शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

शब्दकौस्तुभः-I
अध्याय-2

अइउण्।
   संज्ञासुत्रमिदम् ``आदिरन्त्येन सहेता इत्यनेन सहैकवाक्यत्वात्। अइउणित्येषामादिरकारः अन्त्येन णकारादिना सहितः सन् आद्यन्ताभ्यामाक्षिप्तानां मध्यगानां स्वस्य च संज्ञेति हि वाक्यार्थः। अत्र अकारादीनां स्वरूपेण अनुकार्येण वा सतोप्यर्थवत्त्वस्याविवक्षितत्वात्प्रातिपदिकत्वं नेति `गवित्ययमाह' इत्यादाविव विभक्तेरनुत्पात्तिः ``सुपांसुलुग् इति लुग्वा ``छन्दोवत्सूत्राणि इति बाष्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् ``यूस्त्र्याख्यौ इतिसूत्रे छन्दःप्रदेशेषु गौणुख्यन्यायो न प्रवर्त्तते इति वक्ष्यमाणत्वाद्वा।
   स्यादेतत्, स्वरसन्धिनेह भाव्यम्। तत्र अ इत्यत्र विभक्तेः रुत्वयत्वलोपेषु `वृक्ष इह' इत्यादाविव लोपासिद्ध्या सन्धिर्नेति समाधानेऽपि इकारस्य ``इकोऽसवर्णे इति ऋकारस्य ``ऋत्यकः इति प्रकृतिभावसम्भवेऽपि एदैतोरयायौ दुर्वारौ। यत्तु वर्णोपदेशकाले अजादिसंज्ञानमनिष्पादात्सन्धिर्नेति। तच्छिन्त्यं, वर्णोपदेशे इत्संज्ञायामच्प्रत्याहारे च निष्पन्ने प्रवर्त्तमानानां यणादीनां `सुध्यपास्य' इत्यादौ तटस्थे इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात्। अन्यथा तुल्यास्यप्रयत्नमित्यादौ सवर्णदीर्घो न स्यात्। तथाऽर्थवत्सूत्रान्तर्गतानां परातिपदिकत्वं, ``प्रत्ययः ``परश्च इत्यादौ सुप्रत्ययो, ``ङ्याप्प्रातिपदिकात् ``द्व्येकयोर्द्विवचनैकवचने ``बहुषु बहुवचनम् इत्यादौ तत्तद्विभक्ति, ``ससजुषो इत्यत्र रुः, ``खरवसानयोः इतिसूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात्। ``स्वाध्याय योऽध्येतव्यः इत्यस्य ``नेह नाना इत्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत् ? तुल्यं यणादावपि। नन्वेवं ग्रहणकशास्त्रमपि ``अणोप्रगृह्यस्य'ट इत्यादौ तटस्ते इव स्वस्मिन्नपि प्रवर्त्तेत, ततश्च दीर्घाणामनणत्वेन सवर्णग्राहकत्वं नास्तीति सिद्धान्तोऽपि भज्येतेति चेत्? न, वैषम्यात्। पदार्थसंसर्गो हि वाक्यार्थः। तद्बोधश्च पदार्थबोधोत्तरभावी। तथाच अण्शब्देन ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः। अण्शब्दश्च ``आदिरन्त्येन इतिसूत्रेण अक्षरसमाम्नायपठितेषु संङ्केतित इति तानेवात्रोपस्थापयति। तथाच अष्टादशानामपि अकारः संज्ञेति पर्यवसन्ने सूत्रान्तरेषु ``अस्य च्चवौ इत्यादिषु अकारोऽष्टादशानामुपस्थापक इत्युचितं, न तु ग्रहणकसूत्रेपि एतद्वाक्यार्थबोधात्प्रागष्टादशस्वगृहीतशक्तिकत्वात्। नहि ``सिचि वृद्धिः इत्यादावादैचामुपस्थापकोपि वृद्धिशब्दो ``वृद्धिरादैच् इति संज्ञासूत्रे तानुपस्थापयति। किन्तु स्वरूपमेव। संज्ञासूत्रे च सामानाधिकरण्यादादैचां वृद्धिशब्दवाच्यत्वावधारणे सूत्रान्तरेषु संज्ञिनामुपस्थइतिर्निर्बाधेति दिक् ।
   तस्मादइउणित्यादौ स्वरसन्धिः प्राप्नोत्येवेति चेत्? सत्यम्, संहिताविरहान्न यणोदयः। अनित्या हि वाक्ये संहिता। उक्तञ्च---
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ।। इति ।
   समासस्य पृथग्ग्रहणं गोबलीवर्द्दन्यायेन, एकपद इत्यनेनैव तत्सङ्ग्रहसिद्धेः। इयं च प्राचां परिभाषा एकदेशानुमतिद्वारा संहिताधिकारैणैव ज्ञापिता। असंहितायां यणादिनिवृत्त्यर्थो हि संहिताधिकारः। अत एव---
हे रोहिणि त्वमसि शीलवतीषु धन्या
एनं निवारय पतिं सखि दुर्विनीतम्।
जालान्तरेण मम वासगृहं प्रविष्टः
श्रोणीतटं स्पृशति किं कुलधर्म एषः ।।
   इत्यत्र धन्या एनमित्यस्य नासाधुता। अत एव आलङ्कारिकैश्च्युतसंस्कृतित्वापक्षेया पृथगेव विसंधितानाम दोषान्तरह्गणितम्। तच्चेहास्तीत्यन्यदेतत्। नन्वेवमप्यसंहितायां कालव्यवायादेव यणादेरप्राप्तौ किं संहिताधिकारेणेति चेत् ? न, संहिताधिकारबहिर्भूतानां कालव्यवायेऽपि प्रवृत्तिं ज्ञापयितुं तदारम्भात्। तेन ``अग्नाविष्णू इत्यग्ना विष्णू इत्यादाववग्रहेऽप्यानङादयः, ``अग्निमिळे इत्यत्र पदविभागेऽपि निघातः, ``ते नो रासन्ताम् इत्यादौ नसादयश्च सिद्ध्यन्ति।
   नन्वेवं पुरः हितमित्यवग्रहे हितशब्दस्य स्वरितत्वं बह्वृचैः पठ्यमानमसङ्गतं स्यात्, ``तयोर्य्वावचि (पाoसूo 8-2-108) इति संहिताधिकार आशास्त्रसमाप्तेरिति सिद्धान्तात्, स्वरितविधेश्च तदन्तर्भूतत्वात्। अत एवतैत्तिरीया अवग्रहे हितशब्दमनुदात्तं पठन्ति। अत एव बह्वचा अपि ``अग्निमीळे इत्यस्य पदविभागपाठे निघातमेव कुर्वन्ति न तु स्वरितमपीति चेत् ? सत्यम्, प्रातिशाख्ये विशेषविधानात्स्वरितसिद्धिः। उक्तं हि---
यथा सन्धीयमानानामनेकीभवतां स्वरः।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे ।। इति ।।
   तदेवम् ``अइउण् (माoसूo 1) इत्यादौ संहिताविरहान्न सन्धिरिति स्थितम् ।
   के चित्तु चादिषु पाठान्निपातसंज्ञा, ``निपात एकाज् (पाoसूo 1-1-14) इति प्रगृत्द्यत्वं, ततः प्रकृतिभावः। यद्यपि अनिपातानामपीह ग्रहणमिष्टं `दध्यश्वः' `दाक्षिः' `प्लाक्षिः' इत्यादिसिद्धये, तथापि न सर्वा व्यक्तयः साक्षान्निर्द्देष्टव्याः, आनन्त्यात्, किन्तु काचिद्व्यक्तिर्निर्द्दि श्यमाना स्वसदृशीरितरा अपि गृण्हातीति वक्ष्यते। तत्र किं निपातव्यक्तिरेव निर्द्दिश्यतामुत तदितरेति संशये आद्यकोटिरेव युक्ता। संहिताकार्यविरहेण निर्द्दिश्यमानरूपस्य स्फुटप्रतीतिसिद्धेरित्याहुः।
   कारप्रत्ययस्तु न भवति बहुलग्रहणात्। स हि ``रोगाख्यायां ण्वुल् बहुलम् (पाo सूo 3-3-108) इत्यत्रोपसंख्यातः।
अन्ये तु ``इक्श्तिपौ धातुनिर्द्देसे (काoवाo) इत्यतो निर्द्देशशब्दः कारप्रत्ययविधावनुवर्तते। निर्द्देशश्च प्रतिपादनम्। तेन प्रयोगविशेषनिर्दिष्टानांवर्णानां प्रतिपादने प्रत्ययः, इह तु आनुपूर्वीसम्पादनमात्रे तात्पर्यं, न तु `कविपुत्र' इत्यादौ दृष्टानामकारादीनां प्रतिपादने। अतः कारप्रत्ययाभाव इत्याहरुः।
   अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्त्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः।
