विमुक्ताश्चेत्यत्र विमुक्तशब्देन रमाया अपि प्राप्ति परिहर्तुमाह ।॥विमुक्ता दुःखादिति । तथा चव दुःखध्वंसवन्त इत्यर्थः । विमुक्तानामपि पूर्व दुःखसंस्थत्वादाह । वर्तमानदुःखा इति । एते एव अनयोर्लक्षणे । एवमुत्तरत्रापि संज्ञानिरुक्तयैव लक्षणं लभ्यत इति द्रष्टव्यम् ॥ योज्य इति । विमुक्तादुःखसैस्थाश्चेति योज्य इत्यर्थः । प्राधान्यक्रमेणेति । दुःखमुक्तदुःखसंस्थयोर्मध्ये दुःखमुक्तानां प्राधान्यादित्यर्थः । ननु पूर्वे दुःखसंस्थानां द्वैविध्यस्यानुक्तत्वेन इति च द्विधेति द्वैविध्यसमुच्चयः कथमित्यत आह । अयोग्या इत्यतः परमिति । अयोग्याश्चतीत्यर्थः। तदेव प्राधान्यमेव । मुक्तियोग्यतद्योग्ययोर्मध्ये मुक्तियोग्यानां प्राधा न्यात्त एवादौ निर्दिष्टा इत्यर्थः । ननुचेति । स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्थाश्चति प्राधान्यक्रमेण विमुक्तानां प्रथममुद्दिष्टत्वात्तदनुसारेण विमुक्तानां प्रभेद् एव आदौ वक्तव्यः । तमनुक्त्वा दुःखसंस्था मुक्ति योग्या इति अनन्तरोद्दिष्टदुःखसंस्थानामादौ विभागकथने किं निमित्त मित्यर्थः । तदभिधानानन्तरमिति । दुःखसंस्थानां योग्यायोग्यभेद कथनानन्तरमित्यर्थः । अयं भावः । यदि देवष्यदिभेदेन पञ्चधा विमुक्त अयोग्यामुक्तरिति । अत्र मुक्तियोग्यत्वं मुक्तिप्रयोजकदृढभक्तयादि रूपत्वम् । अतद्रपत्वं तद्विरोधि द्वेषादिरूपं वा मुक्तयोग्यत्वमिति गु-॥ दुःखसंस्था इति मूलम् ।। दुःखे संस्था वर्तमाना इति भाति । तदनुपपन्नम् । जीवानामेवदुःखाधिकरणत्वेन दुःखस्य जीवाधि करणत्वाभावादित्यतस्तद्याचष्ट ॥दुःखसंस्था इति। सम्यक् तिष्टत इति संस्थं वर्तमानमिति यावत् । संस्थं दुःखं येषान्ते वाहिताग्न्यादिष्विति विशेषणपद्त्वात्तेन दुःखसंस्था इति मूलस्य वर्तमानदुःखा इति व्याख्या नेन नोक्तानुपपत्तिरित्यभिप्रायः । न च सुषुप्त्यवस्थापन्नेऽव्याप्तिः । तत्रापि शरीरेन्द्रियादिरूपदुःखस्यवर्तमानत्वादित्याहुः । वर्तमानदुःख पदेन दुःखप्रागभाव एव विवक्षित इत्यदोष इत्यप्याहुः ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२१
दिखावट