शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ३

विकिस्रोतः तः
← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]
आह्निकम् ४ →

शब्दकौस्तुभ-I
वृद्धिरादैच (पाoसूo1-1-1)
आकार ऐकार औकारश्च वृद्धिसंज्ञः स्यात्। संज्ञाप्रदेशा ``वृद्धिरेचि (पाoसूo6-1-88) इत्यादयः। तदुदाहरणमेवास्याप्युदाहरणं बोध्यम्। इहाच्च ऐच्चेतीतरेतरयोगद्वन्द्वः ``सुपां सुलुक् (पाoसूo7-1-39) इति सुलुग्वा। अथवा समाहारे द्वन्द्वः। नचैवं ``द्वन्द्वाच्चुदषहान्तात् (पाoसूo 5-4-106) इति टच् स्यादिति वाच्यं, समासान्तविधेरनित्यत्वात्। अत्र ज्ञापकं तु द्वित्रिभ्यां ष मूर्ध्नः (पाoसूo5-4-115) इति षविधानम्। नद्धइ ``बहुव्रीहौ सकथ्यक्षणोः (पाoसूo 5-4-113) इति षचि प्रकृतेऽपि क्रियते। षचश्चित्त्वसामर्थ्याज्जायमानमन्तोदात्तत्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं यथा बाधते तथा ``द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (पाoसूo 6-2-197) इति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम्। तच्टच ``द्वित्रिभ्याम् (पाoसूo6-2-43) इत्यस्य क्वचिल्लब्धावकाशत्वे सत्येव सङ्गच्छते, न त्वन्यथा। अवकाशश्च समासान्तानामनित्यतायां सत्यामेव लभ्यते। `त्रिमूर्द्धानं सप्तरश्मिं गृणीषे' इति यथा। तस्मात्षप्रत्ययविधानं ज्ञापकमिति स्थितम्। तथा ``द्वित्रिभ्याम् (पाoसूo 6-2-197) इति सूत्रे बहुव्रीहिग्रहणमपीह ज्ञापकम्। अन्यथा `पाद्दन्मूर्द्धेषु' इत्येव निर्द्दिशेत्। एवं हि सति कृतसमासान्तपाद्दत्प्रक्रमोऽपि न विरोत्स्यते। बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते।
   ननु षष्ठीतत्पुरुषादिवारणाय बहुव्रीहिग्रहणमस्तु। तथाहि, द्वयोर्दन्ता इति विगृह्य `द्विदतः पश्य' इति प्रयोगे ``पद्दन् (पाoसूo 6-1-63) इति दतादेशः। स एवेह निरनुबन्धकत्वाद्वा गृह्येत। न च ``पद्दन् (पाoसूo 6-1-63) इति सूत्रे तदनतविधिदौर्लभ्यात्कथमेतदिति वाच्यम् (पाoसूo6-1-63) इति सूत्रे तदन्तविधिदौर्लभ्यात्कथमेतदिति वाच्यम् ``ष्यङः सम्प्रसारण्म् (पाoसूo 6-1-13) इति सूत्रस्थपूर्वपक्षन्याये न ``सिद्धं त्ववयवानन्यत्वात् (भाoइo) इत्याष्टमिकभाष्यवार्त्तिकन्यायेन चावयवस्य कार्यलाभात्। अन्यथा `हास्तिशीर्ष्या उपैषि' इत्यादावगतेरिति वक्ष्यते। तस्मात्कथं बहुव्रीहिग्रहणं ज्ञापकमिति चेत्? न, पूर्वोत्तरसाहचर्यबलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दतृ इति सानुवन्धस्यापि सुपठत्वाच्च
। ``स्फिगपूतवीणाञ्जेऽध्वकुक्षिसीरनामनाम् च (पाoसूo 6-2-187) इति सूत्रे ``अपाच्च (पाoसूo 6-2-186) इत्यनुवृत्त्या `अपस्फिगम्' इत्यादावुत्तरपदान्तोदात्तविदायकेऽध्वशब्दग्रहणमपीह लिङ्गम्। ``उपसर्गादध्वनः (पाoसूo 5-4-85) इत्यच्प्रत्ययस्य नित्यत्वे हि चित्त्वादेव सिद्धं स्यात्। तथा ``प्रतेरंस्वादयस्तत्पुरुषे (पाoसूo6-2-113) इति सूत्रंऽश्वादिगणे राजन्शब्दस्य पाठोऽपीह लिङ्गम्। अन्यथा ``राजाहः सखिभ्यष्टच् (पाoसूo 5-4-91) इति टचैव सिद्धे किन्तेन ? यत्तु ``ऋक्प्रब्धूः पथाम् (पाoसूo 54-74) इत्यत्र टिलोपस्येव ``प्रकृतिवदनुकरणम् (पoभाo 36) इत्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं ज्ञापकमिति। तन्न, अतिदेशोऽयमनित्य इति ऋलृक्सूत्रे प्रपञ्चितत्वादिति दिक्। ``कृतमनयोः साधुत्वम् इत्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकूलाः। अनयोः पदयोरिति स्वरसात्। अथवा `आत्' इत्यसमस्तमेव ``पस्पशायां शब्दाप्रतचिपत्तिः' इति वार्त्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात्। अस्मिंश्च पक्षे अनयोःक सूत्रखण्डयोरिति नेयम्। पक्षान्तराभिप्रायकमेव वा तत्। वृद्धिशब्दस्तु तन्त्रेणावृत्त्या वा योजनीयः। ``द्विर्वचनेऽचि (पाoसूo 1-1-59) ``इग्यणः सम्प्रसारणम् (पाoसूo1-1-45) इत्यादाविवोभयथाऽप्यदोषात्। आदिति तपरकरणमैजर्थं, तेन त्रिमाक्षत्रचतुर्मात्राणामैचां संज्ञा न भवतीत्यादि ``एओङ् ``ऐऔच् सूत्रयोः प्रपञ्चितम्। नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वाच्यम्, असन्देहार्थतयाऽऽकारशेषत्वस्यापि सम्भवात्। अस्तु वाऽऽदैजिति पदम्, ``ऋत इद्धातोः (पाoसूo7-1-100) इत्यादौ दपरत्वमेवाश्रित्य तपरसूत्रे दकारोपि प्रश्लिष्यते इति ``तित्स्वरितम् (पाoसूo 6-1-185) इति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वाद् दात्परस्यापि तत्कालग्राहकत्वात्। वस्तुतस्तु दकारप्रश्लेषपक्षोऽभ्युच्चयमात्रम्। इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम्।
   ननु ``चोः कुः (पाoसूo 8-2-30) इति कुत्वमैच्छब्दे प्राप्नोति चतुष्टयी शब्दानां प्रवृत्तिरिति पक्षेऽस्य संज्ञाशब्दतया लौकिकत्वेनानुशासनविषयत्वात्। त्रयीपक्षेऽपि जातिशब्दत्वलसम्भवात्। वैशेषिकपरिभाषया द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दुर्वारत्वात्। वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारदिहापि साऽस्तु। व्यक्तिविशेषाश्च स्वरूपसत्ता अतद्भेदेनानुगतीकृतास्सत्तोपदायकाः। तदुक्तम्---``तस्यां सर्वे शब्दा व्यवस्थिताः इति। आद्यन्तावयवद्वारा समुदायानुकरणं ऐच् वा शब्दः। अनुकरणशब्दाश्च जातिशब्दा एव तत्रानुकार्यनिष्ठजातेः प्रवृत्तिनिमित्तत्वात्। न चाद्यपक्षे सूत्रवैयर्थ्यम्, णदीयशास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति नियमार्थं सूत्रारम्भात्। तदुक्तं कैयटेन --``अनेकशक्तेः शब्दस्य शत्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वात् इति। अनेकस्मिन्ननेका वा शक्तिरस्येति विग्रहः। अवच्छेदकबेदेऽपि लाघवाच्छक्तिरेकैव। औपाधिको भेद इति प्रवादस्तु उपाधिभिन्न इत्यत्र पर्यवसन्न इति मतेनाऽऽद्यः पक्षः। उपाधिस्थित्यधीनस्थित्को जीवब्रह्मबेदवदुपदेयेऽपि भेदोऽस्तीति मतेन द्वितीयः कल्पः. ``न कोपधायाः (पाoसूo 6-3-37) इति वक्ष्यमाणत्वात्। अवच्छेदः संकोचः.क स च यद्यपि शक्तेर्निरवयवतया न सम्भवति तथापि तदितरस्मिस्तात्पर्यविरह एव शक्तिसङ्कोचोऽत्राभिमतः। ``सर्वे सर्वार्थवाचकाः इत्यभ्युपगमेऽपि तात्पर्यं क्वचिदेवेत्यस्य निर्विवादत्वात्। शक्तिः परं कारणतापरणर्याया सर्वत्र दुर्वारेत्युक्तम्। न चैवम् ``अन्यायश्चानेकार्थत्वम् इत्यस्य निर्विषयता, णैरुषयसङ्केतनिरपेक्षस्य प्रसिद्धतरसम्बन्धस्य विना प्रमाणं बहुषु न कल्पनमिति तदर्थात्। गौणमुख्यविभागोऽपि प्रसिद्ध्यप्रसिद्धिनिबन्धन एव। गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव। अतएव प्रसिद्धेऽपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः। उक्तं च---
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित्।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।।
वृद्ध्यादीनां च शास्त्रेऽस्मिन् शत्त्यवच्चेदलक्षणः।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ।। इति ।।
   वस्ततस्तु साध्वसाधुबहिर्भावपक्षेऽप्येषामनुशासनविषयताऽस्त्येवेति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम्। तस्मात्सर्वथापिकुत्वं प्राप्नोत्येवेति चेत्? सत्यम्, ``अयस्मयादीनि छन्दसि (पाoसूo 1-4-20) इति भत्वप्रवृत्त्याकुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते। जश्त्वाविध्येकवाक्यतापन्ना तु पदसंज्ञाऽस्त्येव। `ससुष्टुभा स ऋक्वता गणेन' इत्यत्र तु विपरीतम्--कुत्वे पदत्वमस्ति जश्त्वे तु नेति। विषयबेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टान्तता बोद्ध्या। तेन ``उपदेशेजनुनासिक इत् (पाoसूo1-3-2) इत्यादौ कुत्वाबावो जश्त्वं च सिद्ध्यति। ``छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिः इत्याशङ्क्य, `छन्दोवत्सूत्राणिभवन्ति इति भाष्यम् इष्टिरियं भाष्ययकृतः। यद्वा, छन्दःशब्दः स्वर्यते। ``स्वरितेनाधिकारः (पाoसूo 1-3-11) अधिकं कार्यं गौणस्यापि ग्रहणमित्यर्थः। तेन छन्दोङ्गेष्वपि वक्तव्यम् इति वार्त्तिकवचनात् ``षष्ठीयुक्तः (पाoसूo1-4-9) इति सूत्रे `छन्दसि वा' इति विभज्य एकासंज्ञेति नियमस्य छन्दासि विकल्पनाद्वा। यद्वा, ``अयस्मयादीनि (पाoसूo1-4-20) इत्यनेनोभयसंज्ञाप्रयुक्तकार्यभाजः समुदाया निपात्यन्ते, न तु प्रकृता भसंज्ञैव विधीयते। अत एव कार्यविशेषपुरस्कारसम्भव इति बोध्यम्। तस्मात्कुत्वं नेति स्थितम्। कुशब्दस्य ``अणुदित् (पाoसूo 1-1-69) इत्यनेन संज्ञात्वेन विनियोगात्तत्र च प्रागुक्तरीत्यमतबेदसत्वाज्जातिविशेषः प्रवृत्तिनिमित्तम्, व्यक्तिविशेषोपहिता सत्तैव वा, शब्दस्वरूपं वा, तस्यापि ग्राह्यत्वं ग्राहकत्वं चेति पस्पशोक्तरीत्या व्यक्तिविशेषणतया भानाभ्युपगमात्। तथाचोक्तत्रितयान्यतममिह त्वप्रत्ययार्थः, प्रकृतिजन्यबोधे प्रकारीभूतत्वं,प्रयोगोपाधिमाश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात्। यद्वा, प्रकृतिः शब्दस्वरूपपरा, तत्प्रवृत्तिनिमित्तत्त्वे तु त्वतलादीनां शक्तिरेवेति मतान्तरमपि वक्ष्यते। उभयथाऽपीह त्वप्रत्ययेन स्वार्थाश्रयः ककारो लक्ष्यते। तेन कुत्वम् नेत्यस्य ककारादेशो नेति पर्यवसितोऽर्थः। आह च---
सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता।
संज्ञाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिः ।। इति ।।
   इत्यं पदविभागः पदसाधुत्वं चोक्तम्। वाक्यार्थस्तु संज्ञासंज्ञिभावः। तथाहि, समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाऽऽकारादयो वृद्दिं प्रत्यभेदेन संसर्गेण विशेष्याः। विरुपोपस्थितिस्तु विशेषणीभूतं शब्दस्वरूपमादाय बोध्या। एतेन ``इन्द्रो मरुत्वान्मधवा (अoकोo1-1-44) इत्यादि व्याख्यातम्। न तु तत्रापि मरुत्वदादिशब्दानां तत्तद्वाच्ये लक्षणेति ग्राह्यम्, उक्तरीत्या लक्षणां विनैवोपपत्तेः. अत एवोद्भिदधिकरणे विशिष्टविधिपक्षं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामदेयत्वं सिद्धान्तितम्। अन्यथा नामधेयत्वेऽपि लक्षणायास्तुल्यतयाऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक्।
   स्यादेतत्। किमादैज्मात्रस्य वृद्धिसंज्ञा आहोस्विद् वृद्धिशब्दमावर्त्त्य वृद्दिरिति ये आदैचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुक्श्लुलुप्संज्ञावत्तद्भावितानामेवेति ? नाद्यः, `सर्वभासः `सर्वकाकः' इत्यादौ ``उत्तरपदवृद्दौ सर्वं च (पाoसूo6-2-105) इति सूत्रेण पूर्वपदान्तोदात्तत्वप्रसह्गात्। इष्यते तु ``समासस्य (पाoसूo6-1-223) इत्यन्तोदात्तः. न च ``सर्वस्य सुपि (पाoसूo6-1-191) इत्याद्युदात्तता शङ्क्या सतिशिष्टेन समासस्वरेण बाधात्। ``सर्वस्तोमः इत्यादौ तु ``बहुव्रीहौ प्रकृत्या पूर्वपदम् (पाoसूo6-2-1) इत्यनेन समासान्तोदात्तत्वे बाधिते ``सर्वस्य सुपि' (पाoसूo6-1-191) इति भवत्येव। इह तु कर्मधारयत्वात्समासान्तोदात्तत्वमेवेति बोध्यम्। किञ्च तावती भार्या यस्येति बहुव्रीहौ ``तावद्भार्यः' न सिद्ध्येत्। ``वृद्धिनिमित्तस्य च तद्धितस्य' (पाoसूo 6-3-39) इति पुंवद्भावप्रतिषेधप्रसङ्गात्।
   न द्वितीयः, `शालीयः' इत्यादौ वृद्धलक्षणस्य च्छप्रत्ययस्यासिद्धिप्रसङ्गात्। किञ्चैवम् `आम्रमयं' `शालमयम्' इत्यादौ ``नित्यं वृद्धिशरादिभ्यः (पाoसूo4-3-144) इति नित्यो मयट् न स्यात्। किञ्च `आम्रगुप्तायनिः' `शालगुप्तायनिः' ``उदीचां वृद्दादगोत्रात् (पाoसूo4-1-157) इति वृद्धलक्षणः फिञ्न स्यात्। ननु ``प्राचामवृद्धात्फिन् बहुलम् (पाoसूo 4-1-160) इति फिनाऽप्येतत्सिद्धम्। नह्यत्र फिञ्फिनोः स्वरे रुपे वा विशेषोऽस्ति ``ञ्नित्यादिर्नित्यम् (पाoसूo6-1-197) इत्याद्युदात्तस्योभयत्राविशिष्टत्वात्। न च `आम्रगुप्तायनीभार्यः' इत्यत्र ``वृद्धिनिमित्तस्य च तद्धितस्यरक्तविकारे (पाoसूo 6-3-39) इति पुंवद्भावप्रतिषेधसिद्ध्ये फिञेव कर्त्तव्य इति वाच्यम् ``जातेश्च (पाoसूo 6-3-41) इत्यनेनपि प्रतिषेधसिद्धेः। न चाम्रगुप्तायनेश्छात्रा इति वृद्धाच्छे विवक्षिते ``फक्फिञोरन्यतरस्याम् (पाoसूo4-1-91) इति लुग्विकल्पेन `आम्रगुप्तीयाः' `आम्रगुप्तायनीयाः' इति द्वैरुप्यमिष्टं, तच्च फिञं विना न सिध्यतीति वाच्यम् ``फक्फिञोः (पाo सूo4-1-91) इत्यत्र यूनीत्यनुवृत्या त्वदुदाहृतरूपद्वयस्य सिद्धान्तेऽप्यसम्मतत्वात्। अत एव तत्र यून्येवोदाहृतम्। यस्कस्यापत्यम् ``शिवादिभ्योऽम् (पाoसूo 4-1-112) यास्कः, तस्यापत्यं युवा ``अणो द्व्यचः (पाoसूo4-1-156) इतिक फिञ् यास्कायनिः, तस्य छात्राः `यास्कीयाः' `यास्कायनीयाः, इति तस्मात्फिनाऽपि सिद्धौ किमर्थं फिञेवेष्यते इति चेत्? उच्यते, उक्तरीत्या रूपसिद्धावपि प्राचामुदीचां वाचार्याणां स्वस्वमतपर्रच्युतिरेव तावद्दोषः। सिद्धान्ते ह्युदीचाम्। `आम्रगुप्तायनिः' इष्टः, प्राचां त्वनिष्टः। उक्तरीत्या तूदीचां न सिद्ध्येत्, प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतप्रच्यवः। तथा च ``ऋतो भारद्वाजस्य (पाoसूo 7-2-63) इति सूत्रे `जहर्थ' इत्यादौ गुणे रपरत्वे च कृते ऽनजन्तत्वाद् ``अचस्तास्वत् (पाoसूo7-2-61) इत्यस्याप्राप्तौ नियमानुपपत्तेः `ऋतो भारद्वाजस्य (पाoसूo7-2-63) इतीदं विधायकं स्यात्ततश्च `पेचिथ' इत्यादापिण्न स्यादिति दूषणे प्राप्ते ``अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य। उपदेशे त्वतः, भारद्वाजस्येत्येव। ततः--ऋतः, भारद्वाजस्येति निवृत्तम्। एवञ्च सकललक्ष्यप्रसिद्धिः इति सूत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति--``सिध्यत्येवम्। अयं तु बारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति इति। अत एव ``अचस्तास्वत्(पाoसूo 7-2-61) इत्यत्र ``उपदेसेऽत्वतः (पाoसूo 7-2-62) इत्येतदुपदेशग्रहणमपकृत्य सिद्धान्तयिषयतीति दिक्। किञ्च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवरिगोत्रे ``फश्छच (पाoसूo4-1-149) इति छठकौ न स्याताम्। तत्र फिञेव गृह्यते न तु फिन् वृद्धादित्यदिखारादिति स्थितम्। ततश्च `आम्रगुप्तायनीयः' `आम्रगुप्तायनिकः' इति स्यात्। न च।
यमुन्दश्च सुषामाच वाष्र्यायणिः फिञः स्मृताः।
   इति वृत्तौ त्रयाणामेव परिगणनादन्येभ्यश्छठकौ न भवत एवेति वाच्यम्, भाष्यकृता परिगणनस्यानाश्रयणात्। अन्यथाऽत्रैव सूत्रे `सौवीरेष्विति किम्? तैकायनिः' इतिपर्रत्युदाहरणं न सङ्गच्छेत। तैकायनिशब्दस्य तत्रापाठात्। अत एव ``यूनि लुक् (पाoसूo 4-1-90) इत्यत्रोदाहियते--तिकस्यापत्यं ``तिकादिभ्यः फिञ् (पाoसूo4-1-154) तैकायनिः, तस्यापत्यं युवा ``फेश्छच (पाoसूo4-1-149) तैकायनीयः, तस्य छात्राः युवप्रय्यस्य लुकि कृते ``वृद्धाच्छः (पाoसूo4-2-114) `तैकायनीयाः' इति। न हि सति परिगणने तैकायनेश्छः सम्भवति न वा तल्लोपः। अत एव यूनिलुक्सूत्रे स्थित्वा परिगणनमर्वाचीनमिति हरदत्तादतयोऽप्याहुः। अपिच फिञि सत्याम्रगुप्तायनेरपत्यं युवा ``प्राग्दीव्यतोऽण् (पाoसूo 4-1-83) तस्य ``ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (पाoसूo1-4-58) इति लुकि `आम्रगुप्तायनिः' इत्येवं रूपं पितरि पुत्रे चेष्यते। पिनि तु सति तन्न स्यात् ञितः परत्वाभावात्। न च `अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्' इति तत्सिद्धिः, ब्राह्मणगोत्रे तदप्रवृत्तेः। किञ्च तद्भावितग्रहमपक्षे ``मालादीनां च(पाoसूo 6-2-88) इत्यनेनैव पूर्वपदाद्युदात्तत्वसिद्धेः। अपिच वृद्धिशब्दे तन्त्रावृत्त्याद्याश्रयणाद्गौरवम्। ``मृजेर्वृद्धिः (पाoसूo7-2-114) इत्यादिविधिप्रदेशेष्वितरेतराश्रयणपरिहाराय सूत्रसाटकवद्भाविसंज्ञा विज्ञेया स्यादिति चापरं गौरवभिति।

   अत्रोच्यते, आदैज्मात्रस्य वृद्धिसंज्ञा। नचैवं सर्वबासादावुक्तदोषः स्यादिति वाच्यम् ``उत्तरपदवृद्धौ सर्वं च (पाoसूo6-2-105) इत्यत्र ह्युत्तरपदग्रहणं स्वर्यते। स्वरितेनाधिकारो विज्ञायते। तेनोत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते। यथा `सर्वपाञ्चालः' ``सुसर्वार्द्धाज्जनपदस्य (पाoसूo 7-3-12) इति वृद्धिः। इदं च तद्भावितग्रहणेऽप्यवश्यं वक्तव्यमेव। अन्यथा `सर्वः कारकः' `सर्वकारकः' इत्यादावतिप्रसक्तेः। एवं तावद्भार्येप्यदोषः, तन्त्रावृत्त्याद्याश्रयणेन वृद्धिशब्देन विहिताया वृद्धेर्यन्निमित्तं तत्रैव पुंवद्भावप्रतिषेधात्। वृद्धिशब्देन च विधौ कृत्स्ना वृद्धिः प्रतीयते हत्याशयेनैवोक्तं भाष्ये---``यत् कृत्स्नाया वृद्धेर्निमित्तम् इति। न च वैयाकरणभार्ये तता सौवश्वभार्येऽतिप्रसङ्गः फलोपहितस्यैव निमित्तन्वेन विवक्षितत्वात्। ऐचौ प्रति फलोपधानमप्यस्तीति चेत्? न, तयोर्वृद्धिशब्देनाविधानात्।
   केचित्तु यावद्वृद्धिजननयोग्यत्वे सति किञ्चित्फलोपहितस्तद्धितो निमित्तशब्देनोच्यते। वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषेधसन्नियोगशिष्टतामात्रेणातिप्रसङ्गभङ्गात्। तेन वैयाकरणभार्ये नातिप्रसङ्गः। ``परिषदो ण्यः' (पाoसूo4-4-44) `पारिषद्या भार्या' इत्यादौ त्वाकारमात्रोपहितत्वेऽपि स्वरूपयोग्यता सकलवृद्धिं प्रत्यस्तीत्याहुः।