   अत्रेदमवधेयम्, अकारः संवृतः ``विवृतकरणाः स्वराः, तेभ्य ए ओ विवततरौ, ताभ्यामैऔ विवृततरतरौ, ताभ्यामप्याकारः, संवृतोऽकारः इति शिक्षावाक्यात् विवृतसंवृतादयः शब्दाः शुक्लादिवद्धर्मे धर्मिणि च प्रयुज्यन्ते। तेन विवृतं करणं प्रयत्नो येषां ते तथाभूताः स्वरा इकारादय इत्यर्थः। यत्तु छन्दोगविशेषैरिवर्णोवर्णऋ काराणां संवततामिच्छद्भिरुक्तं ``य्वृतः संवृता अन्यत्रार्भवसाम्नः इति, तत्तु तदीवशाखाविशेषमात्रपरं न तु सार्वत्रिकम्। यथा सात्यमुग्रिराणायनीयानामेव ``सुजाते ए अश्वसूनृते ``अध्वर्यो ओ अद्रिभिः सुतम् इत्यादावेकमात्र एकार ओकारश्च न त्वनेकेषां, तद्वत्। इकारादौ वा यथा तथास्तु। अकारस्य संवृतत्वं तु निर्विवादमेव। तथाप्यसौ प्रक्रियादशायामाकारेण दीर्घेण प्लुतेन च सह सावर्ण्यसिद्ध्ये विवृततरोऽस्मिन्सूत्रे निर्द्दिश्यते। विवृततरत्वं च प्रयोगदशायां मा भूदित्येतदर्थं शास्त्रान्ते ``अ अ (पाoसूo 8-4-68) इति सूत्रं कृतम्। तेन हि विवृततरमनूद्य संवृतो विदीयते। न चानुवाद्यसमर्पकेणाकारेण दीर्घप्लुतयोरपि ग्रहणकशास्त्रबलात्सङ्ग्रहः स्यादिति वाच्यम्, अद इति तपरनिर्देशस्य एकशेषेण ह्रस्वट्कनिर्द्देशस्य वा सिद्धान्तयिष्यमाणत्वात्। वक्ष्यति हि तत्र वार्तितककारः--``सिद्धं तु तपरनिर्द्देशाद्, एकशेषनिर्द्देशाद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सिद्धम्इति। शास्त्रान्ते च विधीयमानं प्रत्यापत्तिवचनमेव ज्ञापकमिह विवृततर उपदिष्ट इत्यस्यार्थस्य।
   यत्तु अत्रत्यं वार्त्तिकम्--``अकारस्य विवृतोपदेश आकारग्रहणार्थ इति, तत्र विवृतशब्दो विवृततरत्वपरः उदाहृतशिक्षानुरोधात्। नमु शुक्लतरोऽपि शुक्लो भवत्येव यथा, तथेह विवृततरस्याकारस्य विवृतत्वानपायात्सावर्ण्यं यथाश्रुतेऽपि सेत्स्यतीति चेत् ? न, सवर्णसंज्ञायां तुल्यप्रयत्नत्वस्य विवृततरत्वाद्यवान्तरधर्मपुरस्कारेणैव वक्तव्यत्वात्। अन्यथा ओदौतोरपि सावर्ण्यापत्तौ गां गाः, इत्यत्रेव `नावं नावः' `ग्लावं ग्लावः' इत्यादावति ``औतोऽम्शसोः इत्यात्वं प्रवर्त्तेत। ``इदूदेद्(पाoसूo 1-1-11) इत्येकारान्तस्यविधीयमाना प्रगृह्यसंज्ञा `करवावहै' इत्यादावपि प्रवर्त्तेत। ``एङः पदान्तादति (पाoसूo 6-1-107) इति पूर्वरूपं `कस्मै अदात्' `विष्णौ अस्ति' इत्यादावपि स्यात्। किंचैवं हकारादीनाञ्च विवृतत्वात्सावर्ण्याप्रसक्तेः ``नाज्ज्ञलौ (पाoसूo 1-1-10) इति सूत्रं न कर्त्तव्यमिति भाष्यसिद्धान्तो व्याकुप्येत। ``एओङ् (माoसूo 3) इत्यादिसूत्रद्वये ङकारचकाररूपानुबन्धद्वयकरणं चेह लिङ्गम्। अन्यथा हि अन्यतरेणैव सर्वत्र व्यवहरेत्। किम्बहुना एकारौकारावपि न विर्द्दिशेदाकारादीनामिव सावर्ण्येन सिद्धेरिति दिक्।
   तस्मादत्रत्यभाष्यवार्तिकयोर्विवृतशब्दो विवृततरं लक्षयतीत्येव तत्त्वम्।
   यद्वा, विवृतप्रतिज्ञानसामर्थ्याद्विवृततरेण सह सावर्ण्यं सेत्स्यतीत्यवधेयम्। एवञअच भाषअयादिग्रन्थो यथाश्रुत एवास्तु। एतच्च न्यासकारहरदत्तयोर्ग्रन्थमनुसृत्य उदाहृतशिक्षावाक्योपष्टम्भेन व्याख्यातम्। परमार्थस्तु-आकारो विवृत इत्येव भाष्यवार्तिकस्वरससिद्धं नतु विवृततर इति। तथा च पाणिनीयशिक्षा---
म्वारणामूष्मणां चैव विवृतं करणं स्मृतम्।
   तेभ्योऽपी विवृतावेङौ ताभ्यमैचौ तथैव च(पाoशिo स्लोo21) इति।
   प्रागुक्तं तु मतान्तरं, न तु पाणिनीयम्। अत एव एओङ्सूत्रे भाष्यकैयटादौ अकारस्य विवृतत्वाद्विवृततराभ्यां सन्ध्यक्षरभागाभ्यां न सावर्ण्यमित्युक्तम्। एवञ्च वृत्तिग्रन्थस्यापि यथाश्रुतस्य सौष्ठवे न्यासकारहरदत्ताभ्यां कृतं भङ्क्त्वा व्याख्यानमनादेयम्। अथवा ``नाज्ज्ञलौ (पाoसूo 1-1-10) इति पठतः सूत्रकृतो मते विवृततस्स्यापि विवृतत्वमात्रेण सावर्ण्यमस्तु, चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते इति वृत्तिग्रन्थस्वरसात्। न चैवमेङैचोरतिप्रसङ्गः, वर्णसमाम्नाये पृथक् निर्द्देशसामर्थ्यात् अनुबन्धद्वयसामर्थ्याद्बा तत्र सावर्ण्याप्रवृत्तेरिति दिक्।
   ननु `दण्कडाढकम्' इत्यादौ दीर्घेण सह दीर्घ एकादेशःक सावर्ण्यस्य फलमित्यस्तु, प्लुतेन तु सावर्ण्ये किं फलमिति चेत् ? `इह अ3ग्निदत्त' इति ``गुरोरनुतः (पाoसूo 8-2-86) इति प्लुते कृते तेन सह पूर्वस्य दीर्घ एकादेशः फलमिति गृहाण। न च दीर्घे कर्तव्ये फ्लतस्यासिद्धत्वं शङ्क्यम्, ``प्लुतप्रगृह्या अचि (पाoसूo 6-1-125) इतिज्ञापकेन ``सिद्धः प्लुतः स्वरसन्धिषु इति वक्ष्यमाणत्वात्।
   स्यादेतत्, आक्षरसमाम्नायिकस्य अकारस्य कृतेऽपि विवृतत्वे धातुप्रातिपदिकप्रत्ययनिपातस्थास्य संवृतत्वादच्त्वं न स्यात्, आक्षरसमाम्नायिकेन भिन्नप्रयत्नानाममीषामग्रहणात्। ततश्च ``शमामष्टानाम् (पाoसूo 7-3-74) इतिदीर्घोऽलोन्त्यपरिभाषयाऽन्त्यस्यैव स्यान्न त्वकारस्य ``अचश्च (पाoसूo 1-1-28) इति परिभाषाया बाधादनुपस्थइतेः। तथा `दृषद्' इत्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीत्येतन्न स्यात्। `नायक' इत्यत्र प्रत्ययाकरस्यानचूत्वादाया देशो न स्यात्। `अवनमति' इत्यत्र ``निपाता आद्युदात्ताः ``उपसर्गाश्चाभिवर्जम् (फिoसूo 3-81) इत्याद्युदात्तत्वं न स्यात्। किञ्च ``अस्यच्वै। ( पाoसूo7-4-32) इत्यादौ अकारस्य संवृतत्वेनानणूत्वादसति ग्राहकत्वे `शुक्लभिवति' इत्यादावेवेत्वं स्यान्न तु `मालीभवति' इत्यादौ। न चाक्षरसमाम्नायिकस्य विवृतत्वप्रतिज्ञासामर्थ्यात्तत्सदृशेषु धात्वादिस्थेष्वपि तत्कार्यप्रवृत्तिरिति वाच्यं, `खट्वाढकम्' इत्यादौ दीर्घसम्पादनेन विवृतत्वप्रतिज्ञायाः साफल्ये सति सामर्थविरहात्। तथाहि, ``अकः सवर्णे (पाoसूo 6-1-101) इत्यत्र ``आदिरन्त्येन (पाo सूo 1-1-71) इतिवचनादनयोरेवाकारककारयोरनुकरणमिति निर्णीतम्। तेन प्रत्याहारगतेन विवृतेनाकारेण सावर्ण्याद्दीर्घप्लुतयोर्ग्रहणे `खट्वाढकम्' इत्यादि सिध्यति। असति तु विवृतत्वे ``अस्य च्वौ (पाoसूo 7-4-72) इत्यादिष्विव प्रत्याहारेष्वपि संवृतस्य ह्रस्वस्यैव कार्यं स्यान्न तु दीर्घप्लुतयोरिति फलभेदस्य स्पष्टतया क्व विवृतत्वप्रतिज्ञायाः सामर्थ्यम् ?
