पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७. महाभिषेकः ।।
५९५
बृहत्कथामञ्जरी


अपि स्मरसि मे देव संप्राप्य विजयश्रियम्
न दृश्यते स्थितः पश्चात्सदीपैरिव पार्थिवैः ॥
यदा त्वं गौरिमुण्डेन यातितोऽग्निगिरेस्तटे ।
पुरा मया तदा देव रक्षितोऽसि हराज्ञया ॥ ४ ॥
दूरपातमहामूर्छामदसंस्कारसंविदा ।
मन्ये मां नाभिजानासि चिरवृद्ध इवानगम् ॥ ६ ॥
पुराकृतावलम्बोऽपि हदि प्रत्यनसश्रमें।
अपराध इवार्यस्य मन्येऽहं विस्मृतोऽद्य ते ॥ ६ ॥
अमृतप्रभनामाहं प्रपन्नस्तव शासनम् ।
वामदेवेन मुनिना प्रेषितो भवदन्तिकम् ॥ ७ ॥
मुनिस्त्वामाह रत्नानि गृहाणाभ्येत्य मद्गिरा ।
चक्रवर्तिश्रिये देव तूर्णमित्युत्तमप्रियः ।। ८ ॥
इति विद्याधरवचो निशम्य नरवाहनः ।
तं परिज्ञाय नभसा बामदेवाश्रमं ययौ ।। ९ ।।
तं प्रणम्य मुनि तत्र तदादिष्टो गुहान्तरात् ।
सोऽद्य विघ्नधनोत्पातं राज्यप्रसवभूतये ॥ १० ॥
ध्वजं छत्रं सुधाबिम्ब खड्गश्चिः स्थकुञ्जरान् ।
दण्डरत्नं च संप्राप्य स निज कटकं ययौ ॥ ११ ॥
अथ श्रीमान्प्रशस्तेऽह्नि विमान सचिवैः सह ।
प्रियाभिश्च समारुह्य जययात्रां दिदेश सः ॥ १२ ॥
ततो विद्याधरानीकसंछादितनभस्तलः ।
जेतुं मन्दरदेवं स त्रिनेत्राद्वितटे ययौ ॥ १३ ॥
तत्र सेना बभौ तस्य स्फटिकप्रतिबिम्बिता ।
पूरितेव निजानीकैः सेवायै गर्भभूभृता ।। १४ ।।
तत्र गीर्वाणतटिनीतीरविश्रान्तसैनिकः।
विजहार मृगाक्षीभिः पारिजातलतावने ॥ १५॥


"श्रम ख... 'साथ ख. ३. 'वनोपान्ते ख. ४. 'सेनं ख.