[ ४३ ]
पपत्तेः। न खलु तत्त्वमसीत्यादेवक्यान्निर्विचिकित्सं शुद्धबु
द्वेोदासीनखभावमकत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देचा
द्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबे
महति । अनईश्व कथं कर्ता वा ऽधिकृतेो वा । यद्युच्येत
निश्चिते ऽपि तत्व विपर्यासनिबन्धने व्यवचारे ऽनवर्तमा
ने दृश्यते, यथा गुडस्य माधुर्यविनिश्चयेपि पित्तेोपचतेन्द्रि
याणां तिक्तावभासानुवृत्ति,रास्वाद्य थूत्वात्य त्यागात् । -
स्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानं, ते न च विद्या स
इकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मक
कथमविद्यामुछिनत्ति, कर्मणे वा तदुच्छेदकस्य कुत उ
च्छेद इति वाच्यम् । मजातीयस्वपरविरोधिनां भावानां ब
जलमपलब्धेः । यथा पयः पयेन्तरं जरयति, स्वयं च जी
र्यति । यथा विषं विषन्तरं शमयति, स्वयं च शाम्यति ।
यथा वा कतकरजे रजेन्तराविले पाथसि प्रक्षिप्त रजेन्त
राणि भिन्दत् स्वयमपि भिद्यमानमनाविनं पाथः करोति ।
एवं कर्माविद्यात्मकमपि अविद्यान्तराणि श्रपगमयत्स्वयम
यपगच्छतीति ॥ अत्राच्यते । सत्यं सदेव सेोम्येदमित्युपक्र
मात्तत्वमसीत्यन्तात् शब्दाढ(१) ब्रह्ममीमांसेपकरणादस्छ।
दभ्यस्तादु निर्विचिकित्से ऽनाद्यविद्योपादानदेचाद्यतिरिक्तप्र
त्यात्मतत्त्वावबेधे जातेपि अविद्यासंस्कारानुवृत्तावनुवर्तन्ते
सांसारिकाः प्रत्ययास्तद्यवचाराश्च, तथापि तानप्ययं व्यव
चारप्रत्ययान् मिथ्येति मन्यमानेो विद्वान्न श्रद्दत्ते पित्तेपचते
न्द्रियइव गुडं थूत्कृत्य त्यजत्रपि तस्य तिक्तताम् । तथा चायं
क्रिवाकरणैतिकर्तव्यताफलप्रपञ्चमतात्विकं विनिश्चिन्चन् क-
(१) शब्दसन्दर्भात्-पा०२ ।