   तस्मात्----
आवृत्तौ गौरवापत्तेः शालीयादेरसिद्धितः।
मालादीनां चेति लिह्गाद्व्याप्तिन्यायात्तथैव च ।।
भाविसंज्ञात्वविज्ञाने गौरवाच्चेह निश्चितम्।
आदैज्मात्रस्याविशेषाद्वृद्धिसंज्ञा विधीयते ।।
   अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेसार्थमागमार्थं विशेषणविशेष्यभावार्थं चेदं सूत्रामिति षट्पक्षी तु भाष्य एव निराकृतत्वादसम्भवदुक्तिकत्वाच्च नेह तन्यते। संज्ञासंज्ञिभावे सत्यपि का संज्ञा कः संज्ञीत्यत्र तात्पर्यग्राहकास्तु बहवो न्यायाः। तथाहि,
यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्।
तच्छब्द एवकारश्च स्यादुपादेयलक्षणम् ।।
   इत्यभियुक्तोक्तेस्तथैवानुभवाच्च प्राथम्यं तावत्संज्ञित्वे लिङ्गम्। तच्च ``अदंङ् गुणः (पाoसूo 1-1-2) इत्यादौ स्पष्टमेव। वृद्धिसंज्ञासूत्रे तु मङ्गलार्थं वृद्धिशब्दस्यादौ प्रयोगेऽपि वक्ष्यमाणैर्न्यायान्तरैरादैचां संज्ञित्वे निर्णीते सत्यादैज्वृद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तरमेव वाक्यार्थबोधाब्युपगमात्तज्जनकीभूतानुपूर्वीज्ञाने आदेचामेव प्राथम्यान्न व्यभिचारः। पदानुपूर्वीज्ञानमेव चासत्तिज्ञानमित्युच्यते। इदं च शाब्दबोधे हेतुरिति यैर्नेष्यते तेषामासन्नानासन्नकथोच्छेदः स्यात्, पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात्। आवृत्तिश्च संज्ञात्वे लिङ्गम्, व्यवहारार्थमेव संज्ञाकरणात्। बेदाभेदाभ्यामपि संज्ञित्वसंज्ञात्वे क्वचिन्निर्णीयेते। बहूनां ह्येकासंज्ञोचिता लाघवात्, न त्वेकस्य बह्व्यः। संज्ञा गौरवात्। न्यूनाधिकव्यक्तिकास्तु बह्व्यः संज्ञा इष्यन्त एव, तत्तत्प्रयुक्तकार्यवैलक्षण्यात्, कृत्कृत्यप्रत्ययसंज्ञावत्, तद्धिततद्राजप्रत्ययसंज्ञावच्च। लघ्वक्षरत्वमपि टिघुभादौ संज्ञालिङ्गं यथायथं बोध्यम्। इह त्वावृत्त्याऽभेदेन च वृद्धिशब्दः संज्ञेति स्थिते तद्बलेन श्रुतानुपूर्वीभङ्गादादैचां प्राथम्यमपि योजनीयम्। यद्वा, स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यवहारय नियम इति पक्षे योज्यम्। आद्येऽपि कार्यकालपक्षाश्नयणेन वा समाधेयमिति दिक्। एतेन ``आर्द्धधातुकं शेषः (पाoसूo 3-4-114) ``कृदतिङ् (पाoसूo 3-1-93) ``अपृक्त एकाल्प्रत्ययः (पाoसूo1-2-41) ``स्वं रूपं शब्दस्य (पाoसूo 1-1-68) ``अणुदित् (पाoसूo1-1-69) ``तपरः (पाoसूo 1-1-70) ``आदिरन्त्येन (पाoसूo1-1-71)``येनविधिस्तदन्तस्य (पाoसूo1-1-72) इत्यादावपि व्यभिचार उद्धृतः, तत्रापि विपरीतानुपूर्वीकल्पानात्। कल्पकत्वस्य च प्रागेवोक्तत्वात् पक्षान्तरैरपि समाधानाच्च। अत एव स्थानिवत्सूत्रे `वत्करणङ्किमर्थम्' इत्याशङ्क्य ``स्थान्यादेशस्य संज्ञा मा विशायि इति भाष्यमप्युपपन्नम्। यत्तु ``अपृक्त एकाल् (पाoसूo1-2-41) इति परिभाषा, न तु संज्ञा इत्युक्तं, तद् वृद्ध्यादावपि सुवचम्। ``अपृक्तसंज्ञायां हल्ग्रहणं स्वादिलोपे हलो ग्रहणार्थम् इति वार्त्तिकस्य तद्भाष्यस्य च प्रतिकूलम्। तस्मादुक्तैवगतिः समीचीनेति दिक्।
   ननु ``मृजेर्वृद्धिः (पाoसूo7-2-114) इत्यादावन्योन्याश्रयः, संज्ञयाहि विधिर्विहितानां च संज्ञेति। न च मालादौ संज्ञाप्रवृत्तिसम्भवे सतीह भाविसंज्ञाविज्ञानं सम्भवति। तस्माद् वृद्धिशब्द एवादेशः स्यात्। अन्यत्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृष्येह विधातुमशक्यत्वादिति।
   अत्राहुः--`मार्ष्टि' इत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसक्ते साधुत्वं ``मृजेर्वृद्धिः इत्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते, येनान्योन्याश्रयः स्यात्। उक्तं च वार्तिककृता--``सतो वृद्ध्यादिषु निमित्तभावात्तदोश्रय इतरेतराश्रयत्वादप्रसिद्धिः। सिद्धं तु नित्यशब्दत्वात् इति। अथ लक्षणैकचक्षुष्कः कश्चिद्व्याकरणबलेनैव `मार्ष्टि' इत्यादिप्रयोगेषु व्युत्पित्सेत, तथापि न क्षतिः शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या `मार्ष्टि' इत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात्। सामान्यलक्षणानभ्युपगमपक्षे त्वात्वजातौ शक्तिग्रहात् शक्त्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा। अन्यथा `गहे घटोऽस्ति' इति वाक्यादप्यपूर्वंव्यक्तिर्न गृह्यतेति दिक्। अत एव ``नवेति विभाषा (पाoसूo1-1-44) इति सूत्रे भाष्यकारो वक्ष्यति--साधु त्वस्य विधेयत्वे ``विभाषा श्वेः (पाoसूo 6-1-30) इत्यादिना तस्यैव विकल्पापत्तिः। तस्मात्सम्प्रसारणाद्येव विकल्प्यत इति। एषैव लडा दिविधौ गतिः। न चैवं साध्यवनुशासनत्वभङ्गः, साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानगिति कृन्मेजन्तसूत्रे विवरणकाराधिभिरुक्तत्वात्, केवलवविधानेपि `यदिह परिनिष्ठितं, तत्साधु' इति श्रुतार्थापर्त्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धंश्च। इह च प्रहत्येकं वाक्यपरिसमाप्तिः ``मालादीनां च (पाoसूo6-2-78) इत्यादिलिङ्गात् `ब्राह्मणा भोज्य न्ताम्' इत्यादौ तथा दर्शनाच्च । यद्यपि `गर्गाः शतं दण्ड्यन्ताम्' इत्यादौ समुदायेऽपि वाक्यपरिसमाप्तिर्दृश्यते गुणकर्मभूतानामपादानस्तानापन्नानां गर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्यावृत्त्ययोगात्, तथापीह शास्त्रे यत्नं विना समुदाये शास्त्रं न समाप्यते। अत एव ``उभे अभ्यस्तं सह इति सहग्रहणं वार्त्तिककृद्वक्ष्यति। भाष्यकारस्तूभेग्रहणमेवैतदर्थमिति वक्ष्यति। अन्यथा``एकाचो द्वे(पाoसूo 6-1-1) इत्यनुवृत्त्या सिद्धेः किमुभेग्रहणेन? संयोगसंज्ञायां समाससंज्ञायां च महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः। अत एव ``सह सुपा (पाoसूo 2-1-4) इति सहग्रहणं योगविभागेन तिङ्न्तादिसमासविदानार्थमिति स्थापयिष्यते। इह तपरकरणमैजर्थमीदूदेदितिववुच्चारणार्थमसन्देहार्थं चेति प्रपञ्चितम् ``एओङ् ``ऐऔच् (माoसूo 3।4।) इतिसूत्रयोः। यत्त्विहोक्तं वार्त्तिककृता--``आकारस्य तपरकरणं सवर्णार्थम्' इति, तत्तु `भेदका गुणाः' तपरसूत्रं चानाणि विध्यर्थम्' इत्यभिप्रेत्य। भाष्ये त्वभेदका गुणा इति स्थित्म्। गुणा उदात्तानुदात्तस्वरितानुनासिका न्न्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्ते हत्यर्थः। ``अनङ्दात्तः (पाoसूoएo7-1-75) ``अडुदात्तः (पाoसूoएo6-4-71) इत्यादावुदात्तग्रहणं चेह ज्ञापकम्। अन्यथा ह्युदात्तमेवोच्चारयेल्लाघवात्। ननु यद्यभेदका गुणास्तर्हि यद्वक्ष्यति भाष्यकारः--``हन्त्यादेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिट्प्रतिषेधे प्राप्ते तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते। तथाच ``एकाच उपदेशे (पाoसूo7-2-10) इति सूत्रे एकाज्ग्रहणं न कर्त्तव्यम् इति, तदेतद्विरुध्येत, अविवक्षाप्रसङ्गात्। अथोच्येत--तत्रापि ``स्थानेन्तरतमः (पाoसूo1-1-50) इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चारयितव्ये उदात्तोच्चारणं यत्नेन विवक्षार्थं ज्ञायते इति। एवमपि यद्वक्ष्यति षष्ठे ``चतसर्याद्युदात्तनिपातनं करिष्यते स निपातनस्वरः ``चतुरः शसि (पाoसूo 6-1-167) इत्यस्य बाधकोभविष्यति इति तद्विरुध्यते। चतुश्शब्दो ह्यव्युत्पत्तिपक्षे ``व्रः संख्यायाः (फिoसूo28) इति फिट्सूत्रेणाद्युदात्तः। ``चतेरुरन् (उoसूo747) इति व्युत्पादनेऽपि नित्स्वरणाद्युदात्त एव। तत्स्थानिकस्य चतसृशब्दस्यापि स्तानिस्वरेणाद्युदात्तस्योच्चारणोपपत्तौ ``चतुरः शसि (पाoसूo 6-1-167) इत्येतद्वाधकत्वायोगात्। अपिच अस्थ्यादीनामप्याद्युदात्तत्वादन्तादेशस्यानङोऽपि स्थान्यनुरुपेऽनुदात्ते एवोच्चारणीये उदात्तोच्चारणं विवक्षार्थं भविष्यतीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यत्नाधिक्येऽप्यविवक्षां ज्ञापयेत्। यदप्येकश्रुत्या सूत्रपाठात्क्वचिदुदात्तोच्चारणं विवक्षार्थमिति, तदपि चिन्त्यम्, एवं सत्यनङोऽप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रहमृणवैयथ्यार्पत्तेः उक्तज्ञापनासम्भवाच्च। तथाहि, किं ज्ञाप्यम्--स्वशब्देनानुपात्तो गुणो न विवक्ष्यते इति आहोस्विदसति यत्नविशेषे न विवक्ष्यते इति? आद्ये निपातनस्वरो न विवक्ष्येत। अन्त्ये तूदात्तोच्चारण एव विवक्षाहेतौ यत्नविशेषे स्थिते कथं ज्ञापबकोत्थानं, मूलशैथिल्यात्। तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्रन्थविरुद्धमेवेति चेत् ?
