भाष्यद्वयोपेता १॥१॥२९
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ २५ ॥
क्ष्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते न् ॥ २६ ॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
[ शांकरभाष्यम्] रथैर्वर्तन्त इति सरथाः । सतूर्या: सवादित्रास्ताश्च न हि लम्भनीया: प्रापणीया ईदृशा एवंविधा मनुष्यैर्मर्त्यैरस्मदादिप्रसादमन्तरेण । आभिर्मत्प्रत्ताभिर्मया दत्ताभिः परिचारिणीभिः परिचारयस्वात्मानं पादप्रक्षालनादिशुश्रूषां कारयात्मन इत्यर्थः । नचिकेतेो मरणं मरणसंबद्धं प्रश्नं प्रेतेऽस्ति नास्तीति काकदन्तपरीक्षारूपं मानुप्राक्षीर्मैवं प्रष्टुमर्हसि ॥ २५ ॥
एवं प्रलोभ्यमानोऽपि नचिकेता महा-हदवदक्षोभ्य आह श्र्वो भविष्यन्ति न भविष्यन्ति वेति संदिह्यमान एव येषां भावो भवनं त्वयोप भोगानां ते श्र्वोभावाः । किंच मर्त्यस्य मनुष्यस्यान्तक हे मृत्यो य न्द्रियाणां तेजस्तज्जरयन्त्यपक्षयन्त्यप्सर:प्रभृतयो भोगा अनर्थायैवैते । वीर्यप्रज्ञातेजोयशःप्रभृतीनां क्षपयितृत्वात् । यां चापि दीर्घजी दित्ससि तत्रापि शृणु । सर्वं यद्ब्र्ह्म्णोऽपि जीवितमायुरल्पमेव किमुतास्मदादिदीर्घजीविका । अतस्तवैव तिष्ठन्तु वाहा रथादयस्तथा नृत्यगीते च॥२६॥
किंच न प्रभृतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कम्यचित्तृप्तिकरो दृष्टः । यदि नामास्माकं वित्ततृष्णा स्याल्लप्स्यामहे प्स्यामह इत्येतद्वित्तमद्राक्ष्म दृष्टवन्तो वयं चेत्त्वा त्वाम् । जीवितमपि [प्रकाशिका] वाहनादिशुश्रूषां कारयेत्यर्थः । मरणमनु मरणान्मुक्तेः पश्चान्मुक्तात्मस्वरूपमिति यावत् । मरणशब्दस्य देहवियोगसामान्यवाचिनोऽपि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम् ॥ २५ ॥
एवं प्रलोभ्यमानोऽपि नचिकेता अक्षुभितहृदय आह-हे अन्तक त्वदुपन्यस्ता ये मर्त्यस्य कामास्ते श्वोभावाः श्व अभावो येषां ते तथोक्ता दिनद्वयस्थायिनो न भवन्तीत्यर्थः । सर्वेन्द्रियाणां यदेतत्तेजस्तत्क्षपयन्ति । अप्सरःप्रभृतिभोगा हि सर्वेन्द्रियदौर्बल्यावहा इति भावः । ब्रह्मणोऽपि जीवितं स्वल्पं किमुतास्मदादिजीवितम् । अतश्चिरजीविकापि न वरणार्हेति भावः । वाहा रथादयस्तिष्ठन्त्विति शेषः ॥ २६ ॥
न हि वित्तेन लब्धेन कस्यचित्तृप्तिर्दृष्टचरी । " न जातु कामः कामानामुपभोगेन शाम्यति " म. भा. ययातेराख्याने। इति न्यायादिति भावः ।