   अथोच्येत प्रत्यापत्त्याऽऽक्षरसमाम्नायिकस्यैव विवृतत्वं ज्ञाप्यते इति न ब्रूमः, किन्तु सामान्यापेक्षं ज्ञापकम्--``इह शास्त्रे यावानकारः स सर्वोऽपि प्रक्रियायां विवृतो बोद्धव्यः इति। एवमपि प्रत्युच्चारणं वर्णानां भेदेन ``अस्य च्वौ (पाoसूo7-4-72) इत्यादावुच्चारितस्यानण्त्वेन सवर्णग्राहकता न स्यात्, किन्तु ``अकः सवर्णे (पाoसूo 6-1-101) इत्यादौ प्रत्याहार एव सवर्णग्राहकत्वं स्यात्। एवमिकारादयोपि ``इकोयणचि (पाoसूo 6-1-77) इत्यादावेव ग्राहकाः स्युर्न तु ``एरनेकाचो (पाoसूo 6-4-82) ``यस्येतिच (पाoसूo 6-4-14) इत्यादौ
   ननु एक एवाकारः तत्कस्यानण्त्वमाशङ्कय्ते? नचैवमुदात्तानुदात्तत्वादिविरुद्धधर्मानुपपत्तिः, तेषां व्यञ्जकध्वनिधर्मत्वात्। अनुबन्धव्यवस्थाऽपि लोकवद् भविष्यति। लोके हि `इह मुण्कडो भव, इह जटिलो भव' इत्यादिक्रमेण एकस्यानेकधर्मोपदेशेऽपि तत्तद्देशभेदेन धर्मा व्यवति ष्ठन्ते, तथेहपि ``कर्मण्यम् (पाoसूo 3-2-1) इत्यत्रैव णित्त्वं, ``चरेष्टः (पाoसूo 3-2-16) इत्यात्र टित्त्वं गापोष्टक् ( पाoसूo 3-2-8) इत्यत्र टित्त्वकित्तवे ``आ साम्प्रतिके ( पाoसूo 3-4-9) इत्यादौतु नैकमप्यनुबन्धकार्यमिति व्यवस्या। अत एव ``प्राग्दीव्यतोऽम् ``शिवादिभ्योण् इत्यादौ पुनः पुनर्णित्करणं सार्थकम्। कथं तर्हि घटेन तरतीति घटिकः, ``तस्य निमत्तं संयोगोत्पातौ (पाoसूo5-1-38) इत्यादिकारे ``गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् (पाoसूo 5-1-39) इति चेत्? आवृत्तिकृताद् द्व्यज्व्यपदेशाद्भविष्यति। न च ``बाहुकः इत्यादौ मुख्यद्व्यचि चरितार्थत्वाद्गौणे कार्यासम्भव इति वाच्यम्, अश्वादिप्रतिषेधेनेहर गौणस्यापि मुख्यसमकक्षताया ज्ञापनात्। अत एव `किरिणा' इत्यादौ ``सावेकाचः (पाoसूo 6-1-168) इति विभकग्तेरुदात्तत्वं न भवति, आवृत्तिकृतेन द्व्यजव्यपदेशेन स्वाश्रयस्य एकाज्व्यपदेशस्य निवर्त्तितत्वात्। नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते। तस्मादुक्तरीत्या बाधकाभावाल्लाघवरुपसाधकबलाच्चाकारव्यक्तिरेकैवेति सर्वं सुस्थमितिचेत? न उदात्तत्वादिविरुद्धर्माध्यासेन व्यक्त्यैक्यस्य बाधात्। ध्वनिधर्म एवैत इत्युक्तमिति चेत्तर्हि कत्वगत्वादिकमपि तस्यैवास्त्विति अकारेकारादीनामप्यैक्यप्रसङ्गः। तदेतदुच्यते--अखण्डं पदं वाक्यं वा वाचकमिति। किं बहुना मास्त्वेव व्यङ्ग्यो वर्णः, व्यञ्जकत्वाभिमतैर्ध्वनिभिरेव सर्वनिर्वा हात्। उक्तं च हरिणा--
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।। इति।।
   तस्माद्यदि ध्वनिभिरेव निर्वाहस्तर्हि जातिस्फोट एव, नो चेत् कखयोरिवोदात्तानुदात्तादीनामपि भेद एवेति न्यायतः परिनिष्ठिते सति
एवं ध्वनिगतान् भेदानुदात्तस्वपरितादिकान्।
वर्णा अनुपतन्तः स्युरथावगतिहेतवः ।।

   इति मीमांसकमतमर्द्धजरतीयत्वादुपेक्ष्यमिति स्थितम्। एवञ्च अनन्ता वर्णा इति नैयायिकाद्यभ्युपगतरीत्या यद्ययं जातिपरो निर्द्देशस्तर्हि ``अस्य च्वौ ( पाoसूo 7-4-32) इत्यत्रापि तथैवास्त्विति किं ग्रहणकशास्त्रेण? तदुक्तम्--``सवर्णेण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् इति। तपससूत्रं तु जातिनिर्द्देशप्रयुक्तस्यैवातिप्रसङ्गस्य भङ्गाय। ``त्यदादीनामः (पाoसूo 7-2-102) इत्यादौ तु एकमात्रव्यक्तिरपि जातिविशेषणतया विवक्ष्यते विधेयविशेषणत्वात्। पश्वे कत्ववत्। ``अस्य च्यौ (पाoसूo 7-4-32) इत्यादौ तु अनुवाद्यविशेषणत्वान्न व्यक्तिर्विवक्षिता ग्रहैकत्ववत्। किं तु अण्ग्रहणं कुर्वतः सूत्रकृतो नायं पक्षोऽभिप्रेतः। एका अवर्णव्यक्तिरित पक्षस्तु दूषित एवष। अष्टादश अवर्णव्यक्तयः इति पक्षे तु ``अइउण् ( माoसूo1) इति यदि जातिपरो निर्द्देशस्तर्हि पुनरण्ग्रहणवैयर्थ्यम्। व्यक्तिनिर्द्देशे तूक्त रीत्या ``अस्य च्वौ (पाoसूo 7-4-32) इत्यादौ सवर्णग्रहणानुपपत्तिरिति महत्सङ्कटम्। तस्मादिह सूत्रकारस्याशयो दुर्वच इति चेत् ? उच्यते, त्रिष्वपि पक्षेषु अस्त्येव सूत्रस्योपपत्तिः। तथा हि, स एवायमकार इतिप्रत्यभिज्ञाबलादकारएक एवेति पक्षे धर्मव्यवस्थायास्त्वयैवोपपादनाद्यथा के अण्कार्यं न भवति, यथा चाप्रत्ययादिविधिस्थले न दीर्घादिप्रवृत्तिः, तथा ``अस्य च्वौ (पाoसूo 7-4-32) इतिविधिरपि `मालीभाति' इत्यादौ न प्रवर्त्तेतेति ग्रहणकशास्त्रं क्रियते। तच्च सावर्ण्याधीनमिति हस्वस्य विवृतत्वं प्रतिज्ञायते। तत्तु आक्षरसमाम्नायिकस्यैव चेत्पुनरपि न व्यवतिष्ठेतेति सार्वत्रिकीप्रतिज्ञा। एवमपि ``अस्य च्वौ (पाoसूo 7-4-32) अत्यादौ अनण्त्वादेव ग्राहकत्वं न स्यादिति चेत्? विवृतहस्वत्वादेरविशेषण तस्याप्यण्त्वात्। नही मुण्कडत्वजटि लत्वादिवद्देशबेदेनानुपात्ताः स्वरूपमात्रानुवादेन विहिता अपि श्यामो दीर्घश्चतुर्बाहुरित्यादयो व्यवतिष्ठन्ते। उदात्तानुदात्तस्वरितानुनासिकं त्वगुणास्तु शब्देनानुपात्ता न भेदका इति वृद्धिसूत्रे वक्ष्यते। अनुन्ता एव व्यक्तय इति पक्षे अष्टादश अवर्णव्यक्तय इति पक्षे च यद्यपि ह्रस्वदीर्घप्लुतसाधारणी एका जातिः कण्ठादिजन्यतावच्छेदिका तज्जन्यध्वनिव्यङ्ग्यातावच्छेदिक। वाऽस्त्येव, तथापि तद्व्याप्यहस्वमात्रवृत्तिरपि जीतिरस्ति। तथा च अइउण्सूत्रे व्याप्यजातिपरो निर्द्देशः। तेन तज्जा तीये एकत्र कृतं विवृतत्वं सर्वेष्वपि सिद्यति। अत एव सर्वेऽपि न कश्चिदोषः। `अवात्ताम्' इत्यादिष्वपि ह्येषैव गतिः। अन्यथा अवातसूतामिति स्थिते सिचः पूर्वपरयोस्तकारयोर्मध्ये अन्यतरस्यैव झलोझलि (पाo सूo 8-2-23) इति न प्रवर्त्तेत। सूत्रस्यावकाशस्तु `अभित्थाः' इत्यादिः