   उच्यते, ``विभाषा छन्दसि (पाoसूo1-2-36) इति वैकल्पिकमैकश्रुत्यमङ्गीकृत्य ``पक्षान्तरैरपि परिहारा भवन्ति इति न्यायेन तत्र तत्राद्युदात्तनिपातनं करिष्यते हत्युक्तम्, इह तु त्रैस्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भवादुदात्तग्रहणं ज्ञापकमित्युक्तम्, अतो न विरोधः. यद्वा, ``अमुदित्सवर्णस्य (पाoसूo1-1-67) इत्यत्राणग्रहणेनैव सिद्धे गुणभिन्नानां यवलानां संग्रहाय क्रियमाणमण्ग्रहणं गुणानां भेदकतामपि ज्ञापयति। भेदकाबेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयणेन ``आद्युदात्तनिपातनं करिष्यते इत्यादि भाष्यं बोध्यम्। अत एव चेदमस्त्यदाद्यत्वे ``अष्टन आविभक्तौ (पाoसूo 7-2-84) इत्यादौ चानुनासिको न प्रवर्त्तते। नन्वण्ग्रहणं ``हलो यमाम् (पाoसूo 8-4-64) इति लोपेऽन्यतरस्यांग्रहणानुवृत्तिज्ञापनार्थमित्युक्तमिति चेत्? न, उभयज्ञापकत्वेऽप्यविरोधात्। न ह्येकेनैकमेव ज्ञाप्यमिति नियमः, यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात्। अत एवाऽऽत्वाविकल्पः कृतात्वस्य षट्संज्ञा चेत्युभयमपि ``अष्टनो दीर्घात् (पाoसूo6-1-172) इति दीर्घग्रहणेन ज्ञापयिष्यते। अत एव च ``संहितायाम् (पाoसूo6-1-72) इत्यधिकारेण संहिताया अनित्यत्वं कालव्यवायेप्यानङादिप्रवृत्तिश्चेत्युभयं ज्ञाप्यते इति दिक्। एवञ्चाकारस्य त्परकरणं सवर्णार्थमितीहत्यं वार्त्तिकमपि भेदकत्वपक्षेण साध्वेव। भाष्ये तु पक्षान्तराभिप्रायेण ऐजर्थत्वमुक्तम्, तदपि यथोद्देशपक्षे बोध्यम्, आदैचां संज्ञाविधातनुवाद्यत्वेन सवर्णग्राहकत्वप्रसक्तेः। कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसंज्ञा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव। यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेवसामानाधिकरण्यान्नामधेयत्वावगतिर्न तु वाक्यान्तरेण, तथाऽस्मिन्पक्षे वृद्ध्यादीनामपि, ``वृद्धिरादैच (पाoसूo1-1-1) इति सूत्रं तु ``इको गुणवृद्धी (पाoसूo1-1-3) इतिवत्पदोपस्थापकम्। उपस्थाप्यस्य संज्ञितया परं संज्ञासूत्रव्यवहारः। आद्यपक्षे तु ``यन्न दुखेन इत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृद्ध्यादिशब्दार्थावगम इति विशेषः।
   तदयं निर्गलितः सूत्रार्थः--कृतानामकृतानां चादैचां प्रत्येकं वृद्धिसंज्ञा स्यात्। आश्वलायनः, ऐतिकायनः। अश्वलेतिकशब्दाभ्यां नडादित्वात्फक्यादिवृद्धिः। उपगोरपत्यमौपगवः ।।

अदेङ् गुणः (पाoसूo 1-1-2)।।
अदेङां गुणसंज्ञा स्यात्। तपरकरणमिह सर्वार्थम्। तेन `तरति' इत्यत्राकार एव न तु कदाचिदाकारः। न च प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्द्धमात्रत्वादपरस्यार्द्धतृतीयमात्रत्वात्। `पचन्ति' `चेता' `स्तोता' ।।

इको गुणवृद्धी (पाoसूo 1-1-3)।।
यत्र ब्रूयाद् गुणो भवति वृद्धिर्भवतीति तत्र `इकः' इति षष्ठ्यन्तमुपस्थितं बोध्यम्। चेता, स्तोता; अहार्षीत् इत्यादि। इक इत्युक्तेर्नेह-याता, ग्लायति, उभ्भितेति। तथाचवार्त्तिकम्--``इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम्इति। ननु नैतानि सन्ति प्रयोजनानि, ज्ञापकेनानिकां व्यावृत्तिसिद्धेः। तथाहि, अकारस्य `पचति' इत्यादौ शपं तिपं चाश्रित्य यथाक्रमं ``पुगन्त(पाoसूo7-3-86) इति ``सार्वधातुकार्द्धदातुकयोः (पाoसूo 7-3-84) इति च सूत्रेण सत्यपि गुणे रूपे विशेषो नास्त। `अचिकीर्षीत्' इत्यादौ त्वतोलोपेन वृद्दिर्बाध्यते ``ण्यल्लोपौ (काoवाo) इति पूर्वविप्रतिषेधस्य वक्ष्यमाणत्वात्। सूत्रारम्भपक्षेऽपि ह्येषैव `चिकीर्षकः' इत्यादौ गतिः ``अचो ञ्णिति (पाoसूo7-2-115) इत्यत्र निर्दिष्टस्तानिकत्वेन इक्परिभाषाया अप्रवृत्तेः। `अयासीत्' इत्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः। वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते। येननाप्राप्तिन्यायेनापवादत्वाद्वाध्यते इति तु निष्कर्षः। न च `याता' `वाता' इत्यादावातो गुणप्रसङ्ग ``गापोष्टक् (पाoसूo3-2-8) इति टकः कित्त्वेनाकारस्य गुणो न भवतीति ज्ञापितत्वात्। तद्धि कित्त्वं `सामगः' इत्यादावाल्लोपार्थं क्रियते। यदि त्वाकारस्य गुणः स्यात्तर्हि द्वयोरकारयोः पररूपोण `सामगः' इत्यादिरूपसिद्दौ किं कित्त्वेन? न चेह `चिकीर्षकः इत्यादाविव परत्वादाङ्गत्वाच्यातो लोप एवोदाहर्त्तुमुचितो न तु परूपमिति वाच्यम्, तावतापि ज्ञापकत्वे बाधकाभावात्। वस्तुतस्तुनेह लोपेन भवितव्यम्। तत्र हि ``अनुदात्तोपदेश (पाoसूo 6-4-37) इत्यतोनुवृत्तेनोपदेशग्रहणेनार्द्धधातुकस्य विशेषणादार्द्धधातुकोपदेशे यदकारान्तं तस्यातो लोपो विदीयते। अन्यथा `गतो गतवान्' इत्यादावतिप्रसङ्गात्। न चासिद्धवत्सूत्रेण निर्वाहः, तस्य भाष्यकृता प्रत्याख्यास्यमानत्वात्। किञ्च ``अय पय गतौ (भ्वाoआo) आब्यां क्विपि `अत्' `पत्' इति रूपं माधवादिभिरुदाहृतं, तदपि यथाश्रुते न सिद्ध्येत्। तस्मादुपदेशानुवृत्तिरेव शरणम्। कथं तर्हि `धिनुतः' `कुणुतः' इत्यादौ ``अतो लोपः (पाoसूo 6-4-48)इति चेत्? सन्नियोगशिष्टतया उप्रत्ययोपदेशवेलायामेवाकारस्याप बुद्ध्यारोहादिति केचित्। अन्ये तु ``धिन्विकृण्व्योर च (पाoसूo 3-1-70) इति सौत्रक्रमानुरोधात्प्रथममकारादेशस्तदनन्तरं चशब्दाकृष्च उप्रत्यय इति नोक्तदोष इत्याहुः।
   नन्वेवं `सामगाय' इत्यादावेकादेशस्य पूर्वान्तत्वेन ग्रहणाद् ``आतोधातोः (पाoसूo6-4-140) इत्यालोपः स्यादिति चेत्? अत्र कैयटः--``अकारमाश्रित्य कृतो यशब्दः सन्निपातपरिभाषया लोपं न प्रवर्त्तयति। दीर्घत्वं तु ``कष्टाय (पाoसूo3-1-14) इति निपातनाद्भवति इति ``ए ओङ् सूत्रे स्थित्वा समाहितवान्। तस्यायमाशयः--यादेशे हि ह्रस्वत्वविशिष्टमत्वं प्रयोजकम्, तद्विधावत इत्यनुवृत्तेः। तत्र यद्यपि दीर्घेण हस्वत्वांसो निवर्त्तितस्तथाप्यत्वमात्रमादेशेऽप्यनुवर्त्तते। तदपि चेल्लोपेन निवर्त्त्येत तर्हि परिभाषाविरोधः। दीर्घांशे परं ज्ञापकात्परिभाषा बाध्यते। न चैवमंशान्तरेऽपि तद्बाधोऽस्त्विति वाच्यम्, तदबाधेऽप्युपपत्तेः। प्रकृतसूत्रे ``एओङ् सूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाष्यकारश्चात्र प्रमाणम्। एतेन शुभंयाशब्दस्य नपुंसके हस्वत्वे ङेर्यादेशे दीर्घे च सति ``आतो धातोः (पाoसूo3-4-140) इत्यालोपे च `शुभंय्यः' इत्यादि माधवोदाहृतं भाष्यविरोधाच्चिन्त्यम्। अत एव नपुंसके ``श्रीपं ज्ञानवत् इति ग्रन्थं श्रीपायेतिरूपपरतया यथाश्रुतमेव समञ्जसं भङ्क्त्वा माधवानुरोधेन `प्रायेण ज्ञानवत्' इति व्याचक्षाणा अपि प्रत्युक्ताः। तथा `ग्लायति' इत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति। इतरथा हि एकारमेवोपदिशेत्। मात्रालाघवविरहेऽपि प्रक्रियालाघवसत्त्वात्। न चैवमायादेशोऽपि न स्यादिति वाच्यम्, `यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति न्यायात्। गुणं प्रति ह्यैकारोपदेसोऽनर्थकः, ग्ले हत्यस्यापि सुपठत्वात्। आयादेशस्य तु निमित्तमेव। न च `ग्लाय' इत्येव पठ्यतामिति वाच्यम्, तथा सति हि `त्वया ग्लायते' इति रूपं न स्यात्, यकारद्वयश्रवणप्रसङ्गात् `जग्लौ' इत्याद्यसिद्ध्यापत्तेश्च। यत्तु एकाजजन्तत्वाभावादिट्प्रसङ्गेन `ग्लाता' इत्यादि न स्यादिति। तन्न, अनुदात्तोपदेशेष्वेषां सुपठत्वात्। न चै वम् `अग्लासिष्टाम्' इत्याद्यसिद्धिः अनादन्तत्वेन सगिटोरसम्भवादिति वाच्यम् ``लोपो व्योः (पाoसूo6-1-66) इति यलोपे कृते सगिटोः सुलभत्वात्। सन्निपातपरिभाषा त्वनित्येति कृतितुग्ग्रहणेन ज्ञापयिष्यते। तेन वल्सन्निपातेन कृतो यलोपो वल्सन्निपातविघातकमपीटं प्रवर्त्तयिष्यत्येव। अनित्यताश्रयणेनैव हि `दाक्षिः' `गोदः' इत्यादावदातोर्लोपः। अन्यथा इञ् कप्रक्ययौ प्रति तयोरुपजीव्यत्वाल्लोपो न स्यात्। अस्तु वा `सन्निपातपरिबाषाश्रयणाद् `अग्लासिष्टाम्' इत्यादि न सिध्येद् इत्यपि यान्तोपदेशे दोषान्तरम्। सर्वथापि संध्यक्षराणामुपदेशसामर्थ्याद् गुमोन। आयादयस्तु भवन्त्येवेति सिद्धम्।
   स्यादेतत्। ``आदेच (पाoसूo6-1-45) इत्यात्वमपि तर्हि बाध्यताम्। नह्यैजुपदेश आत्वस्य निमित्तम्, ग्ले इत्युपदेशेऽपि तस्य सुकरत्वात्। शिति गुणेनाशित्यात्वेनैचोऽपहारे प्राप्ते ऐजुपदेशसामर्थ्येनगुणात्वयोर्मध्ये कतरद्बाध्यं कतरन्नेत्यत्र विनिगमनाविरहेणोभयबाधध्रौव्यात्। न चैवमात्वविधेः कोऽवकाश इति वाच्यम् ``धेट् पाने (दीoपo) ``शो तनूकरणे इत्यादेरवकाशस्य स्पष्टत्वात्। नन्वेवमादेङ् इत्येव ब्रूयात्, तता चैज्ग्रहणं निरवकाशमेवेति चेत्? न, उत्तरार्थत्वात्। ``मीनातिमिनोति (पाoसूo6-1-50) इत्यत्र ह्येच इत्यनुवृत्त्या `आकारान्तानामेजन्ताः प्रकृतयः, एजन्तानामपीकारान्ताः' इति घुसंज्ञासुत्रे वार्तिककारः स्फटीकरिष्यति।
