सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००४

विकिस्रोतः तः

सूत उवाच-
गतेषु तेषु गोलोकं वैष्णवं तमसः परम् ।
शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् १।
ब्राह्मण उवाच-
सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः ।
अमृतस्य महाकुंभं रक्ष दत्तं मयाधुना २।
तीर्थयात्रां प्रयास्यामि अनया भार्यया सह ।
एवमस्तु महाभाग करिष्ये रक्षणं शुभम् ३।
कुंभं दत्वा स मेधावी तस्य हस्ते महात्मनः ।
दशवर्षप्रमाणं तु तपस्तेपे निरंतरम् ४।
कुंभं रक्षति धर्मात्मा दिवारात्रमतंद्रितः ।
पुनः स हि समायातः शिवशर्मा महायशाः ५।
मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम् ।
कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी ६।
मांसपिंडोपमौ जातौ द्वावेतौ मायया कृतौ ।
संनिधिं तस्य घोरस्य विप्रस्य सोमशर्मणः ७।
समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ ।
कृपया परयाविष्टः सोमशर्मा महायशाः ८।
तयोः पादं नमस्कृत्य भक्त्या नमितकंधरः ।
भवादृशौ न पश्यामि तपसाभिसमन्वितम् ९।
गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि ।
दासवद्देवताः सर्वा वर्तंते सर्वदा तव १०।
आदेशं प्राप्य विप्रेंद्र आकृष्टास्तेजसा तव ।
तवांगे केन पापेन गदोयं वेदनान्वितः ११।
संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् ।
इयं पुण्यवती माता महापुण्या पतिव्रता १२।
या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति ।
सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम् १३।
रागद्वेषौ परित्यज्य विविधेनापि कर्मणा ।
या च शुश्रूषते कांतं देववद्गुरुवत्सला १४।
सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम् ।
शिवशर्मोवाच-
मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम् १५।
नरेण कर्मयुक्तेन पापपुण्यमयेन हि ।
शोधनं च कुरुष्व त्वमुभयो रोगयुक्तयोः १६।
शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि ।
एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः १७।
शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः ।
मया पापेन दुष्टेन कृपणेन द्विजोत्तम १८।
किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेत् ।
एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः १९।
श्लेष्ममूत्रपुरीषं च उभयोः पर्यशोधयत् ।
पादप्रक्षालनं चक्रे अंगसंवाहनं तथा २०।
स्नानस्थानादिकं सोपि तयोर्भक्त्यान्वितः स्वयम् ।
द्वावेतौ हि गुरू विप्रः सोमशर्मा महायशाः २१।
तीर्थं नयति धर्मात्मा स्कंधमारोप्य सत्तमः ।
द्वावेतौ हि स्वहस्तेन स्नापयित्वा तु मंगलैः २२।
सुमंत्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकम् ।
तर्पणं च पितॄणां तु देवतानां तु पूजनम् २३।
द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः ।
स्वयं होमं ददात्यग्नौ पचत्यन्नमनुत्तमम् २४।
संज्ञापयति सुप्रीतौ द्वावेतौ च महागुरू ।
शय्यासने च तौ विप्रः प्रस्वापयति नित्यशः २५।
वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति ।
तांबूलं बहुगंधाढ्यमुभयोरर्पयेत्स तु २६।
सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत् ।
मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ २७।
तयोस्तु वांछितं नित्यं सोमशर्मा महायशाः ।
अनेन क्रमयोगेन नित्यमेव प्रसादयेत् २८।
सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत् ।
सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः २९।
निंदितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ ।
कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः ३०।
न कृतं शोभनं मह्यं त्वयैव कुलपांसन ।
एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः ३१।
अताडयद्दंडघातैः शिवशर्मा सदातुरः ।
एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित् ३२।
मनसा वचसा चैव कर्मणा त्रिविधेन च ।
संतुष्टः सर्वदा सोपि पितरं परिपूजयेत् ३३।
तद्वत्स सोमशर्मा वै मातरं च दिनेदिने ।
यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ३४।
अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा ।
पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ३५।
एवं बहुतिथे काले शतसंख्ये गते सति ।
शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिंत्य वै ३६।
मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसंज्ञकम् ।
मातृखंडानिमान्पुत्र यत्र तत्र क्षिपस्व हि ३७।
मद्वाक्यं पालितं तेन कृता न मातरि कृपा ।
एतत्स्वल्पतरं दुःखं निर्जीवे घातमिच्छतः ३८।
साहसं तु कृतं तेन पुत्रेण वेदशर्मणा ।
अस्याधिकमहं मन्ये यतोऽयं चलते न च ३९।
निमेषमात्रमेवापि साहसं कारयेत्पुनः ।
अपरं सत्यसंपन्नं प्रभावं तपसः पुनः ४०।
नित्यं समाराधनेपि अधिकं चास्य दृश्यते ।
तस्मादस्य परीक्षा च समये तपसः कृता ४१।
भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति ।
मायया च निजांगेऽपि कुष्ठरोगो निदर्शितः ४२।
श्लेष्ममूत्रमलानां च घृणां नैव करोति च ।
व्रणान्विशोधयेन्नित्यं स्वहस्तेन महायशाः ४३।
पादसंवाहनं दद्याच्छौचं चैव महामतिः ।
दुःसहं वचनं मह्यं दारुणं सहते सदा ४४।
भर्त्सने ताडने चैव सदाभीष्टप्रवाचकः ।
एवं दुःखसमाचारो मम पुत्रो महामतिः ४५।
दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः ।
अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ४६।
विचार्य मनसा विप्रः शिवशर्मा महामतिः ।
पुनर्मायां चकाराथ कुंभादपहृतं पयः ४७।
पश्चात्तं च समाहूय सोमशर्माणमब्रवीत् ।
तव हस्ते मया दत्तममृतं व्याधिनाशनम् ४८।
तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम् ।
येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ४९।
एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा ।
समुत्थाय त्वरायुक्तः सोमशर्मा कमंडलुम् ५०।
तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम् ।
कस्य पापस्य वै कर्म केन मे विप्रियं कृतम् ५१।
इति चिंतापरो भूत्वा सोमशर्मा सुदुःखितः ।
पितुरग्रे च वृत्तांतं कथयिष्याम्यहं यदा ५२।
ततः कोपं प्रयास्येत गुरुर्मे व्याधिपीडितः ।
सुचिरं चिंतयित्वा तु सोमशर्मा महामतिः ५३।
यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि ।
तपस्तप्तं मयापूर्वं निर्व्यलीकेन चेतसा ५४।
दमशौचादिभिः सत्यं धर्ममेव प्रपालितम् ।
तदा घटोऽमृतयुतो भवत्वेष न संशयः ५५।
यावदेव महाभागश्चिंतयित्वा विलोकयेत् ।
तावच्चामृतपूर्णस्तु पुनरेवाभवद्घटः ५६।
तं दृष्ट्वा हर्षसंयुक्तः सोमशर्मा महायशाः ।
गत्वा गुरुं नमस्कृत्य कुंभमादाय सत्वरम् ५७।
गृहाण त्वं पितश्चेमं पयः कुंभं समागतम् ।
पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ५८।
एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः ।
शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ५९।
हर्षेण महताविष्ट इदं वचनमब्रवीत् ६०।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने चतुर्थोऽध्यायः ४।