तत् खलु आध्यात्मिकम्, आधिभौतिकम् आधिदैविकञ्च इति । तत्राध्यात्मिक द्विविधम्-शारीरं मानसं च । शारीरंवातपित्तश्लेष्मणां वैषम्यनिमिपत्तिरिति शङ्काम् । ‘विशेषणं(१) पूर्वम्'इति विशेषणस्य त्रयपदस्य पूर्वनिपातापत्तेः । त्रिदुःखाभिघाताद्, त्रयदुःखाभिघा ताद्'इत्युक्तौ छन्दोभङ्गापत्तेरिति ।
आध्यात्मिकमिति ! अत्रात्मपदं स्वसङ्कातपरम् । सङ्का तश्च मन:शरीरेन्द्रियरूपः । विभक्तयर्थे अव्ययीभावाद् ‘आत्मानि इत्यध्यात्मं तान्निमित्तमाध्यात्मिकम्(२) । तत्त्वं चान्तरोपायसाध्यत्वम् । अन एवान्तरमिदमित्याचक्षते । आधिभौतिकमित्यत्र भूतपदं व्याघ्रचौरादिप्राणिपरम्, न पृथिव्यादिभूतपरमपि, देवपदेनैव तेषां लाभात् । नच पृथिव्यादिषु देवशब्दप्रवृत्तौ मानाभाव इति वाच्यम् । “इमास्तिस्रोदेवताः' इत्यादेर्मानत्वात् । टीकास्थस्थावरपदं तु लौकिकाभिप्रायेणेति । तन्निमित्तमाधिभौतिकम् ।
आधिदैविकमित्यत्र देवपदेन पृथिव्यादयोऽपि ग्राह्याः, तन्निमित्तमाधिदैविकम् । बाह्वोपायसाध्यत्वाद्विविधमिदं वाह्यमित्याचक्षते ।
बाह्येन्द्रियाणि शरीरेऽन्तर्भाव्य साधनद्वैविध्येनाद्यस्य द्वैवेिध्यमाह- शारीरं मानसं चेति । ननु सर्वस्यापि दुःखस्य मनोधर्मत्वेन मानसत्वात् कथं मानसत्वामानसत्वव्यवहार इति चत्,
(१) “उपसर्जनं पूर्वम्” इत्यनेन समासाविधायकशास्रघटक- प्रथमान्तपदबोध्यस्योपसर्जनस्य समसे पूर्वनिपात इत्यर्थकेन विशेषणस्य पूर्वनिपातबोधनादिति भावः । (२) “अव्ययं विभक्तिसमीप-'इत्यनेन सूत्रेण सप्तम्यर्थकाधि शब्दस्यात्मशब्देन समासे ततोऽध्यात्मादित्वाठ्ठ्ञि रूपम् । एवमग्रेऽपीति बोध्यम् ।