   अत्राहुः--अन्यतरबाधेनैव सम्भवे ***यवाधकल्पनं तावदन्याय्यम् तत्र यद्यणुरपि विशेषो नावधार्येत तर्हि विनिगमनाविरहात्स्यादेवोभयबाधः। अस्ति चेह विनिगमकम् ``न ध्याख्या (पाoसूo8-2-57) इति सूत्रे ध्यायतेः कृतात्वस्य निर्द्देशेनात्वाबाधज्ञापनात्। किञ्च एज्ग्रहणसामर्थ्यादप्यात्वं भवति। यत्तूक्तप्रुत्तरार्थं तदिति। तन्न, ``मीनाति(पाoसूo6-1-50) इति सूत्रेण हि नैचः स्थाने आत्वं विधीयते। किन्त्वेज्निमित्ते प्रत्यये विवक्षिते उपदेशावस्तायामेवान्त्यमात्रास्यात्वं विधीयते। अन्यथा `दायः' इत्यादौ भावे घञं बाधित्वा ``एरच् (पाoसूo 3-3-56) स्यात्, `ईषदवदानः' `स्ववदान' इति ``आतो युच् (पाoसूo 3-3-128) न स्यात्, `अवदायः' इति ``श्याद्व्यधा (पाoसूo 3-1-141) इति णो न स्यात्। स्पष्टीकरिष्यते चेदं षष्ठे एव भाष्यकृता। एवञ्चैङ्निमित्ते प्रत्यये इत्युच्यमानेऽपि `दापयति' मापयति इत्यादि सिध्यत्येव, णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात्, वृद्ध्या गुणबाधेऽपि योग्यतानपायात्। न चेह फलोपधानं विवक्षितम्, आत्वस्यैज्विषये प्रागेव प्रवृत्तेरभ्युपगमात्। अन्यथा घञ्युच्णप्रत्याया न स्युरिति समनन्तरमेवोक्तम्। तस्मादात्वं भवत्येव। गुणस्त्वैकारोपदेशसामर्थ्याद् बाध्यते इति स्थित्म्।
   व्यञ्जनानां गुणः स्यादिति परमवशिष्यते। ततश्च `ईहिता' इत्यत्र हकारस्य कण्ठ्यत्वादकारः स्यात् `उम्भिता' इत्यत्र भकारस्यौष्ठ्यत्वादोकारः; ततश्च `येता' `उनविता' इति स्यात्। ईकारस्य यणि कृतेऽकारस्येटा सहाद्गुणो न त्वल्लोपः, आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात्।उम्भेस्चानुस्वारपरसवर्णयोर्गुणे कर्त्तव्येऽसिद्धत्वादिति। नैषदोषः ``सप्तम्यां जनेर्डः (पाoसूo 3-2-97) इत्यत्र डप्रत्ययस्य डित्करणं ज्ञापकं न व्यञ्जनस्य गुणो बवतीति। यदि हि स्यात्तर्हि नकारस्यार्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते त्रयाणामकाराणाम् ``अतो गुणे (पाoसूo6-1-97) इति पररूपे च सिद्धं रूपम् `उपसरजाः' `मन्दुरजः' इति, तत्किं टिलोपार्थेन डित्करणेन? स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः। ``प्रजनेसर्त्तेः (पाoसूo3-3-71) इत्यप्प्रत्ययो घञोऽपवादः। प्रजनः स्यादुपसरः (अoकोo 3-2-25) इति सङ्कीर्णवर्गेऽमरः. प्रजायतेऽस्मिन्प्रजनः पशूनां गर्भग्रहमकाल इति क्षीरस्वामी। अपसरे जात उपसरजः, मन्दुरायां जातो मन्दुरजः ``ङ्यापोः संज्ञाछन्दसोर्बहुलम् (पाoसूo6-3-63) इति ह्रस्वः। ``वाजिशाला तु मन्दुरा (अoकोo2-2-7) इत्यमरः. न च डकारः श्रवणार्थोऽस्त्विति वाच्यम् ``प्रावृट्शरत्कालदिवां जे (पाoसूo6-3-15) इतिक कृतटिलोपनिर्द्देसाल्लिङ्गात्। ननु नेदं लिङ्गं ``जै क्षये (भ्वाoपo) इत्यस्य कप्रत्ययान्तस्य `ज' इति निर्द्देसोपपत्तेः। कथं तर्हि कर्मण्युपपदे विहित आतः कः `प्रावृषिजः' इत्यादौ स्यादिति चेत्? `द्विपः' `पादपः' इत्यादिसिद्धये ``सुपि स्यः (पाoसूo3-2-4) इत्यत्र सुपीति योगविभागाभ्युपगमात्। सत्यम्, डकारस्य श्रवणार्थत्वे इत्संज्ञासास्क्षत्रं बाध्येत। न च प्रयोजनाभावः, टिलोपार्थत्वात्। न च गुणेनान्यथासिद्धिः, तदभावस्यापि ज्ञाप्यत्वात्। निषादस्थपत्यधिकरणन्यायेन (जैoन्याo6-1-13) फलमुखगौरवस्यादोषत्वात्, डकारस्य श्रवणार्थताभ्युपगमे ``सिद्धं तु नित्यशब्दत्वात्किमर्थं शास्त्रमिति चेन्निवर्त्तकत्वात्सिद्धम् इति वृद्धिसूत्रस्थवार्तिकविरोधाच्च। नन्वसति डित्त्वे रूपं न सिध्यति, नकारस्ताने गुणस्यापि सानुनासिकस्य प्रसङ्गात्। न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम्, पररूपविधानेऽपि गुणानामभेदकतया पर्यायेण सानुनासि कप्रसक्तेर्दुर्वारत्वादिति। मैवम्, ``मैवम्, ``एङि परः इतीयता सिद्धेरूपग्रहणादधिकाद्यन्नाद् गुणविवक्षोपपत्तेः। तस्य ह्योतदेवफलम्--यादृशं परस्य रूपं निरनुनासितत्वाद्युपेतं तादृगेव यथा स्यादिति। तस्माज्जनेर्डवचनं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति। एवञ्च ``इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् इति वार्त्तिकमसङ्गतमिति प्राप्ते भगवान् बाष्यकार इत्थं सिद्दान्तमाह--उक्तरीत्या ज्ञापकेनैवात्सन्ध्यक्षराणां निरासेऽपि व्यञ्जननिवृत्यर्थं सूत्रं कर्त्तव्यमेव। यत्तुक्तं जनेर्कडवचनं ज्ञापकमिति। तन्न, गमेरपि ह्ययं डो वक्तव्यः। गमेश्च गुणे क्रियमाणे आन्तर्यत ओकारः स्यात्। ततश्च `नगाः' `अगः' `अब्युद्गः' `समुद्गः' इत्यादि न सिध्येत्। ततश्च तत्र चरितार्थं डित्त्वं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदिति। ननु ``जनर्डः (पाoसूo3-2-97) इत्येव डप्रत्ययो गमेर्न विधीयते किं तु ``गमश्च (पाoसूo 3-2-47) ``अन्तात्यन्ताध्वदूरपार (पाoसूo3-2-48) इति प्रकारणे पठितेन ``अन्यत्रापि दृश्यते (काoवाo) इति वार्त्तिकेन कडप्रत्ययान्तरमेव। तथाच कथं बाष्यकृतोक्तं ``गमेरप्ययं डः इति? सत्यम्, ``सप्तम्यां जनेर्ड (पाoसूo3-2-97) इति प्रकरणे तावद् ``अन्येष्वपि दृश्यते (पाoसूo3-2-101) इति सूत्रेण डो विधीयते इति निर्विवादम्। तत्र चान्येष्वप्युपपदेषु जनेर्डो दृश्यते इत्यक्षरार्थः। तेन `अजः' `द्विजः' `अनुजः' इत्यादि सिद्धम्। एवमपि धात्वन्तराड्डविदायकाभावात् `परितः खाता परिखा' इत्यादि न सिद्ध्येदित्याशङ्क्य तत्र वार्त्तिककृतोक्तम् ``अन्येभ्योऽपि दृश्यते(काoवाo) इति। अयं च सौत्रदृश्यपिग्रहणसूचित एवार्थो वार्त्तिकेन विवृतो न त्वपूर्वः संगृहीतः। तथाच तत्र वृत्तिकार आह--``आपिशब्दः सर्वोपाधिव्यभिचारार्थः. तेन धात्वन्तरादपि भवति---परितः खाता परिखेति। दृशिग्रहणात्कारकान्तरे कालान्तरे च इत्यादि तत्रैव स्पष्टम्। एवं स्थिते सौत्रेणैवानेन `परिखा' इत्यादेरिव `नगः' `अग' इत्यादेरपि सिद्धौ इति वार्त्तिकं न कर्त्तव्यमेव। क्रियमाणं वा एतसूत्त्रसिद्धार्थंविवरणपरतया नेयमित्याशयेन भगवतोक्तम्--``गमेरपि ह्ययं डो वक्तव्यः इति। नन्वेवमपि डित्त्वं व्यर्थसेव, गमेर्विवैव सिद्धे ``गमेर्डोः इति डोप्रत्ययाविधानेन मकारस्य गुण ओकारो न भवतीति ज्ञापितत्वात्। तस्माड्डुप्रत्ययस्य डित्त्वं पूर्वोक्तरीत्या ज्ञापकमेव। किञ्च, डोप्रत्ययविधानमेव व्यञ्जनस्यगुण इति ज्ञापयति। अन्यथा विचैव सिद्धौ किं तेनेति चेत्? न, विचिहि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासिकसिद्धये डोप्रत्ययविधानादिति दिक्।
   अत्र वदन्ति--``तेनोतेर्डउः सन्वच्च इति डित्करणान्न व्यञ्जनस्य गुणो भविष्यति। यत्तु सास्त्रातिदेसोऽयं कार्यातिदेशो वा? आद्ये `ऊर्णुनविषति' इत्यत्रेव ``द्विर्वचने ऽचि (पाoसूo 1-1-59) इति स्थानिवद्भावेन `तँतँ अउ' इति स्थिते ``सन्यतः (पाoसूo7-4-79) इतिकारः सानुनासिकः स्यात्। द्वितीये त्वभ्यासकार्यं दुर्लभामिति। तन्न, आद्ये गुणानां बेदकत्वाद् `इमौ' `इमे' इति वदुपपत्तेः. द्वितीयेऽपि `बभ्रुः' `जुहूः' इत्याद्यर्थं दात्वधिकारीयद्वित्वे ऽभ्याससंज्ञास्वीकारात्। अत एव ``लिटिधातोः(पाoसूo6-1-8) इति सूत्रे ``धातुग्रहणं तिष्ठतुतावत्सांन्यासिकम् इति भाष्यम्। ``आदेच (पाoसूo6-1-45) इति सूत्रे धातुग्रहणानुवृत्तेरापाततो भाष्ये प्रदर्शितत्वेऽपि ष्यङ्विधिभाष्येऽननुवृत्तेरेव सिद्धान्तिततया भाष्याशयस्येत्थमेव वर्णनीयत्वादिति दिक्।
   किञ्च, यथा स्तानेन्तरतमपरिबाषासंस्कृतावनुनासिकपरसवर्णविधी स्थानप्रयत्नाब्यामन्तरतम `एतन्मुरारिः' `त्वं करोषि' इत्यादिकं विषयं लब्ध्वा चरितार्थौ `चतुर्मुखः' `कुण्डं रथेन' इत्यादौ न प्रवर्त्तेते इति हयवरट्सूत्रे सिद्दान्तितम्, तथेहापि सार्वधातुके जुसि गुणः सिचि वृद्ध्यादयः `नेता' `अबिभयुः' `अनैषीत्' इत्यादौ चरितार्थाः `उम्भिता' `अनेनिजुः' `अभैत्सीत्' इत्यादिषु न भविष्यन्ति। न चैवं `नेता' `अनैषीत्' इत्यादावेव स्थानगुणप्रमाणैस्त्रिभिरान्तर्यलाभात् `चेता' `अचैषीत्' इत्यादौ प्रमाणान्तर्यविरहेण गुणवृद्धी न स्यातामिति वाच्यम् ``सृघस्यदः क्मरच् (पाoसूo3-2-160) इति क्मरचः क्नोश्च कित्करणेन प्रमाणत आन्तर्यस्याविवक्षाया ज्ञापनात्। नचैवमपि `ईहिता' `ईशिता' इत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोस्तादृशावेवादेतौ स्यातामिति वाच्यम्, ``नाज्झलौ (पाoसूo1-1-10) इति सूत्रस्य प्रत्याख्यानावसरे ऊष्मणामीषद्विवृततायाः सिद्धान्तयिष्यमाणत्वात्। न चैवं विवृतकरणाःक स्वरास्तेभ्य एओ विवृततरावित्यादि शिक्षाऽनुरोधात् `चेता' `नेता' इत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृततरत्वकृतवैलक्षरायसत्त्वादिति वाच्यम्, तथासति विधेर्निर्विषयतापत्तेः,``जयः करणम्(पाoसूo6-1-202) इत्यादिनिर्देशैः क्नसुन्क्मरच्प्रभृतीनां कित्त्वेन चेकारादिषु गुणप्रवृत्त्यनुमानाच्च। आत्सन्ध्यक्षरव्यञ्जनेषु तु गुणाद्यप्रवृत्तिरेवोचिता। तथाच निर्देशाः ``यातिवातिद्रातिप्साति (पाoसूoएo8-4-17) ``ध्यायतेः सम्प्रसारणं च(काoवाo) ``वहतिचिनोतिदेग्धिषु च (पाoसूoएo 8-4-17) इत्यादि। अथ क्नोः कित्त्वेनापिगुणवृद्धिविधावन्तरतमपरिभाषाऽनुपस्थितिरेव ज्ञाप्यतामिति चेत्? न, सत्यामपीक्परिभाषायामीकारस्याकारादिनिवृत्तयेऽन्तरतमपरिभाषाया आवश्यकत्वादिति। तदेवं डओर्डित्त्वादनान्तर्यान्निर्देशाच्च निराकृतं व्यञ्जनं भाष्य एवैच आकारश्च निराकृतः. तस्माद्व्यर्थं सूत्रमिदम्।
   अथ यद्युत्तरार्थता, विभज्य योगं किमिति परिभाषात्वमिष्यते?