स्यात्। एवञ्च दीर्घणामनण्त्वेन सवर्णग्राहकत्वं नास्तीत्यपि सिद्धान्तः संगच्छते। अथ व्यापकजातिपरमेव निर्द्देशं स्वीकृत्य अण्ग्रहणं त्यज्यतामिति चेत् ? एवमपि ``उपसर्गादृति (पाo सूo 6-1-71) इत्यादौ लृवर्णग्रहणाय ग्रहणकशास्त्रस्यावश्यकात्वात्। न च ``ऋलृवर्णयोः (काo वाo) इति सावर्ण्यविधानसामर्थ्यात्तद्ग्रहः ``अकः सवर्णे (पाo सूo 6-1-101) इत्यादौ चारितार्थ्यात्। किञअच, ``अस्य च्चौ (पाo सूo 7-4-32) इत्यादौ व्यापकजातिनिर्द्देशः ``त्यदादीनामः (पाo सूo 7-2-102) इत्यादौ तु व्याप्यजातिनिर्द्देश इत्यस्य नियमकाभावे सङ्करोऽपि स्यात्। न चानुवाद्यविशेषणं विधेयविशेषणं च ग्रहैकत्वपश्वेकत्ववद्विवक्षितमविवक्षितं चेति मीमांसकमर्यादा वैयाररणैः स्वीकर्त्तु शक्या ``उपेयिवानानाश्वाननूचानश्च (पाo सूo 3-2-1-9) इत्यत्र उपेत्यविवक्षितं नञ्प्रभृति तु विवक्षितमिति स्वीकारात्। ``आर्द्धधातुकस्येङ् बलादेः (पाo सूo 7-2-34) इत्यादावनुवाद्यविशेषप्रतिपतद्तिः (पाoभाo1) इति परिभाषैव सिद्धान्ते शरणम्,। व्याख्यानं तु लक्ष्यानुरोधीति यद्यप्यगन्ताय तत्र तत्राश्रीहते। ग्रहणकशास्त्रबलेन हि अप्रत्ययोऽविधीयमानः सवर्णग्रहाक इति स्पुटतरं प्रतीयते। उल्लङ्धिता चेयं मीमांसकमर्यादा धर्मशास्त्रेऽपि बहुशः श्रेयांसं न प्रबोधयेदित्यादिषु । ``एकः पूर्वपरयो (पाo सूo3-2-84) श्त्रे एकगद्रहणमपीह ज्ञापकम्। अन्यथा ``आद्ग्रमः (पाo सूo6-1-87) इत्येकत्वस्य पश्वेकत्ववद्विवक्षासंभावत्किं तेनेति दिक्।
   अथवार्थवत्त्वस्याविवक्षायामपि इहोच्चारितोऽकारादिः स्वसदृशीः षड् व्यक्तीः सादृश्याख्यसम्बन्धेनोपस्थापयति। नचैवमपि वृत्त्याऽनुपस्थितानां शाब्दबोधेऽन्वयप्रतियोगितानुपपत्तिः, अर्थाध्याहारवादे बाधकाभावात्। अतिप्रसङ्गभङ्गस्तु तात्पर्यग्राहकबलेनैव। अन्यथा तवापि लक्षणाध्याहारादेरतिप्रसङ्गस्य तदवस्थत्वात्। ``स्पृहेरीप्सितः (पाoसूo 1-4-46) इत्यनुशासनबलात् `पुष्पेभ्यः' ``क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पाoसूo2-4-14) इत्याद्यनुशासनादर्थाधयाहारस्यापि स्थलविशेषे क्लृप्तत्वात्। अन्यथा `गवित्ययमाह' इत्यादावगतेश्चेति वक्ष्यते।
   ऋलृक् (माoसूo 2)। ननु विधिवाक्येषु ऋकारो ग्रहणकशास्त्रबलेन ऋकारादीनश्टादश यथा गृण्हाति तथा लृवर्णानपि द्वादश ग्रहीष्यति तत्किं पृथग्लृकारोपदेशेन ? न च भिन्नस्थानतया सावर्ण्यवि रहादग्रहणमिति वाच्यम्, ``ऋकारलृकारयोः सवर्णविधिः (काoवा) इति वार्त्तिकबलेन वाचनिकस्य सावर्ण्यस्यावश्यं वाच्यत्वात्। अन्यथा कइहोपदिष्टेऽपि लृकारे `प्राल्कारीयति' इत्यादौ ``उपसर्गादृति धातौ (पाoसूo 6-1-91) ``वासुप्यापिशलेः (पाoसूo 6-1-92) इत्यस्याप्रवृत्तिप्रसङ्गात्। ननु क्लृपिस्थास्य लृकारस्येदमनुकरणम्। तस्य च स्वरकार्येष्वसिद्धत्वादृकार एवायमिति ``उपसर्गादृति (पाoसूo 6-1-91) इत्यादि सेत्स्यतीति चेत् ? न, ``कृपो रो लः (पाoसूo8-2-18) इति विहितस्यासिद्धत्वेऽपि तदनुकरणस्यास्यासिद्धत्वविरहात्।
   स्यादेतत्, ``प्रकृतिवदनुकरणम् (पoभाo36) इत्यतिदेशादयमप्यसिद्ध एव। स चातिदेशोऽवश्वश्रयणीयः। ``द्विः पचन्त्वित्याह इति तैत्तिरीयवाक्ये यद्यपि पचन्त्वित्याद्युदात्तं पठ्यते, तथापि भाष्योदाहृते शाखान्तरीये पचन्तुशब्दस्य ``तिङ्ङतिङः (पाoसूऽ8-1-28) इति निघातो यथा स्यात्। नह्येतत्तिङन्तं, तिङ्न्तपदार्थकत्वात्। स्वाद्युत्पत्तिस्त्विह विवक्षाभेदेन वैकल्पिकीत्यर्थवत्सूत्रे वक्ष्यते। `अग्नी इत्याह' इत्यादौ प्रगृह्यत्वमप्यतिदेशादेव। अतिदेशे ज्ञापकं तु ``यत्तदेतेभ्यः परिमाणे (पाoसूo 5-2-39) इति सौत्रनिर्द्देशः। नह्यत्रातिदेशं विना त्यदाद्यत्वं लभ्यते ``अभिव्यक्तपदार्था ये इति न्याये लोकप्रसिद्धार्थपरतायामेव तत्प्रवृत्तेः। ``यत्तदोर्नित्यसम्बन्धः इति। नन्वनेनैवातिदेशेन अत्वस्यावश्यकत्वादुदादृतप्रयोगोऽनुपपन्न एवेति चेत् ? न, उदाहृतज्ञापकसूत्र एव ``त्यदादीनि सर्वैः (पाoसूo 1-2-72) इत्येकशेषस्याकरणेन ``एतत्तदोः सुलोपः (पाoसूo 6-1-132) इत्यादिनिर्द्देशैश्चातिदेशस्यानित्यताज्ञापनात्।
   अथवा ``प्रावृट्शरत्कालदिवां ज (पाoसूo 6-3-15) इति सूत्रे ``अ पो योनियन्मतुषु च ( काo वाo) इतिक वार्तिकेनेयं परिभाषा अस्या अनित्यता चेत्युभयमपि ज्ञाप्यते। थाहि का(1)रीर्याम् ``अप्सुमन्तावाज्यभागौ इति श्रुतम्। ``अप्सु मे सोमः ``अप्स्वग्ने सधिष्टव इति हि तयत्र मन्त्रौ तत्राप्सुशब्दादनुकरणभूतान्‌मतुपि `अस्यवामियम्' इत्यादाविवानुकरणस्य विभक्तित्वाभावादेव लुकोऽप्रसङ्गादलुग्विधानमुक्तपरिभाषां ज्ञापयति। मतुबुत्पत्तेश्च प्रथमान्ततां विना दुर्लभत्वात्प्रातिपदिकताप्यावश्यकी। सा च प्रत्ययान्तत्वे सति दुर्लभेति प्रातिपदिकसंज्ञायामतिदेशप्रवृत्तिविरहाभ्यनुज्ञानादनित्यताऽपि सिद्धा। एतेन `युष्मदस्मतुप्रत्ययगोचरयोः' इत्यादिप्रयोगा व्याश्याताः ।
   प्रकृतमनुसरामः, लृकारानुकरणस्याप्यतिदेशेनासिद्धत्वात् `प्राल्कारीयति इत्यादौ ``उपसर्गादृति (पाoसूo 6-7-91) इत्यस्य प्रवृत्तिसिद्धौ किं सावर्ण्येनेति चेत् ? न, तथा सति रेफपरत्वप्राप्तावपि लकारपरत्वासिद्ध्या प्रकृतेऽनित्यत्वेनातिदेशाप्रवृत्तेरेव त्वयाऽपि लकारपरत्वासिद्ध्या प्रकृतेऽनित्यत्वेनातिदेशाप्रवृत्तेरेव त्वयाऽपि वाच्यत्वात्। ननु रेफपरत्वे सिद्धेऽतिदेशाद्रेफस्यलकारो भविष्यतीति चेत् ? न, एवमपि गम्लृसृप्लृइत्यादिस्थस्य लृकारस्यानुकरणे त्वदुक्ताति देशोदेरुक्तिसम्भवाभावात्। तस्मात्सवर्णत्वस्यावश्यके लृकारोपदेशो व्यर्थ एवेति चेत् ?
