इदम् उपनिषद्वाक्यं तु वेदशाखाभि सह श्रुतिश्चैकायनाख्या स्वात्मना कथमधीतेति सनत्कुमाराय नारदेन कथिता कामपि कथाम् अभिव्यनक्ति । अतश्चानुमीयते, यत् वैदिकजनबहुमत प्रमाणतो वेदसमानधर्मा पञ्चरात्राह्वय प्राक् परमपुरुषोपदिष्ट शिष्टजनोज्जीवनहेतु अस्त्यनुवर्तमान कालाद्बहोरेष आगम इति । श्रीनिगमान्तगुरुभिरपि "श्रुतिमूलमिदं तन्त्र प्रमाण कल्पसूत्रवत् इति श्रुतिमूलकत्वमस्य शास्त्रस्य प्रमाणान्तरोल्लेखेन प्रतिपाद्य, "इत्यादिवचन तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम्" इति विवरणेन एकायनश्रुतिरप्यस्य मूलमिति निरूपितमास्ते न्यायपरिशुद्धौ शब्दाध्याये[१] । स्पन्दप्रदीपिकानाम्नि पञ्चरात्रागमग्रन्थे “पाञ्चरात्रश्रुतावपि–यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेण हि भगवान् शास्तावगन्तव्य " इति "पाञ्चरात्रोपनिषदि च–ज्ञाता च ज्ञेय च वक्ता च वाच्य च भोक्ता च भोज्यं च' इति च[२] या पाञ्चरात्रश्रुति पाञ्चरात्रोपनिषद च भट्टोत्पल इति ख्यात उत्पलाचार्य (उत्पलवैष्णव इति ष्रेडर्महाशय) स्वयमुदाहरति ते च द्वे शाखामेकायनाख्यामेव विनिर्दिशत इत्यभिप्रयन्ति विमर्शका । उत्पलाचार्येण स्वप्रबन्धे समुद्धृतानि तादृशानि वचनानि यदि यथावद्विमृश्यन्ते, तर्हि तदनुरोधेन पाञ्चरात्रश्रुति , पाञ्चरात्रोप निषत्, पाञ्चरात्रसंहिता चेति पाञ्चरात्रशास्त्रमिदं त्रिधा विभज्य व्यवहृतमिति निर्णेतव्यमस्ति । भगवद्यामुनार्यजीवितकालस्य प्राय सप्ततिसवत्सरेभ्य प्राक् दशम्या कैस्तवशताब्द्याम् उत्तरापथे प्राप्तप्रथस्य उत्पलाचार्यस्य कालेऽपि
पञ्चरात्रागम श्रुतिरूपेण प्राप्तप्रचार समभवदिति प्रायेण विषयाश एष एव