   अत्रोच्यते, ``क्ङिति च (पाoसूo1-1-5) इति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोर्निषेध इति तावद्वक्ष्यते। अन्यथा `लौगवायनः' इत्यत्र ओर्गुणोपि निषिध्यते। औपगवादिस्तु तस्यावकाशः. तथा `पौरोहित्यम्' इत्यत्रादिवृद्धिश्च न स्यात्। एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुणवृद्धिविदाविकामेव स्तानित्वपर्यवसानेऽपीक इति पदानुच्चारणेनेग्लक्षणत्वविरहान्निषेधो न प्रवर्त्तेत। ततश्च `कृतः' `कृतवान्' `कुरुतः'`छिन्नं' `छिन्नवान्' इत्यादि न सिध्येत्। निषेधसूत्रं च निर्विषयं स्यात् परिबाषापरित्यागपक्षे इग्लक्षणयोर्गुणवृद्ध्योरप्रसिद्धत्वात्। तदेतत्स्फुटीकृतं भाष्यकृता--``उत्तरार्थमेव तर्हि सिजर्थं वृद्दिग्रहणम् इति। तस्य ह्ययमाशयः--यद्यपि ``सिचि वृद्धिः (पाoसूo7-2-1) इति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते। तथापीग्लक्षमत्वं विना निषेधो न प्रवर्त्तेत। तस्मादुत्तरार्थं निषेधप्रवृत्यर्थं च वृद्दिग्रहणमिति। एवञ्च वदता न्यायसाम्याद् गुणग्रहमस्याप्येतदेव प्रयोजनं सूचितम्। कथं पुनर्गुणवृद्धिविधौ सर्वत्र परिबाषाव्यतिरेकेणेकः स्थानित्वपर्यवसानं येन निषेदार्थता वर्ण्यते इति चेत्? शृणु, ``सार्वधातुकार्द्धधातुकयोः(पाoसूo7-3-84) ``जुसि च (पाoसूo7-3-83) इति गुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्येऽलि प्राप्तौ प्रागुक्तज्ञापकादिभिरात्सन्ध्यक्षरव्यञअजनेभ्यो व्यावर्त्तिताविक्ष्वेव विश्राम्यतः। मिदि पुगन्तलघूपदादिगुणेषु तु स्थानी निर्दिष्ट एव। तथाहि, ``मिदेगुर्णः (पाoसूo7-3-82) इत्यत्र मिद इर्मिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पगन्तः लघ्वी उपधा लदूपदा पुगन्तश्च ************************समाहारद्वन्द्वात् षष्ठी न चैवं `यापयति' इत्यादावतिप्रसङ्गः, सन्निपातलक्षमपरिभाषयाऽऽदन्तलक्षमस्य पुको गुणाप्रवर्त्तकत्वात्। ``ऋच्छत्यॄताम् (पाoसूo7-4-11) इत्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रश्लिष्टनिर्द्देशः। तद्यथा--आ च ऋच्च ऋतः ऋच्छतेरा ऋच्छत्या, स च ऋतश्च तेषा मिति षष्ठीतत्पुरुषद्वन्द्वोभयगर्भो द्वन्द्वः ऋच्छत्या च आ च ऋतश्चेति त्रिपदद्वन्द्वो वा। तेन ऋच्छत्यृकारस्य स्तानित्वं लभ्यते। वस्तुतस्तु चतुर्णामिह प्रश्लेषा बोध्याः तेन `आरिवान् सर्वभरुणान्यारुषि' इत्यादावर्त्तेः क्वसौ गुणः सिद्धः पुनर्विधातसामर्थ्यात्। अन्यथा क्वसोः कित्करणसामर्थ्यात् `तितीर्वान्' इत्यत्रेव गुणो निषिध्येत। एतच्च ``क्वसुश्च (पाoसूo7-4-16) इत्यत्राप्युरङि गुण इति योगो विभज्यते। ततो दृशः। उरित्याद्यनुवर्त्तते। ``स्थूलदूर (पाoसूo6-4-156) इति सूत्रेऽपि योगविभागः कर्त्तव्यः `स्थूलदूरयुवहस्वानां यणादिपरम्' इत्येको योगः, `क्षिप्रक्षुद्रयोः पूर्वस्यच गुणः' इति योगान्तरम्। तत्र `स्थवीयान्' इत्यादावोर्गुणेन सिद्धम्। आभीयस्यासिद्धत्वस्य ``श्नसोरल्लोपः (पाoसूo6-4-111) इति तपरकरणेनानित्यताज्ञापनात् भाष्यकृता प्रत्याक्यानाच्च। यण आदिर्यणादिः ततः परमिति समासः। तथाच क्षिप्रक्षुद्रयोर्यण आदी पकारदकारौ ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः। तदित्थं गुणाः सर्वे इकि विश्रान्ताः। मृजेर्वृद्धावप्यच इत्यपकृष्यते। मृजेर्वृद्धिरचः, ततो ञ्णिति, अच इत्येव। न चैवम् `अमार्ट्' इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् लादेसेषु कृतेष्वाडिति पक्षे परत्वाद् वृद्धौ सत्यामट्। तत्र कते पुनर्वृद्धिर्न भवति सकृत्प्रवृत्त्या चरितार्थत्वात्।
   यदा त्वसिद्धवत्सूत्रप्रत्याक्यानाय ``ल्लुङ् इति द्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धदातुक इत्यनयोरन्यतरदनुवर्त्त्य वा लावस्तायामेवाट् क्रियते, ``एरनेकाचः (पाoसूo6-4-82) इति विभज्य `इणोयम्' इत्यनुर्वर्त्त्यानेकाचश्चेत्तर्हीण एवेति नियममाश्रित्य `अद्ध्यैयाताम्' इत्यादौ यण् वार्यते, तदा लावस्थायां यद्यपि वृद्धिर्न भवति लकाराणां ङित्त्वेन `मृष्टः' इत्यादाविव तन्निषेधात्। ततश्चान्तरङ्गत्वादडागम एव, तथापि `अन्त्याबावेऽन्त्यसदेशस्य' (पoभाo104) इति परिभाषामाश्रित्याटो वृद्धिर्निवर्तनीया। परिभाषाप्रत्याख्यानपक्षे त्वङ्गाक्षिप्तेन प्रत्ययेनाज्विशेष्यते येन नाव्यवधानन्यायाच्च सिद्धम् `अमार्ट्' इत्यादि रूपम्। सिचि वृद्धावपि विधेयायां नास्तीक्परिभाषाया उपयोगः व्यावर्त्याभावात्। न च `अचिकीर्षीत्' इत्यकारो व्यावर्त्यः ``ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घब्यः पूर्वविप्रतिषिद्धम् (काoवाo) इति वचनादल्लोपेनैव सिद्धत्वात्। अन्यता `चिकीर्षकः' इति न स्यात् `चिकीर्षायक' इति च प्रसज्येत। आकारस्य तु नास्ति विशेषः सगिड्भ्यां बाधश्चेत्युक्तम्। एजन्तमपि न सम्भवति, आत्वविधानात्। `उदवोढाम्' इत्यादौ तु ढलोपस्यासिद्धता। रैनैग्लौशब्दानामाचारक्विबन्तानां सत्यामसत्यां वा वृद्धौ न कश्चिद्विशेषः। गोशब्दात्क्विपि `अगवीत्' इत्यत्रापि नातिप्रसङ्गः। ``ऋतइद्धातोः (पाoसूo7-1-100) इत्यातोऽनुवृत्तेन धातुग्रहणेन सिजाक्षिप्तस्य धातोर्विशेषणे सति धातुरेव यो धातुर्न तु कथंचित्प्रातिपदिकमिति व्याख्यानादिति कैयटादयः।
   नन्वेवं कवेः अकवायीत्, विधोः अविधावीत्, पितुः अपितारीत्, अन्तरङ्गमपि गुणं सिचि वृद्धिर्बाधत इति वदन्माधवो विरुध्येत। सत्यम्,
   यद्यविरोधः सम्पादनीय इत्याग्रहस्तर्हीत्थं वर्णनीयम्--धातोरितिवदोत इत्यप्यनुवर्त्तेते। तच्च वाक्यभेदेन सम्बध्यमानं नियमार्थं सम्पद्यते--ओदन्तस्य धातोश्चेद् वृद्धिस्तार्हि धातोरेव धातोर्न तु नामधातोरिति। यद्वा, ``नेटि (पाoसूo7-2-4) इत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्त्या वा `गोतः' इत्त्यनुवर्त्त्यौकारान्तस्य धातोर्वृद्धिर्निषिध्यते। अथवा ``बहुलं छन्दसि (पाoसूo7-1-103) इत्यतो बहुलमित्यनुवर्त्त्य सिचि वृद्दिर्नामधाताविगन्तस्य भवति न त्वोदन्तस्योति कथं चित्समाधेयम्।
   व्यञ्जनेष्वन्तरतमपरिबालेनैवानुनासिकपरसवर्णयोरिवातिप्रसङ्ग उद्धृत एव। अभ्युपेत्य तु ब्रूमः, नाप्राप्तायां सिचि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति। ``नेटि (पाoसूo7-1-4) इति निषेधस्तु हलन्तस्य यावती वृद्धिः प्राप्ता ``सिचि वृद्धिः (पाoसूo 7-2-1) इति वा ``हलन्तस्य (पाoसूoएo7-2-3) इति वा तस्याः सर्वस्या-, न तु सूत्रविशेषप्रापितत्वे आग्रहः। तेन `अकोषीत्' `अमोषीत्' इत्यादौ द्विविदाऽपि वृद्धिर्निषिध्यते इति सुस्थम्। तस्मान्निषेधसिद्व्यर्थमिग्लक्षणतां सम्पादयितुं सूत्रमिति स्थितम्।
   स्यादेतत् `कृतः कृतवान्' `छिन्नश्छिन्नावान्' इत्यादौ निषेधसिद्धये गुणग्रहणमस्तु। वृद्धिग्रहणं तु व्यर्थम्। न च `मृष्टो मृष्टवान्' इत्यादौ निषेधसिद्धिस्तत्फलं, योगविभागेन सिद्धत्वात्। तथाहि, मृजेर्वूद्धिरित्यस्यानन्तरम् `अजादौ क्ङिति वा' इत्येवं रूपं वचनमवश्यं कर्त्तव्यम्--`मृजन्ति' इत्यादिसिद्ध्यर्थम्। एवं स्थिते अजादौ क्ङितीति योगे विभज्यते। नियमार्थं चेदम्--क्ङिति चेद्भवत्यजादावेवेति। तेन `मृष्टो मृष्टवान्' इत्यादि सिद्धम्। ततोऽजादावपि विकल्पेनेत्येतदर्थं `वा' इति द्वितीयो योग इति। तस्माद्वृद्धिग्रहणस्य फलं दुरुपपादमिति। अत्राहुः। ``णू स्तुतौ ``धू विधूनने कुटादिषु पठ्येते। ताभ्यां लुङि अनुवीत् `अधुवीत्' इतीष्यते। तत्र सिचि वृद्धेः क्ङितीति निषेधायेग्लक्षणतां सम्पादयितुमिह वृद्धिग्रहणमिति। नन्विहान्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्गे उवङि कृते हलन्तत्वात् ``नेटि (पाoसूo7-1-4) इति निषेधः सिद्ध इति चेत्? न, सिच्यन्तरङ्गं नास्तीति सिद्धान्तादुवङः प्रागेव वृद्धिप्रसङ्गात्।