   अत्रोच्यते, न तावद्वार्त्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्तिः। आरब्धेऽपि वार्त्तिके ऋकारलृकारयोः सावर्ण्यस्यानित्यतां ज्ञापयितुं कर्त्तव्य एव लृकारोपदेशः। तेन `क्लृ3प्तशिखा' इत्यत्र ``गुरोरनुतः (पाoसूo8-2-83) इति प्लुतः सिद्ति। अन्यथा `अनृतः' इति निषेधः स्यात् ऋकारेण लृकारग्रहणात्। `क्लृप्यमानः, चलीक्लृप्यमानः' इत्यादौ ``ऋवर्णान्नस्य (काoवाo) इत्यौपसंख्यानिकणत्वस्याप्रवृत्तिस्तु क्षुभ्नादित्वेनापि सुवचा। अन्यथा प्रक्लृप्यमानादौ ``कृत्यचः (पाoसूo 8-4-29) इति ण्तवस्य दुर्वारत्वात्।


   इदं त्ववधेयम्, वार्तिकमते सवर्णेऽण्ग्रहणमपरिभाष्यमिति सिद्धान्तादृकारे लृकारसाधारणजातिविरहेणाकृतिग्रहणासम्भवाच्च `प्राल्कारीयति' इत्यत्र कार्यानिर्वाहस्तदवस्थः। सावर्ण्यविधिस्तु सवर्णदीर्घे `होतृ लृकारः, इत्यत्र ``इकोऽसवर्णे (पाoसूo6-1-127) इत्यस्य प्रवृत्तिप्रतिबन्धेन चरितार्थः। न च ``ऋत्यकः (पाoसूo 6-1-128) इत्यस्य प्राप्तिः, सावर्ण्यानित्यत्वमपि कथं ज्ञापयेदिति। तस्मादण्ग्रहणं प्रत्याचक्षाणस्य तत्स्थाने ऋग्रहणं कर्त्तव्यम्, अप्रत्ययग्रहणं च न कार्यमित्याशयः कल्प्यः। यद्यप्येवं पल्लृपभृतीनां लृदितां ``नाग्लोपि (पाoसूo 7-4-1) इत्यृदित्कार्यं प्राप्नोति, पृथगनुबन्धकरणं तु लृदित्त्वप्रयुक्तस्य अङादेशस्य ऋदित्स्वप्रवृत्या चरितार्थत्वादसङ्करं ज्ञापयितुमसमर्थं, त थापि सावर्ण्यानित्यतयैवेदमपि समाधेयम्। यद्वा, स्वरसन्धिप्रकरणे लृवर्णस्य ऋवद्भाव एव वाच्यः, सावर्ण्यं च नोपसंख्येयं प्लुतस्तु प्रकरणान्तरस्थ इति न तत्रातिदेशप्रहवृत्तिः। ``उरण् रपरः (पाoसुo 1-1-51) इति परि(1) भाषा तु कार्यकालतया स्वरसन्धिप्रकरणस्थेति उरित्यनेन लृवर्णग्रहणोपपत्तिः। अस्मिन्नपि पक्षे लृकारोपदेश इह कर्त्तव्य एव `प्रक्लृप्त इति च स्वरितः' इत्यत्र प्लुतो यथा स्यात्, क्लृप्त इति च द्वित्वम्, प्रक्लृप्त इति च स्वरितः। अत्र ह्यन्तर्भावितण्यर्थात् कर्मणिक्तः। तेन ``गतिरनन्तरः[पाoसूo 6-2-49] इति पूर्वपदप्रकृतिस्वरः, कर्मणि यः क्तस्तदन्ते उत्तरपदे तद्विधानात्। ततः शेषनिघाते कृते ``उदात्तादनुदात्तस्य स्वरितः [पाoसूo 8-4-66]। न चात्र ``कृपो रो लः [पाoसूo 8-2-18] इत्यस्यासिद्धत्वाशङ्कापि, पूर्वत्वात्। परं हि पूर्वं प्रत्यसिद्धं न तु परं प्रति पूर्वम्। एवञ्च गम्लृप्रभृतीनां लृकारस्येत्संज्ञाप्यनायासेन सिध्यति। अन्यथा तु ``पुषादिद्युताद्य्लृदित [पाoसूo 3-1-55] इति लृकारे परतः कृतेन यणादेशेन इत्संज्ञानुवादेन च ज्ञापकेन कथं चित्साधनीया स्यात्। एवम्। ``इदितो नुम्[पाoसूo 8-1-58] इत्याद्यनुवादानाम् ``ऋत्यकः [पाoसूo 6-1-128] इत्यादिनिर्देशानां च साम्यादिकारादयोऽपि न निर्द्दिश्येरन्। यथाश्रुतसूत्ररीत्या तु ब्रूमः। ऋकारमुच्चारयितुं प्रवृत्ता कुमारी करणापाटवाद्यदा लृकारमुच्चारयति तदनुकारणस्याप्यच्कार्यासिद्धिः फलम्, अनुकरणानामनुकार्येणार्थ वतां सर्वत्र साधुताभ्यु*गमात्। नन्वेव् लृवर्णस्य दीर्घा न सन्तीति व्याहन्येत। अनुकरणस्य तत्रापि सुलभत्वादिति चेत्, न्यायप्राप्तस्यापि वचनेन बाधात्। इदञ्च ``न्याय्यभावात्कल्पन संज्ञादिषु इति वार्तिकाल्लभ्यते। तथाहि, ``लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः इतिपूर्ववार्त्तिकेन लृकारोपदेशस्य प्रयोजनत्रयमुक्तम्। `दध्य्लृतकाय देहि' इति यदृच्छाशब्दः, `कुमारी लृजु इत्याह' इत्यशक्तिजानुकरणम्, प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः, एतदर्थं लृकारोपदेश इति हि तस्यार्थः. तत्र प्रथमप्रयोजननिराकरणायेदं वार्त्तिकम्--``न्याय्यभावात् इति। अस्यार्थः--ऋतिस्तावद् ``ऋतेरीयङ् (पाo सूo 3-1-29) इतिनिर्द्दिष्टः सौत्रो धातुः, तस्मादौणादिकः क्वुन्। तत्र ह्येवं सूत्रितम्--``क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (उoसूo 2-200) इति। शिल्पिन्यभिधेये संज्ञायां च सोपपदान्निरुपपदाच्च धातोः क्वुन् स्यादित्यर्थः. रजकः, तक्षकः, इत्यादि शिल्पिनि; चरकः, भषकः, कटकं, कनकम्, इत्यादि संज्ञायामुदाहरणम्। तथा च ऋतकशब्दःशास्त्रानुगतत्वान्न्याय्यः. तत्सध्बावात्स एव संज्ञा। तथाच ``कृतं कुर्यान्न तद्धितम् इत्यादि गृह्यस्मृतिरप्यनुकूलिता भवतीति। एवं वदता शास्त्राननुगतं देशभाषया यत् `कूची' इत्यादि नाम क्रियते तदसाध्विति स्फुटीकृतम्। आदिशबदादनुकरणेऽपि शिष्टानुरोधं दर्शयता `लृवर्णस्य दीर्घा न सन्ति' इति सास्त्रमर्यादामुल्लङ्ध्य क्रियमाणस्य दीर्घानुकरणस्याप्यसाधुता दर्शिता। तस्माट्टिघुभादिभ्यः कूचीमञ्च्यादीनामिव गावीगोण्याद्यनुकरणेभ्यो दीर्घलृवर्णानुकरणस्यापि न्यायतो न किञ्चिद्वैलक्षण्यं, किन्तु वाचनिकमिति स्थितम्। मन्त्रशास्त्रे तु मातृकान्यासादौ दीर्घ लृवर्णो यद्यपि स्वीकृतस्तथापि प्रातिशाख्यन्यायेन अन्यत्रासौ नोपयुज्यत एवेत्यवधेयम्। एवं वचन्त्यादीनामपि शिष्टैरनङ्गीकृतानां न्यायसाम्यादसाधुतोक्ता। तथा चाहुः--- ``नहि वचिरन्तिपरः प्रयुज्यते इति। एवञ्च ``न्याय्यबावात् इति वार्तिकेन पूर्ववार्तिकोक्तप्रयोजनत्रमध्ये प्रथमप्रयोजनं निराकृतम्। लृतकश्चासाधुरेव। इदं च `त्रयीशब्दानां प्रवृत्तिर्न सन्ति यदृच्छा शब्दाः' इति पक्षेणोक्तम्। पक्षान्तरैरपि हि परिहारा भवन्तीति भाष्यकारः। एतद्ग्रन्थपर्यालोचनया तु चतुष्टयीति पक्षे लृतकादयोऽपि टिघुबादिवत्साध्वसाधुबहिर्भूताः साधव एव न तु टिधुभादिविलक्षणा इति लभ्यते। अन्यथा हि पक्षान्तरैरिति न ब्रूयादिति। न च गृह्यस्मृतकिविरोधः, तावताऽपि कृतं कुर्यान्न तद्धितमिति गृह्यमुल्लङ्घ्य कृतस्याप्यौपगवादेरिव शब्दसाधुताभ्युपगमे बाधकाभावात्। पुरुषस्तु साधूनपि प्रयुञ्कजानो देवब्राह्मणादिनिन्दकवद्धर्मशास्त्रोल्लङ्घनात्प्रत्यवैतीत्यन्यदेतत्।
   यत्तु द्वितीयप्रयोजननिराकरणार्थं वार्त्तिकम्--``अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु इति, तस्यायमर्थः--शिष्टस्य साधोरनुकरणं साध्यवेव। अशिष्टं च तदप्रतिषिद्धं च साध्वसाधुबहिर्भूतं टिघुभादि तस्यानुकरणमपि तादृगेव, अर्थादसाधोरनुकरणमप्यसाध्वेवेति। इदं तु भाष्ये दूषितमेव, हेलयो हेलय इत्यादीनां शिष्टपरिगृहीतानामसाधुतायां बीजाभावात्। नह्यपशब्दावाचकत्वमात्रेण तथात्वम्, अपशब्द इत्यस्याप्यसाधुतापत्तेः। न च ``प्रकृतितदनुकरणम् (पाoसूo 36) इत्यनेन साधुताऽतिदेशः, अशास्त्रीयस्यातिदेशायोगादिति दिक्। तस्माद्वार्तिकृता दूषितमपि द्वितीयप्रयोजनं भाष्यरीत्या स्थितम्।
