सामग्री पर जाएँ

पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
श्रीपाञ्चरात्ररक्षा

यत्तु पश्चादुक्तम्-------

'प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते " ॥ इति ।

दत्तस्मृतौ वेदाभ्या
सस्य योगेना
विरोध ।

अत्र योगासमर्थस्य तच्छेषभूत स्वाध्यायः, समर्थस्य तु योग एवेति न समानकालतदुभयविधायकशास्त्रद्वयविरोध । विस्तरेण चाह योगमन्त्रे दक्षः । तत्र चैष सार प्रोक्त------

"सर्वोपाधिविनिर्मुक्त क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तर " ॥ इति ।

याज्ञवल्क्यश्च–“ वृत्तिहीन मन कृत्वा क्षेत्रज्ञं ब्रह्मणि न्यसेत्' । इति । वृत्तिहीन वाह्यवृत्तिरहितमित्यर्थ । अत स्वाध्याय-योगयोरेकैकस्मिन् प्रदोषादिकाले तदशभेदेन क्रमात् प्रयोगेऽपि[] न विरोध । 'यत्रैकाग्रतातत्राविशेषात्' इति शारीरकसमर्थितप्रकारेण एकाग्रतानुगुणकालान्तरेऽपि स्वगुणभूतस्वाध्यायादिनिरोधेनापि योगोऽनुष्ठातु युक्त । याम-यामार्धविभागे स्वाध्यायदिषु नातिदूरपूर्वापरन्यूनाधिकनाडीकाविभागादयस्तु मतभेदतया निर्वाह्या इति । एवं स्मृत्यन्तराण्यपि संवादनीयानि[]

 अत पञ्चसु कालेषु तैस्तैः कर्मभिर्भगवत्सेवनस्य नित्यत्वेन विधानात्,

पञ्चकालधर्माविश्य-
कतानिगमनम् ।

व्यास-दक्षाद्युक्तमर्यादया भगवदाज्ञानुपालनेऽपि नीरन्ध्रभगवदुपासनसिद्धे अधिकृतशास्रोक्त-

  1. प्रयोगभेदेऽपि- क, ख, ग, झ
  2. संपादनायानि-क, ख, ग, च, झ.