   स्यादेतत्। ``अन्तरङ्गं बलीयः (पाoभाo5o) इति तावद् ``अचः परस्मिन् (पाoसूo1-1-57) इतिसूत्रे स्थापयिष्यते। तदविशेषात्सिच्यप्यस्तु। न चैवम् `अहैषीत्' इत्यादौ गुणः स्यादिति वाच्यम्, तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहीदानीं विधाविग्ग्रहणमस्ति येनैकारस्य वृद्धिर्न लभ्येत। न चैवमपि `अस्तौषीत्' इत्यादावन्तरङ्गत्वाद् गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्ध्यसम्भवः, बहुलग्रहणादनिगन्तानां नेति पक्षे तु `अचैषीत्' इत्यादावपि दोष एवेति वाच्यम्, ओतो दातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वसमाधानात्। `अकार्षीत्' इत्यादौ हलन्तलक्षणा वृद्धिरस्तु। `अतारीत्' इत्यादौ त्वन्तरङ्गत्वाद् गुणे हलन्तलक्षणायां वृद्धौ ``नेटि (पाoसूo7-1-4) इति प्रतिषिद्दायाम् ``अतो हलादेः (पाoसूo7-2-7) इति विकल्पं बाधित्वा ``अतो ल्रान्तस्य (पाoसूo 7-2-2) इति नित्या वृद्धिः। `अलावीत्' इत्यादावप्यन्तरङ्गत्वाद्गुणावादेशयोः कृतयोः ``अतो ल्रान्तस्य (पाoसूo7-2-2) इत्यत्र ``लोपो व्योः (पाoसूo6-1-76) इति लोपेन वकारस्यापि व्याख्यानान्नित्या वृद्धिर्भविष्यति-मा भवानवीत्। `अमवीत्' इत्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेत्? न, णिश्विग्रहणमपनीय तत्स्थाने अविमव्योः प्रक्षेपेण वृद्धिनिषेधात्। न ह्यस्मिन्पक्षे णिश्विग्रहणमुपयुज्यते। `औनयीत्' अश्वयीत् इत्यत्रान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धेः। नन्वेवमवेरिव मवेरपि नित्यं निषेध एव स्यात्, इष्यते तु विकल्पः। नैष दोषः ``अतो ल्रान्तस्य (पाoसूo7-2-2) इत्यत्र वकारप्रश्लेषेण या नित्या वृद्धिः प्राप्ता सैवेहाविमव्योर्नेत्यनेन मवेर्निषिध्यते न तु ``अतोहलादेः (पाoसूo 7-2-7) इत्येषाऽपि। ``मध्येपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्(पoभाo6o) इति न्यायात्। न चैवं जागर्त्तेरपि तथा प्रसङ्गः, तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इति स्वीकारात्। यद्वा, अपवादे निषिद्धे उत्सर्गो न प्रवर्त्तते इति जागर्त्तावाश्रयणीयं मवतौ तु प्रवर्त्तते इति बाध्यसामान्यविशेषचिन्तयोर्बाधके निषिद्धे बाध्यस्य प्रवृत्त्यप्रवृत्योश्च लक्ष्यानुरोधेन व्यवस्थाया अनुपदमेव वक्ष्यमाणत्वात्। न चैवम्`अगवीत्' इत्यत्रापि नित्या वृद्धिः स्याद्वकारप्रश्ले,ादिति वाच्यम्, सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारणात्। तस्मात्सिच्यन्तरङ्गाश्रयणेनैव `अनुवीत्' `अधुवीत्' इत्यादेः सिद्धौ ``क्ङिति च (पाoसूo1-1-5) इति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति।
   आत्रोच्यते-वकारप्रश्लेषे सति ``शवतिर्गतिकर्मा कम्बोजेषु विकारएवैनमार्या भाष्न्ते इति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोर पि नित्यवृद्धिप्रसङ्गः, तस्यापि प्रतिषेधे वा कथंक णिश्विभ्यां निमानम्? गौरवप्रसङ्गात्। किञ्च, न वयं व्यसनितया सिच्यन्तरङ्गं न्स्तीति ब्रूमः, किन्तु न्यायबलाज्ज्ञापकबलात्फलानुरोधाच्च। तथाहि, येननाप्रप्तिन्या येनान्तरङ्गं वृद्ध्या बाध्यते `सत्यपि सम्भवे बाधनं भवति' इत्यभ्युपगमात्। अन्यथा तक्रेण दधि न बाध्येत, श्नमकजादिभिशिच शप्प्रत्ययकप्रत्ययादयो न बाध्येरन्, देशभेदेनोभयसम्भवात्। न च मध्येपवादन्यायेनोवङेव वृद्ध्या बाद्यते न तु गुणोऽपीति वाच्यम्। बाध्यस्य भेदेन विवक्षायां ह्येतदेवं स्यात्। बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्वं बाध्यते, यथा ``अचिर (पाoसूo7-2-100) इत्येतेन गुणदीर्घोत्वानि। अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दीर्घोत्वे एव बाध्येत न तु गुणम्, तस्य परत्वात् बाध्यस्य च क्वचिद्भेदेन चिन्ता क्विचित्सामान्यरूपेणेत्युभयमपि लक्ष्यानुरोधात्तत्रतत्राश्रीयते। णिश्विग्रहणं चात्र लिङ्गम्। अन्यथान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तनां नेति निषेधादेव `औनयीत् `अश्वयीत्' इत्यादेः सिद्धौ किं णिश्विग्रहणेन? ज्ञापकान्तरमप्युक्तं भाष्ये--यञ्च करोत्यकारग्रहणं लघोरिति कृतेऽपीति। अस्यायमाशयः--``अतो हलादेः (पाoसूo7-2-7) इति सूत्रेऽद्ग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम्, लघुग्रहणेनैव व्युदासात्। इदुदृतः परमवशिष्यन्ते `अचेतीत् ' `अकोषीत्' `अनर्तीत्' इति। तेऽप्यन्तरङ्गेण गुणेनापहृताश्चेत्तर्हि व्यर्थमद्ग्रहणं स्यात्। न च `अकुटीत्' `अपुटीत्' इत्यादावुकारव्युदासाय तदिति वाच्यम्, तत्राप्यन्तरङ्गेण गुणेन वृद्धिबाधे सति गुणे ङित्त्वान्निषिद्धेऽपि वृद्धेरप्रवृत्तेः, न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति न्यायात्। अत एव ``नान्तः पादम् इति पाठे पूर्वरूपनिषेधेसत्ययादयोऽपि न प्रवर्त्तन्ते। तेन `सुजाते अश्वसूनृते, इत्यादि च सिध्यतीति स्वीकृतं भाष्ये। न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्विषयं स्याद् `वृक्षौ' इत्यादौ ``नादिचि (पाoसूo6-104) इति पूर्वसवर्णे निषिद्धे वृद्धिश्च न प्रवर्त्तेतेति वाच्यम् ``भिद्योद्ध्यौ नदे(पाoसूo3-1-115) ``तौ सत् (पाoसूo 3-2-127) इत्यादि लिङ्गेनापवादे निषिद्धे उत्सर्गोऽपि न प्रवर्त्तते इत्यस्यासार्वत्रिकत्वाभ्युपगमात्। तदेतत्तत्रतत्रोच्यते---``नोत्सहते प्रतिषिद्धा सती बाधितम् इति। तथाच पक्षभेदाश्र येण ``अतो हलादेः (पाoसूo7-2-7) इत्यद्ग्रहणमपि ज्ञापकमिति स्थितम्।
   फलमप्यस्ति। यदि हि सिच्यन्तरङ्गं स्यात्तर्हि चिनीप्रभृतिभ्यो यङ्लुगन्तेभ्यः चिरिणोतिजिरिणोतिभ्यां च लुङि सिचि `अचेचायीत्' अनेनायीत्' `अचिरायीत्' `अजिरायीत्' इति न स्यात्, गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधप्रसङ्गात्। यदि तु बाध्यविशेषचिन्तायां मध्येपवादन्यायमाश्रित्य उवङेव बाध्यते न तु गुण इत्याश्रीयते तदाप्येतन्न सिद्ध्येदेव। तस्मात्सिचि सर्वमप्यंतरङ्गं नास्त्येवेति सिद्धान्तं साधयितुं बाध्यसामान्यचिन्तैवाश्रयणीया। एतदर्थमेव हि भाष्ये ज्ञापकोपन्यासः कृतः। अन्यथा न्यायेनैव सिद्धेऽन्तरङ्गस्यापि बाधे किं ज्ञापकवर्णनेन? एवं स्थिते `न्यनुवीत्' `न्यधुवीत्' इत्यत्र ``क्ङितिच (पाoसूo 1-1-5) इति निषेध एवाश्रयणीयस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहणमपीह कर्त्तव्यमेवेति स्थितम्। एवञ्च सत्यसम्भवादपि वृद्ध्या सिच्यन्तरङ्गं सर्वं बाध्यते। यदि हिस्यात्तर्हि क्वापि सिचीगन्तमङ्गं न लभ्येते त्यवधेयम्। तथा चेग्लक्षणत्वस्य निषेधप्रवृत्त्यर्थमावश्यकत्वे स्थिते तत्र तत्रात्सन्ध्यक्षरव्यञ्जनादिव्यावृत्तिरपीक्परिभाषयैव सिध्यतीति ज्ञापकवर्णनादिक्लेशोऽपि नाश्रयणीयः। न चैवं `द्यौः' `पन्थाः' `इमम्' इतायादावपीक्पदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वाच्यम्, गुणवृद्दिशब्दयोरनुवृत्तौ पुनर्गुणवृद्धिग्रहणसामर्थ्याद्धि शब्दव्यापारोऽप्याश्रीयते, गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्यनुवृत्ताभ्यां विशेषणाद्वा। ननु ``अचश्च (पाoसूo1-2-28) ``इति सूत्रे ह्रस्वादिग्रहणानुवृत्त्या संज्ञया विधाने पदोपस्थितिरिति स्थास्यति तत्सामर्थ्याद् ``दिव औत् (पाoसूo7-1-84) ``पथिमध्यृभुक्षामात् (पाoसूo7-1-85) ``त्यदादीनामः (पाoसू7-2-1-2) इत्यत्रेक्पदोप स्यानं न भविष्यति। यदि हि स्यात्तर्हि ``अचश्च (पाoसूo 1-2-27) इत्यत्र संज्ञया विधानेऽति यत्नाश्रयणं व्यर्थं स्यादिति चेत्? न, ``दिवउत् (पाoसूo 6-1-131) इत्यादिष्वगुणवृद्धिसंज्ञकेष्वच्परीभाषानिवर्त्तनेन चरितार्थत्वात् ``अष्टन आ विभक्तौ (पाoसूo7-2-84) इत्यादाविकोऽसम्भवेन तत्र चरितार्थत्वाच्च। तस्मात् `द्यौः' `पन्थाः' `इमम्' इत्यादिसिद्धये इहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्चः। ननु `पन्थाः' इत्यनुदाहरणम् ``इतोऽत्(पाoसूo7-2-84) इत्यादाविकोऽसम्भवेन तत्र चरितार्थत्वाच्च। तस्मात् `द्यौः' `पन्थाः' `इमम्' इत्यादिसिद्धये इहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्जः। ननु `पन्थाः' इत्यनुदाहरणम् ``इतोऽत् (पाoसूo7-1-86) इति सिद्धे आद्विधिसामर्थ्यादेवेक्पदस्यानुपस्थितेरिति चेत्? न, ऋबुक्षिऋकारोकारयोरर्थे आद्विधिसम्भवात्। न चेकः सोश्चानन्तर्यविवक्षणाद्येननाव्यवधानाश्रयणाच्च नैवमिति वाच्यम्, तथापि सम्बुद्ध्यर्थतया सामर्थ्योपक्षयात्। न चैवम् `इत आत्' इत्येव ब्रूयादिति वाच्यम्, ऋभुक्षणमिन्द्रमित्यस्यासिद्ध्यपत्तेः। आद्विधौ हि ``वा षपूर्वस्य (पाoसूo6-4-9) इति तत्सिद्धिरिति दिक्।
   यत्तु भाष्ये `सः' `इमम्' इत्युदाहृतं, तत्र ``स इमं मन्त्रमपश्यत् इति बाह्मण वाक्यैकदेशानुकरणमात्रम्। उदाहरणं तु `इमम्' इत्येव न तु `सुः' इत्यपि, तच्छद्वे इकोऽसम्भवेन ``इकः (पाoसूo 1-1-3) इति नियमस्याप्रवृत्तेरित्याहुः.
   वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव। ``त्यदादीनामः (पाoसूo7-21-2) इति विधिवाक्यम्। तत्र चेक इत्यस्योपस्थितौ द्वीदमोरेवात्वं स्यान्न त्वन्येषाम्। गणएन निर्द्देशस्तु संज्ञोपसर्जनव्यावृत्त्यर्थमुत्तरार्थ च स्यात्। ``तदोः सः सौ (पाoसूo 7-2-106) इति सत्वंहि त्यदादीनामेव तदोर्विधीयते।
   अत्रेदमवधेयम्, शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु, इकस्तावित्येतावतैव सिद्धः। वस्तुतस्तु तावित्यपि व्यर्थम्। इक इत्येव सूत्र्यताम्। सम्पूर्णं पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादतैचौ यत्र विधीयेते, गुण इति चादेङौ, तत्रेक इत्युपतिष्ठते इति व्याख्यानात्। व्याख्याने लिङ्गं तु ``इतोऽत् (पाoसूo7-1-86) इतीद्ग्रहणम्। अन्यथा तत्रापीक्पदोपस्थितावुक्तरीत्या येननाव्यवधानन्यायादृकारोकारव्यावृत्तौ च सत्यां किं तेनेति। तदेतद् ``इग्ग्रहणं किमर्थम् इति भाष्येण ``इग्ग्हहणमात्सन्ध्यक्षर इत्यादिवार्त्तिकेन च सूच्यते। अन्यथा हि सूत्रं किमर्थमित्याद्येव ब्रूयात्। यत्तूत्तरार्थं गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशयेनेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम्, तन्न, पूर्वसूत्रानुवृत्त्यैव सिद्धावुत्तरार्थत्वस्यापि दुरुपपादत्वात्, समुदायापेक्षायां मण्डूकप्लुतेः सम्बन्धानुवृत्तेर्वात्वयापि वाच्यत्वात्, इग्ग्रहणस्याप्युत्तरार्थतया तदंशेऽपि शङ्कानुत्तानाच्च। इक इति योगः किमर्थं विभज्यते इति प्रश्नबीजमिति चेत्तर्हि गुणवृद्ध्यंशेऽपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव ब्रूयादिति दिक्।
   यत्तु प्रधानावयवद्वारा समुदायाक्षेपोऽयमिति, तदपि नातीव शब्दस्वरसानुगुणम्। तस्मादुक्त एवाशयः साधुः। न चैवं ``गुणवृद्ध्यधिकारे पुनर्गुणवृद्दिग्रहणसामर्थ्याद् इत्युत्तरग्रन्थासङ्गतिः, तस्य यथाश्रुताभिप्रायकत्वात्। ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरतयासम्पूर्णसूत्रद्वयावृत्तिसामर्थ्यपरत्वाद्वेति दिक्। एवं चेक इति योगविबाग एव पूर्वपक्षसिद्दान्ताभ्यां समर्थ्यते इतीह पर्यवासितोऽर्थः। ततश्चानेनैकेन योगविभागेन सकलेष्टसिद्धौ `मृजेर्वृद्धिरचः' `उरङि गुणः' इत्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्त्तव्यमिति स्थितम्।
   इयं च परिभाषाऽलोन्त्यपरिभाषयाः शेषो वा शेषिभृता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वाधिका वा पदोपस्थापिका वेति सप्तदपक्षाः सम्भव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः। तथाहि, ``सार्वधातुकार्द्ध्गदातुकयोः (पाoसूo7-3-84) इत्यत्र स्वस्वनिमित्तवसात्परिभाषाद्वयं सन्निहितम्। तत्राङ्गस्येति षष्ठी यदि पूर्वमेवान्त्यमलं नीता अङ्गान्त्यस्य गुण इति, पश्चादिकाऽन्त्यो विशेष्यते, तदेक्परिभाषा शेषभूता। यदि तु पूर्वमिकाऽङ्गस्य विशेषणात्तदन्तविधिरिगन्तस्याङ्गस्येति, ततः स च भवन्नलोन्त्यस्येति, तदा द्वितीयः पक्षः। तदिदं पक्षद्वयमपि षष्ठीतत्पुरुषं बहुव्रीहिं चाश्रित्य `तच्छेषपक्ष' इति भाष्ये व्यवहृतम्। इह पक्षद्वेयेऽपि ``मिदेर्गुणः (पाoसूo7-3-82) इत्यादौ दोषः। यो हि मिदेरन्त्यः नासाविक्, यश्चेक् नासावन्त्यः। तथा चावश्यम्परिभाषायां त्यक्तायां सत्यां विनिगमकाभावादुभयत्यागे सर्वादेशो गुणः स्यात्। तदुक्तं वार्त्तिककृता--``वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गश्चानिगन्तस्य इति। चकारो हेत्वर्थः। ततश्च सर्वादेशप्रसङ्गो हीति फलितम्।
   अथ मिद इर्मिदिः तस्य मिदेरित्यादिपूर्वोक्तरीत्या कथं चिदिह सर्वत्रेक एव स्थानित्वं लभ्येत, तथापि `भिन्नम्' इत्यादावनिग्लक्षणत्वाद् गुणनिषेधो न स्यात्। अथ क्नोः कित्त्वाज्ज्ञापकादनिग्लक्षणत्वे।़पि निषेधस्तर्हि `लैगवायनः' `पौरोहित्यम्' इत्यादावतिप्रसङ्गः
   अथ लक्ष्यानुरोधाल्लघूपधगुणमात्राविषयकं ज्ञापकं तर्हि पदोपस्थितिपक्ष एव लक्ष्यसिद्धये समाश्रीयताम्। एवं हि ज्ञापकाश्रयणक्लेशोऽपि न भवति। कित्तवेनापि पदोपस्थितिरेव ज्ञाप्यताम्। एवं हि ज्ञापकमूलकं वाक्यान्तरं न कल्प्यमिति लाघवम्।
   अस्तु तर्हि तृतीयः पक्षः--मिदेरन्त्यस्येकश्च द्वयोरपि गुण इति। मैवम्, स्थानेयोगावयवसम्बन्धरूपस्यार्थद्वयस्य युगपदुच्चारितया षष्ठ्या दुर्लभत्वात्। स्थानेयोगं च विनाऽलोन्त्यविध्यलाभात्। स्यानषष्ठी हि तदुपस्थितौ लिह्गमिति वक्ष्यते। इक इत्यनेन सहावयवषष्ठीं विनाऽन्वयायोगात् आवृत्त्यादौ प्रमाणाभावाच्च।
   एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः, विकल्पस्याष्ठदोषग्रस्तत्त्वाच्च।
   अस्तु तर्हि तदपवाद इति पञ्चमः पक्षः। तथाहि, गुणविदावङ्गस्येति न स्थानषष्ठी। किन्तु इगपेक्षयाऽवयवषष्ठी। ततश्च लिङ्गाभावादलोन्त्यपरिभाषाया अनुपस्थितिः। अयमेव च बादपदार्थः। यदीक्परिभाषा न भवेत्तर्हि स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात्। सत्यान्त्विक्परिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यवहारः। न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति शास्त्राप्रामाण्यप्रसङ्गात्। अत एव शास्त्रतात्पर्यसङ्कोचो बाध इत्याहुः। एतेन द्वन्द्वापवाद एकशेष इत्यपि व्याख्यातम्। नत्द्यनुत्पन्नायां विभक्तौ द्वन्द्वस्य प्रसङ्गः, किन्तु यद्येकशेषो न भवेत्तर्हि प्रत्येकं विभक्तिर्द्वन्द्वश्च स्यात्सति त्वेकशेषे तन्नेत्येव तत्त्वम्। अस्मिंश्च पक्षे जुसि गुणो `अजुहवुः' इत्यत्रेव `अनेनिजुः' `पर्यवेविषुः' इत्यादावपि स्यात्। ``सार्वधातुकार्द्धधातुकयोः (पाoसूo7-3-84) इति गुणो `भवति' इत्यादाविव `इहिता' इत्यत्रापि स्यात्। तथा च वार्त्तिकम्--``इङ्मात्रस्येति चेज्जुसि सार्वदातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः (काoवाo) इति। अत्र ह्रस्वादीति ``ह्रस्वस्य गुणः (पाoसूo7-3-108) ``जुसि च (पाoसूo 7-3-109) ``ऋतोऽङि सर्वनामस्तानयोः (पाoसूo7-3-110) ``घेर्ङिति (पाoसूo7-3-111) इति गुणचतुष्टयं गृह्यते। ततश्च `हे अग्ने' `अग्नयः' `कर्त्तरि' `अग्नये' `बाभ्रव्यः' इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति, एवं `हे अग्निचित्' `अग्निचितः सन्ति' `सुकृति' `अग्निचिते' `सौश्रुतः' इत्यत्रापि स्यादिति वार्त्तिकार्तः। यद्यपीह निर्द्दिष्टस्थानिकत्वात्परिभाषा दुर्लभा। अग्निचिच्छब्दस्य घिसंज्ञाभावाच्च ``घेर्ङिति (पाoसूo7-3-111) इत्येतन्न प्राप्नोति, तथापि वार्त्तिकस्योक्तिसम्भवमित्थं वर्णयन्ति--``हस्वस्य गुणः (पाoसूo7-3-108)``जसि च (पाoसूo 7-6-109) इति सू6योस्तावद्ध्रस्वेनेग्वलिशेष्यते। दीर्घव्यावृत्तिश्च फलम्। अथानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम? न हि इस्वस्य स्थानित्वेऽतिप्रसङ्गोऽस्ति, अकारस्य ह्यकार एव गुणो भविष्यतीति ब्रूयात्। तक्षत्रेदं वक्तव्यम्। ह्रस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात्। ततश्च `हे उपगो' इत्यादावनन्त्यस्यापि स्यात्, `अग्निचित्' इत्यादिकं तु विशेषणव्यवच्छेद्यं स्यात्। तथा च ह्रस्वस्येक इत्यनयोर्न परस्परं विशेषणविशेष्यभावः। किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति। यद्वा, ह्रस्वस्येत्येतदङ्गस्य विशेषणं मा भूदित्यङ्गस्य स्तानषष्ठीत्वं बाधितुमनन्त्यस्यापि गुणं सम्पादयितुमिक्परिभाषोपतिष्ठेत। एवम् ``ऋतः (पाoसूo7-3-110) ``औः (पाoसूo6-4-146) इत्युभयत्राप्यनन्त्यस्य गुणविधानार्थं परिभाषा स्यादेव। घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्येति पक्षं गृहीत्वा ``घेर्ङिति (पाoसूo7-3-111) इत्यस्य ``अग्निचितः इत्यादावतिप्रसङ्गो योज्यः। नह्यस्मिन्पक्षे ऋत ओरित्याभ्यां घेः किञअचिद्वैलक्षणयमस्तीति दिक्।
   नन्वस्मिन्पक्षे ``पुगन्त (पाoसूo7-3-86) इति सूत्रस्यु नियमार्थत्वाद् `ईहिता' इत्यादौ न दोष इति चेत्? न, यदि हि सार्वदातुकार्द्धधातुकयोर्लघूपधस्यैवेति नियमस्तर्हि ह्रस्वाद्योर्गुणे दोषस्तदवस्थः। यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियमस्तथापि `ईहिता' इत्यादौ दोष एव। अथावृत्त्या द्विविधोऽपि नियमस्तर्हि `अनेनिजुः' इत्यत्र दोषः। न ह्येतन्नियमद्वयेनापि वारयितुं शक्यं, लघूपधत्वात्सार्वदातुकपरत्वाच्च। `हे बुद्धे' `बुद्धयः' `पिचवे हितः पिचव्यः' ``उगवादिभ्यो यत् (पाoसूo5-1-2) `बुद्धये' `वृद्धये' इत्यादावनुपधाभूतेष्वतिप्रसह्गस्तु दुर्वार एवेति तावद्वार्त्तिकहृदयम्।
   वस्तुतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशेषणात्सकलदोषनिरासे सति तदपवादपक्षोऽपि समर्थयितुं शक्यते एव। अङ्गमेव प्रत्ययेन विशेष्यते इति गृहीत्वा परं भाष्यवर्त्तिकग्रन्थप्रवृत्तिरित्यवधेयम्।
   अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेत्? न, इक्परिभाषाया निरवकाशत्वात्। न हि परस्परपरिहारेणावकाशलाभेऽसति विप्रतिषेधः। तस्माद्यदि `सत्यपि सम्भषे बाधनं भवति' इत्याश्रीयते तर्हि येननाप्राप्तिन्यायादपवादत्वमस्त्येव। यदि तु ``असम्भवे बाध्यबाधकभाव अस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीयते तर्हि तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम्।
   तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः। तथाहि, इक इति षष्ठ्यन्तानुकरणम्, न तु संज्ञिपरम्, ``स्वरूंपम् (पाoसूo 1-1-68) इति वचनात्। न च ``अशब्दसंज्ञा (पाoसूoएo1-1-68) इति निषेधः, षष्ठ्यन्तस्यासंज्ञात्वात्। तदयमर्थ--यत्र ब्रूयाद्गुणो भवति वृद्धिर्भवतीति, तत्रेक इति षष्ठ्यन्तमुपतिष्ठते इति। तस्य च पदैकवाक्यतयाऽन्वयोऽन्वयोऽन्तरङ्गोऽलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थं बुध्वा तदेकवाक्यतया सम्बध्यते इति तदन्वयो बहिरङ्गः। ततश्च ``जुसिच (पाoसूo 7-3-83) इत्यादाविकोऽङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्त्वादिकाऽङ्गे विशेषिते स्था नषष्ठी न विहितेति भवत्येवाऽलोन्त्यपरिभाषोपस्थितिः। ``मिदेर्गुणः (पाoसूo7-3-82) इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदेरिक इति वैयधिकरण्येनान्वये सति स्थानषष्ठीविरहादलोन्त्यपरिभाषानोपतिष्ठते। न च मिदेरङ्गस्येत्यनयोरवयवषष्ठीत्वेपीक इति स्थानष ष्ठ्यस्त्येवेति वाच्यम्, न ह्येषाऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते, अल्समुदायात्मकस्थानिनः परभूताया एव षष्ठ्यास्तदुपस्तापकत्वात्, इकश्चाल्रुपत्वात्। तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविसेषादुभयोर्निवृत्तिः स्यादिति सकलेष्टसिद्धिः। तच्छेषतदपवादपक्षयोरपि दूषणमुद्धर्त्तुं शक्यमित्युक्तमेव।
   तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव। पक्षचतुष्टयन्तु साध्विति स्थितम्।
  नन्वेतत्सूत्रम् ``अङ्गस्य (पाoसूo6-4-1) इत्यादिवदधिकारार्थमेव किं न स्यादिति चेत्? एवं हि सतीकोगुणवृद्धी नेति नत्रा संयुज्यैव पठेत्। ``सर्वस्य द्वे (पाoसूo8-1-1) ``पूर्वत्रासिद्धम् (पाoसूo8-2-1) इत्यादिवत्। न द्द्युत्तरसूत्रोपस्थितिकत्वाविशेषे किंचित्संयुज्य किंचित्तु विभज्य पठितुमुचितम्, वैरूप्ये हेत्वभावात्। ``प्रत्ययः (पाoसूo3-1-1) ``परश्च (पाoसूo3-1-2) इत्यादौ तु पारार्थ्याविशेषेऽप्यसंयुज्य निर्द्देशो विधेयभेदान्न विरुध्यते। नापीदं विधिसूत्रम्, पुनर्गुणवृद्धिग्रहणसामर्थ्यात्, तत्प्रत्याख्यानपक्षेऽपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक्।
।। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे
तृतचीयमाह्निकम् ।।
                     ----***----