   यदपि तृतीयप्रयोजननिराकरणपरं वार्त्तिकम्--``एकदेशविकृतस्यानन्यत्वात् प्लुप्यादयः इति। तस्यायमर्थः--``नुड्विधिलादेशविनामेषु प्रतिविधानम् इतिवक्ष्यमाणत्वादृकारैकदेशस्य रेफस्य लत्वे कृते एकदेशविकृतन्यायेनाच्कार्यसिद्धिरिति। न चैवमनृत इति प्रतिषेधापत्तिः, अरवत इति न्यासात्। नह्येकदेशविकृतन्यायेन रेफवत्ताप्यायाति। लोकेपि हि छिन्नपुच्छस्य पुच्छवत्त्वप्रयुक्तकार्यं नायात्येव। न चैवं होतॄकारादेर्द्दीर्घस्याप्यरवत इति प्लुतप्रतिषेदापत्तिः, र्हस्वस्य रवतो नेति न्यासात्। किन्त्वेवं सति एकस्य लृकारस्य प्रत्याख्यानाय सूत्रभङ्गाश्रयणे विपरीतमेव गौरवमिति। तदेतदाह भाष्यकारः---``सेयं महतो वंशस्तम्बाल्लट्वाऽनुकृष्यते इति। लट्वा पक्षिविशेषः फलविशेषो वा। ``(1) लट लौल्ये (भ्वाoपo) इति धातोः ``अशूप्रुषिलटिकणिखटिविशिभ्यःक्वन् (उoसूo1-157) इत्यौयणादिकः क्वन्। ``नेड् वशि कृति (पाo सूo 7-1-8) इतीडभावः।
लट्वा करञअजभेदे स्यात्फलेऽवद्ये खगान्तरे।
इति विश्वः।

   ननु ``कृपो रो लः(पाoसूo 8-2-18) इति सूत्रम् ``अ अ (पाo सूo 8-4-68) इत्यस्मात्पूर्वमस्तु। एवञ्च लत्वलस्यासिद्धत्वादेव प्लुत्यादयः सेत्स्यन्तति चेत् ? न, एवं हि सति ``ग्रो यङि (पाo सूo 802-20) इत्यस्याप्युत्कर्षः स्यात्ततश्च लत्वस्यासिद्धतया `निजेगिल्यते' इत्यत्र ``हलि च (पाo सूo8-2-77) इति दीर्घः स्यात्। ननु बह्वृचप्रातिशाख्ये ``ऋकारलृकारावथषष्ठोष्मा जिह्वामूलीयाः (ऋo प्राo 1-8) इति ऋलृवर्णयोः स्यानसाम्योक्तेस्तद्रीत्या ग्रहणकशास्त्रेणैव निर्वाहाद् लृकारोपदशो मस्त्विति चेत् ? न, उक्तरीत्या ऋलृवर्णयोः सावर्ण्योपसंख्यानं परं प्रत्याख्यायताम्, लृकारोपदेशस्तूक्तरीत्या क्लृप्तशिखे प्लुतसिद्धये सावर्ण्यानित्यतां ज्ञापयितुं कर्त्तव्यं एवेति दिक्।
   एओङ्। एऔच् (माoसूo3,4)। यद्यपि छन्दोगानां मद्ये सात्यमुग्रिराणायनीया अर्द्धमेकारम् अर्द्धमोकारं चाधीयते `सुजाते एअश्वसूनृते' `अध्वर्यो ओ अद्रिभिः सुतम्' इति अन्तः पादस्थास्याव्यपरस्य तदीयप्रातिशाख्येऽर्द्धमेकारमोकारं च विदधति, तथापि प्रातिशाख्यसमाख्याबलादेव सर्वशाखासाधारणेऽस्मिन् शास्त्रे तस्य न ग्रहणम्; ज्ञापकाच्च। यदि हि अकारादिभिरष्टादशानामिव एङ्भिरपि एकमात्राणां ग्रहणं संमतं स्यात्तर्हि लाघवार्थमेकमात्रावेव एङावुपदिशेतु, अकारादिवत्। न चैवम् ``अदेङ् गुणः (पाo सूo 1-1-2) इत्यत्र तपरत्वातन्मात्रिकयोरेव गुणसंज्ञा स्यादिति वाच्यम्, तत्र एओइति स्वरूपेणैव दीर्घयोर्निर्द्देशेऽनण्त्वेन सवर्णाग्रहणोपपत्तेः, एवमप्यर्द्धमात्रालाघवात्। तव हि वर्णोपदेशे एओ इति दीर्घयोर्मात्राचतुष्टयम्, गुणसंज्ञायां तु वर्णोपदेशे मात्राद्वयम्, गुणसंज्ञायां तु चतस्र इति मिलिताः षडेव मात्राः। तस्माद् द्विमात्रनिर्द्देशसामर्थ्यादप्येकमात्रयोरनभिमतत्वं निर्णीयते। नन्वेवम् ``एच इग्घ्रस्वादेशे (पाoसूo 1-1-48) इति व्यर्थं स्यात् तद्धि स्थानेन्तरतमपरिभाषया प्राप्नुवतोरर्द्दैकारार्द्धौकारयोर्निवृत्त्यर्थं क्रियते इति चेत् ? न, वैकल्पिकप्रापित्मतोऽकारस्य व्यावृत्तये तदारम्भात्। एचां हि पूर्वो बागोऽकारसदृशः, उत्तरस्तुइवर्णोवर्णसदृशः, तत्र उभयान्तरतमस्य र्हस्वस्याभावात्पर्यायेणाकारः स्यात्, इकारोकारौ च स्याताम्। तस्मान्मा कदाप्यवर्णं भूदिति सूत्रारम्भः। वस्तुतस्तु प्रत्याख्यास्यते सूत्रम्। तथाच तत्र वार्तिककारो वक्ष्यति--``सिद्धमेङः सस्थानत्वात् ``ऐचोस्चोत्तरबूयस्त्वात् इति। अस्यार्थः--शब्दपरविप्रतिषेधेन एङ उत्तरबागान्तरतमौ इउवर्णावेवेति सिद्धम्। यद्वा, एकारः शुद्धतालव्यः, औकारस्तु शुद्धौष्ठ्य इति मते सिद्धमित्यर्थः। तथाच बह्वृचानां प्रातिशाख्यम्--``तालव्यावेकारचवर्गाविकारैकारौ यकारः शकारः (ऋoप्राo1-9) इति। ``शेषयओष्ठ्योपपाद्यः (ऋoप्राo1-9) इति च। पूर्वोक्तेब्यः शेषो वर्णराशिरोष्टाब्यामुपपायितव्यः। उवर्णः पवर्गः ओ औ उपध्मानीयश्च ओष्ठ्य इति सूत्रार्थः। इदं च प्रातिशाख्यवृत्तिकृता व्याख्यातम्। तद्भाष्ये तु ``सेषओष्ट्योपवाद्य इति पाठः। तत्र अपवाद्येत्यस्य उत्तरसूत्रे वक्षयमाणार्थं चेदं सूत्रम्। तदेवं ``शब्दप्रविप्रतिषेदान्मतभेदेन स्थानसाम्याद्वा सिद्धम् इति समाधानद्वयं एङ्क्षु फलितम्। एतच्च चद्यप्यैक्ष्वपि तुल्यं तथापि तत्र समाधानान्तरमप्यस्तीत्याह--``ऐचोश्च इति। चकारो भिन्नक्रमो हेतोरनन्तरं बोध्यः। अर्द्धमात्राऽवर्णस्य, अद्यर्द्धमात्रा इवर्णोवर्णयोरितिपक्षे मल्लग्रामादिवद्भूयसा व्यपदेशादपि इकारोकारौ भविष्यत इत्यर्थः। समप्रविभागपक्षोऽप्यस्तीत्यष्टमे वक्ष्यते। तत्र तु पूर्वोक्तसमाधानद्वयमेव शरणम्। तत्रापि शब्दपरविप्रतिषेधपरं प्रथमव्याख्यानं यद्यपि विवरणे स्थितम्, ततापि तदभ्युपगमे ``अप्रतिपत्तिर्वोभयोः इत्यादि ``विप्रषेधे परम् (पाoसूo1-4-2) इतिसूत्रे वार्त्तिकम् भाष्यं च विरुद्येत। नहि ``गोस्त्रियोः (पाoसूo1-2-48) इतिसूत्रेण गोशब्दे विधीयमानो र्हस्वोऽन्यत्र चरितार्थः, येनाप्रतिपत्तिः स्यात्।
   ननु प्रतिलक्ष्यं लक्षणभेदेन विकल्पे प्राप्ते परमेवेति नियमोऽस्त्विति चेत्? न, एवं हि सति ``अचः परस्मिन् (पाoसूo 1-1-57) इतिसूत्रे---
नित्यः परयणादेशः पश्चासौ व्यवस्थाया।
युगपत्सम्भवो नास्ति बहिरङ्गेण सिध्यति।।
   इत्यादिभाष्यसन्दर्भौ विरुध्यते। तद्बलेन हि लक्षणवाक्ययोः पूर्वपरीभाव एव विप्रतिषेधसूत्रस्य विषयो ऽन्यस्तु ``अन्तरङ्गम्बलवत् (पoभाo) इत्यस्येति लभ्यते। इदं च तत्रैव स्फुटीकरिष्यामः।
   द्वितीयव्याख्यानमपि अर्द्धैकारादिवत्प्रातिसाख्योक्तस्य प्रायेणानादराद्दुर्बलम्। अथ छन्दोगाभिमतस्यापि चतुर्मात्रस्य तपरकरणव्यावर्त्तयतोक्तेस्तद्वदिहाप्यभ्युपगमस्तर्हि ऋलृक्सूत्रोक्तरीत्या ``ऋकारलृकारयोः सवर्णविदिः इतिवार्त्तिकमपि प्रत्याक्यातुं शक्यम्। अथ शिक्षान्तरानुसारेण वार्त्तिकारम्भस्तर्हि ``एचइग् (पाoसूo1-1-48) इतीसूत्रारम्भोपि तथैवास्त्विति दिक्।
