४१ टी-न चैवं प्रागभावप्रध्वंसः प्रध्वंसग्रागभाव इति प्रवाही प्रसज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावः त्वेन चाङ्गीकृतत्वात् । वृत्तित्वम् । अत एवात्माश्रय इति चेन्न । प्राक्त्वस्य साधारणकाल विशेषनिष्ठस्य स्वभावतया घटत्वादिवदखण्डधर्मत्वाङ्गीकारात् । उक्तञ्च भगवत्पादैः। 'खत एव काले विशेषाङ्गीकृतेश्च' इति । । पूर्वेकावधि रिति । यस्याभावस्य पूर्वकाल एव अवधिः अनधिकरणसमयः नोत्तर काल इत्यथ । तथा च यः अभावः प्रतियोगिकालापेक्षया उत्तरकाल एवास्ति सः प्रध्वंस इति पर्यवसितोऽर्थः । इममेवार्थमभिप्रेत्य लक्ष्ये उपपादयति । प्रतियोगीति । अत्राभावपदानुपादाने प्रतियोगिकाला पेक्षया उत्तरकाल एव विद्यमाने उत्तरकाले अतिव्याप्तिः स्यात् । तदर्थ मभावपदम् । प्रतियोगिकालापेक्षया इत्यनुक्तौ असंभवः । पटध्वंसस्य तन्त्वाद्युत्पत्तिकालात् प्रागाप सत्वादतः प्रतियोगिकालापेक्षया इत्युक्तम् । तथा चव नासम्भवः । उत्तरेत्यनुक्तौ घटप्रतियोगिकाला त्प्राकाले विद्यमाने प्रागभावेऽतिव्याप्तिःस्यात्तदर्थ उत्तरपदम् । अव धारणानुक्तौ घटप्रतियोगिकान्योन्याभावात्मके पटप्रागभावे प्रतियोगि भूतघटकालापेक्षया परतोऽपि विद्यमाने अतिव्याप्तिःस्यात् । तदर्थ उत्तरकाल एवेत्युक्तम् । तस्य प्रागपि सत्वान्नातिव्याप्तिरिति न पदानां वयथयामत्यवधयम् । अन्यतु उत्तरत्यस्य विनाशयभाव इत्यथः । पूवत्यस्य प्रागभावप्रतियोग्यभाव इत्यर्थ इत्याहुः । तचिंत्यम् । प्रागभावप्रध्वंस निरूपणयोः परस्परसापेक्षत्वेन परस्पराश्रयप्रसङ्गादिति । उत्तरैका वधिरिति प्रागभावस्य विनाश्यभावत्वमुक्तम्। पूर्वेकावधिरिति प्रध्वंसस्य साद्यभावत्वमुक्कम् । रा–प्रागभावनाशः प्रतियोगिनः अन्यः प्रध्वंसप्रागभावोऽपि तथे त्युपेत्य शङ्कते ॥ नचैवमिति । प्रागभावप्रध्वंसयोर्नाशप्रागभावाङ्गीकार
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०८
दिखावट