं लेक सिद्धमनूद्य तस्य परमात्मभावे नधिगतः प्रतिपाद्यते । न च जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थावबेधपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्टं भवितुमर्हति । अत एव च संसारिणः प रमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतया ऽवमर्श उ पपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्या त्मनः संभवात्रापेक्षिकं कल्पयिष्यते । यत्तु मध्ये बुद्वान्ताद्य वस्थेपन्यासादिति नानेनावस्थावत्त्वं विवक्ष्यते । अपि त्वव- स्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारचितं परमा त्मानं विवशति । “उपरितनवाक्यसंदर्भालोचना”दिति ॥

पत्यादिशब्देभ्यः॥ ४३ ॥

“सर्वस्य वशी" वशः सामर्थे सर्वस्य जगतः प्रभवत्यय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८४&oldid=141936" इत्यस्माद् प्रतिप्राप्तम्