   तस्माद् ``एच इतिसूत्रबलेनार्द्धैकारार्द्धौकारौ न लभ्येत इति स्थितम्। ननु प्रातिशाख्योक्तावपि ताविह गृह्येते चेत्तदा किमनिष्टमापद्येत? येन तयोरग्रहमं यत्नतः प्रतिपादयसीति चेत्? न, एचो ह्रस्वविधौ अन्तरतमत्वेन तयोरेव प्रसङ्गात्। ``एच इक् (पाoसूo 1-1-48) इति सूत्रं तु प्रत्याख्यातमेव। एतदर्थमेव सूत्राभ्युपगमे तु गौरवमेव दोषः।
   स्यादेतत्, एत् ओत् ङ् इत्यादिक्रमेण तपरानेन निर्देक्ष्यामः। तथाच ऊकालसूत्रे अच्शब्देन तपराणामेवोपस्थितौ सत्यां तत्कालग्रहमादर्ध एकार ओकारो वा इस्वसंज्ञां न लभेत। तेन ह्रस्वविधिविधेयोऽप्यसौ नेति। मैवम्, त्रिमात्राणामप्यनच्त्वापत्तेः। ततश्च `गो 3 त्रातः' इत्यत्र ``अनचि च (पाoसूo 8-4-48) इत्यचः परस्य विधायमानं द्वित्वं तकारस्य न स्यात्। `प्रत्यङ्ङौतिकायनः' `उदङ्ङौपगवः' इति ङमुट् न स्यात्। प्लुतसंज्ञाविरहात् प्लुतविधिर्न प्रवर्त्तेत। न च ``ओमभ्यादाने (पाoसूo 8-2-87) इत्यादिविधिसामर्थ्यात्तत्सिद्धिः। उवर्णविधानेन चरितार्थत्वापत्तेरिति दिक्। तदेतदाहवार्त्तिककारः--``सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम्, प्लुत्यादिष्वज्विधिः. प्लुतसंज्ञा च। अतपर एच इग्घ्रस्वादेशे एकादेशे दीर्घग्रहणम् इति। अस्यार्थः-श्लिष्यमाणवर्णद्वयसदृशावयतत्वात्संधियमानमक्षरं सन्ध्यक्षरमित्यन्वर्था पूर्वाचार्यसिद्धा एचां संज्ञा। तपर उपदिश्यतेऽनेनेति करणव्युत्पत्त्या प्रयोजनमुच्यते। तथाच एचां तपरत्वोच्चारणे फलमस्ति चेत्तर्हि तपरोच्चारणं तावत्कर्त्तव्यम्। प्लुतत्वे सत्यप्यज्विधिर्द्वित्वलङ्मुडादिर्न सिद्ध्यति। तत्र प्लुतस्यैव ङमुडादिः तस्मात्परस्य द्वित्वमिति सचयितुमादिशब्दः। प्लते तदुत्तरवर्णेषु चेष्टं कार्यं सिध्यतीत्यर्थः। अभ्युपेत्यवादोऽयम्।
   वस्तुतस्तु अनच्त्वात्प्लुतसंज्ञैव न सिद्यति। तस्माद्दुष्टस्तपरनिर्हेश इति वार्त्तिकत्रयेणोक्तम्। यथान्यासपाठे त्वाहृ-अतपर इति। सूत्रं कर्त्तव्यं स्यादर्द्धैकारादिनिवृत्तये इत्यर्थः। वस्तुतस्तु उभाभ्यामपि वा न कर्त्तव्यमिति समनन्तरमेवोपपादितम्। तस्मान्नायं दोष उद्भावनार्हः पक्षद्वयसाधारण्यात्।
   स्यादेतत्, तपरत्वाभावपक्षे `गङ्गोदकं' `रमेशः' इत्यादौ त्रिमात्रचतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्रा एवादेशाः स्युः, आन्तरतम्यात्। नच ``अकः सवर्णे (पाoसूo 6-1-101) इति सूत्रे दीर्श इति योगं विभज्य ``एकः पूर्वपरयोः (पाoसूo 6-1-84) इत्याधिकारे यो विहितः स दीर्घो भवतीति व्याख्यानान्न त्रिमात्राद्यादेश इति वाच्यम्, `पशुं' `विद्धं' `पचन्ति' इत्यत्र दोषप्रसङ्गात्।
   ननु ``अमि इत्येव सूत्रमस्तु। ``प्रथमयोः (पाo सूo 6-1-102) इतिसूत्रात्पूर्वसवर्णोनुवर्त्तते ``एकः पूर्वपरयोः ( पाo सूo 6-1-84) इति च। एवं सिद्धे पूर्वग्रहणं यथाजातीयकः पूर्वः स एव यथा स्यात् दीर्घो मा भूदिति। तेन पशुमिति तावत्सिद्धम्। ``सम्प्रसारणाच्च (पाo सूo 6-7-108) इत्यत्रापि स एव पूर्वशब्दोऽनुवर्त्तते। ``हलः (पाoसूo 6-4-2) इति सूत्रारम्भसामर्थ्यर्द्वा ``संप्रसारणाच्च (पाoसूo6-1-1-108) इत्यनेन दीर्घा न विधीयते। तेन `विद्धम्' इत्यपि सिद्धम्। ``अतो गुणो (पाoसूo 6-1-97) इत्यत्रापि पर इत्येव सिद्धे रूपग्रहणसामर्थ्याद्यादृशः, परस्तादृश एवादेशो न तु तद्विलक्षणः। तेन `पचन्ति' इत्यपि सिद्धम्। तस्माद्योगविभागेन एकादेशो दीर्घो भवतीति पक्षो निर्द्दोष एवेति चेत् ? न, एवं सति `कृष्णर्द्धिः' `तवल्कारः' इत्याद्य सिद्धिप्रसह्गात्। इह हि दीर्घवचनादकारो न। अनान्तर्यादेदोतौ न। तस्माद्दीर्घ इति योगविभागो दुष्ट एव। तेन `गङ्गोदकं' `रमेशः' इत्यत्र त्रिमात्रचतुर्मात्रप्रसक्तिर्दुर्वारैवेति। न च प्लुतश्च विषये स्मृत इति वाच्यम्, प्लुताप्लुतप्रसङ्गे सत्येव तदिति वक्ष्यमाणत्वात्। ननु ततापि चतुर्मात्रः कथमापद्यते? तस्य लोकवेदयोरप्रसिद्धेरिति चेत्? न, छान्दोग्ये प्रसिद्धेरित्याहुः। वस्तुतस्तु लोकेऽप्यस्ति प्रसिद्धिः तथाच ``प्लुतावैच इदुतौ (पाoसूo 8-2-106) इति सूत्रे भाष्यकारो वक्ष्यति-``इष्यत एव चतुर्मात्रः प्लुतः इति। अत्रोच्यते--गुणसंज्ञायां वृद्धिसंज्ञायां च तपरनिर्द्देशान्नोक्तदोषः। तदेतदुक्तं वार्त्तिककृता--``एकादेशे दीर्घग्रहणम् इति। तस्यैव संज्ञित्वादिति भावः। न त्वेतद्वार्त्तिकं दीर्घग्रहणान्तरकर्त्तव्यतापरं नापि योगविबागपरम्, उक्तयुक्तेः।
   स्यादेतत्, संज्ञासूत्रे अदातोस्तपरकरणेऽपि एङैचोः कथं तत्कालग्राहकता। ``सहिवहोरोत् (पाoसूo6-3-112) इति सूत्रे वर्णग्रहणन तात्पर इति पञ्चमीसमासस्यापि ज्ञापितत्वादिति चेत्? एवमपि तात्पराभ्यामेङैच्छब्दाभ्यामस्तु दीर्घाणामेवोपस्थितिरुपस्थइतैस्तु दीर्घैः स्वसवर्णानामशेषाणां ग्रहणं दुर्वारमेव। नहि तेऽपि तात्पराः, अनुच्चारितत्वात्। ग्राहकत्वं परमनुच्चारितानामपि प्रत्याहारैरुपस्थितानामस्त्येव ``दीर्घाज्जासिच (पाoसूo 6-1-105) इति ज्ञापकात्। ``ल्वादिभ्यः (पाoसूo8-2-44) ``प्वादीनाम् (पाoसूo7-3-80) इत्यादिनिर्द्देशाच्च। तेन समूष्वित्यादिषु षषत्वादिकं सिध्यतीति वक्ष्यते। तात्परस्तत्कालस्येति तु उच्चारितेष्वे स्यादिति चेत् ? सत्यम्, ``ङमोह्रस्वाद् (पाoसूo8-3-32) इति सूत्रे ङमुडिति प्रत्याहारे कृतं टित्त्वं संज्ञायां व्यर्थं तत्सामर्थ्यात्संज्ञिषु ङादिषु उपकरोतीति यथा स्वीकृतं, तथेहापि तात्परत्वं संज्ञायामनुपयुज्यमानं तदुपस्थाप्येषु संज्ञिषु तत्कालावधारणं सामर्थ्यात्करोतीति न कश्चिद्दोषः। यद्वा, अणुदित्सूत्रेऽशब्दसंज्ञेत्यनुवर्त्तते ``ऊकालोज् (पाoसूo1-2-27) इत्यत्र भाष्ये स्फुटम्। उपपादयिष्यामस्चेदं तत्रैव। अतो गुणवृद्दिसंज्ञाविदावपि न सवर्णग्रहणम्। तपरकरणं तु स्पष्टार्थम्, ``ईदूदेद् (पाoसूo 1-1-11) इतिवत्। अन्यथा हि किमेवावेवेह निर्द्दिष्टौ किं वा आकारोपीत्यादिसन्देहः स्यात्। तत्र च ``मालादीनां (पाoसूo6-2-58) इत्यादिज्ञापकानुसरणक्लोशः स्यादिति दिक्।
   युक्ततरश्चायमेव पक्षः। आद्यपक्षे हि वृद्दिसंज्ञायाम् आ इति दीर्घस्यानण्त्वेन सवर्णाग्राहकतय तु तपरकरणस्योभयार्थताभ्युपगमात्पूर्वत्र चरितार्थस्य क्व सामर्थ्यं येनेदं संज्ञिनोरेदोतोरुपकुर्यादिति तत्र सवर्णग्रहणं स्यादेव। अस्मिन्नपि पक्षे ``एकादेशे दीर्घग्रहण् इति वार्त्तिकं दीर्घस्यैव संज्ञित्वादिति पूर्ववदेव व्याख्येयम्।
   स्यादेतत्, प्रथमपक्षे तादपि परस्य तत्कालग्राहकत्वाद् ``ऋदोरप् (पाoसूo 3-3-57) `यवः' `स्तवः' इत्यादावेव स्यान्न तु `लवः'`पवः' इत्यादावपीति चेत् ? अत्र भाष्यम्, नायं तकारः किं तर्हि असन्देहा र्थो मुखसुखार्तो वा दकारोऽयमिति। नन्वेतद्भाष्यं ``तितिप्रत्ययग्रहणम् (काoवाo) इत्येतद्वार्त्तिकप्रत्याख्यानपरेण ``तितिप्रत्ययग्रहणम् (काoवाo) इत्येतद्वार्त्तिकप्रत्याख्यानपरेण ``तित्स्वरितम् (पाoसूo6-1-185) इत्यत्रत्यभाष्येण सह विरुध्येत। तथाहि, तत्र तिति प्रत्ययग्रहणं कर्त्तव्यम्। इह मा भूत--``दिव उत् (पाoसूo 6-1-131) `द्युभिरक्तुभिः' इति पूर्वपक्षयित्वा दित्तवमाश्रित्य समाहितम्। ततो भाव्यमानस्याप्युकारस्य ``अदसोसेर्दाद् (पाoसूo8-2-80) इत्यत्रेव सवर्णग्राहकता स्यादित्याशङ्क्य तपरसूत्रे दकारस्यापि चर्त्वभूतस्य नर्द्देसाद्दपरोऽपि तत्कालग्राहक इति परिकहृतम्। एवञ्च ``उर्ऋत् (पाoसूo7-4-7) इत्यादावपि दपरत्वामेव। अन्यथा। स्वरितप्रसङ्गात्। अयमेव च दपरनिर्द्देशो भाव्यमानस्याप्युकारस्य सवर्णग्राहकतां ज्ञापयतीति स्थितम्। इहतु `ऋदोः' (पाoसूo 3-3-57) इति दकारनर्द्देशात `लवः `पवः इत्यादौ दीर्घैऽपीष्टं साद्यते।
   अत्र प्राञ्चः--थाकरस्तानिको धकारस्थानिको वा दकारोऽत्र भाष्यकृतो विवक्षितः, अतो न पूर्वोत्तरविरोध इति। ऋजवस्तु वार्त्तिकमते स्तित्वेदं भाष्यमतो न विरोध इत्याहुः। वस्तुतस्तु ``तपरस्तत्कालस्य (पाoसूo1-1-70) इत्यत्र दकारो न निर्द्दिश्यते प्रयोजनाभावात्। ``दिवउत् (पाoसूo6-1-131) ``ऋतउत् (पाoसूo 6-1-111) इत्यादौ तु तपरत्वादेवेष्टसिद्धिः। नन्वेवं ``तित्स्वरितम् (पाoसूo 6-1-185) इत्यस्य प्रसङ्ग इति चेत्? न, ``प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् (पoभाo 100) इति परिभाषया तत्समाधानात्। यत्तु ``तित्स्वरितम् (पाoसूo6-1-185) इति सूत्रे हरदत्तेनोक्तम्--``तस्यास्तु परिभाषाया भाष्यवार्त्तिकयोरिहादर्शनादयं यत्नो महानस्माभिरादृतः इति, तत्रेदं वक्तव्यम्-थकारस्थानिको धकारस्थानिको वा दकार इत्येवंरूपो यत्नस्तावदेओङ्सूत्रे स्थित्वा पूर्वाचार्यैरेवोक्त इत्यत्रत्यकैयटग्रन्थ एव स्फुटम्। नन्वत एवास्माभिरादृत इत ब्रूमो नतून्नीत इतीति चेत् ? सत्यमादृतः, तथापि परिभाषाया अदर्शनादित्यसिद्धो हेतुः ``अङ्गस्य(पाoसूo 6-4-1) इति सूत्रप्रत्याख्यानाय भाष्ये कण्ठरवेणैव एतत्परिभाषोपन्यासात्। `निरुतं' `दुरुतम्'इत्यादिसिद्धये सूत्रं कर्त्तव्यमिति स्थिते व्यर्थेयं परिभाषेत्याशय इति चेत् ? तथापि थकारधकारस्थानिको दकार इत्यर्थ इति व्याख्यानक्लेशो निष्फलतया मूलस्वरसविरुद्धतया चादरणानर्ह एव। ``दिव उत्त (पाoसूo6-1-131) इत्यादौ ``तित्स्वरितम् (पाoसूo 6-1-185) इत्यस्य प्राप्तेरेव विरहेण दकारप्रश्लेषादेर्नर्बीजत्वात्। तथाहि उदित्येषा उकारस्य संज्ञिनः किमायातम्? वस्तुतस्तु संज्ञापि तान्ता न तु तित्। ``तपरः(पाoसूo 1-1-70) इति हि सूत्रितं न तु तिदिति। यदि हि संज्ञावत् संङपि तान्त एव तर्हि ``अतो भिस ऐस् (पाoसूo 7-1-9) `भवद्भिः' इत्यादावेव स्यान्न तु `वृक्षैः' इत्यादौ। ``तपरस्तत्कालस्य (पाoसूo1-1-70)इति सूत्रं च व्यर्थमेव स्यात् ``सवं रूपं शब्दस्य (पाoसूo1-1-68) इत्यनेनैव गतार्थत्वात्। न च ङमुडादाविव संज्ञायां कृतं लिङ्गं संझिनि लब्‌धुं शक्यम्, तद्वदिह सामर्थ्याविरहात्। एवञ्च ``तित्स्वरितम् (पाo सूo 6-1-185) इति सूत्रे भाष्यवार्त्तिकग्रन्थः सर्वोऽप्यभ्युपेत्यवाद एव। ``स्ताघ्वोरिच्च (पाoसूo1-2-17) इति सूत्रे इच्च कस्य तकारेत्त्वमित्यादिग्रन्थोऽप्येवमेव। तस्मान्नायं तकारः किन्तर्हि दकार इति इहत्यभाष्यग्रन्थो यथाश्रुत एव साधुरिति सहृदयैराकलनीयम्। अयमेव च ग्रन्थोऽभ्युपेत्यवादरूपतामुत्तरग्रन्थानां गमयति। एतेन ``औत् (पाoसुo 7-3-118) ``इटोऽत् (पाoसूo 3-4-146) इत्यादिष्वपि विधेयस्य तपरत्वाभावो व्याख्यातः। तित्त्वं तु दूरापास्तमिति दिक्।
   इह अकारादयो वर्णाः सांशा इष्यन्ते। यदाह ``तस्यादित उदात्तमर्द्धहस्वम्। (पाoसूo 1-2-32) पूर्वस्यार्द्दस्यादुत्तरस्येदुताविति। वार्त्तिककारोप्याह--``ऐचोश्चोत्तरभूयस्त्वात् इति। तत्र सन्ति केचिदंशाः स्वतन्त्रवर्णान्तरसदृशाः, यथा आकारादिष्वकारस्य सदृशौ भागौ, एक्षु पूर्व्वबागोऽकारस्य उत्तर इवर्णोवर्णोयोः, ऋकारो उभयतोऽजुभक्तेरर्द्धमात्रा मध्ये रेफस्य सदृशोऽर्द्धमात्राभागः, लृकारेऽप्युभयतोऽज्भक्तिः मध्ये स्वतन्त्रलकारसदृशो भागः। तत्र स्वतन्त्रतत्तद्वर्णाग्रहणेन विधीयमानं कार्यं तत्तत्सदृशेष्वंशेषु न प्रवर्त्तते। तत्सदृसा हीमे न तु त एव नरसिंहवज्जात्यन्तराक्रान्तत्वात्। गोनौग्रहणं चात्र ज्ञापकम्। यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्तं कार्यं प्रवर्तयेयस्तर्हि ``गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् (पाoसूo5-2-39) इति ``नौद्व्यचष्ठन्(पाoसूo4-4-7) इति च सूत्रद्वये द्व्यज्ग्रहणेनैव गतार्थत्वाद्गो शब्दं नौशब्दं च नोपाददीत। तेन `अग्ने इन्द्र, `वायो उदकम्' इत्यत्र सवर्णदीर्घो न। न च ``एचोऽयवायावः (पाoसूo 6-1-78) इत्यनेन त्स्य बाधोस्तिवति वाच्यम्, अयादयो हि येन नाप्राप्तिन्यायेन मध्येप वादन्यायेन वा यण एव बाधकतया `अग्र आयाहि' इत्यादौ चरितार्था `अग्ने इन्द्रम्' इत्यादौ परेण दीर्घेण बाध्येरन्। अन्तरङ्गोऽपि दीर्घोऽवयवमात्रापेक्षत्वात्। तथा `अग्न एति' इति ``एङः पदान्तात् (पाoसूo 6-1-109) इत्येतन्न, `आलूय' `प्रमाय' इत्यत्र तुङ् न, `मालाभिः' इत्यत्र ऐस्न, `याता' इत्यादावतोलोपो न, `वाचा तरति' `वाचो निमित्तम्' इत्यत्र द्व्यज्लक्षणौ ठन्यतौ नेति दिक्।
   नुड्‌विधिलादेशविनामेषु तु प्रतिविधेयम्। तथाहि, द्विहल्ग्रहणमपनीय ``तम्मान्नुड् इत्येष सूत्रं कर्त्तव्यम्। नचैवम् `आनृधतुः' इत्यत्रेव `आटतुः' इत्यादावपि नुट्प्रसङ्गः ``अश्नोतेश्च (पाoसूo7-4-72) इत्यस्य नियमार्थत्वात्। नियमश्च सामान्यापेक्षः--- अकारोपधस्य यदि भवत्यश्नोतेरेव न तु अटत्यादेरिति। यदि त्वश्नातिमात्रं निवर्त्यं स्यात्तर्हि `नाश्नः' इत्येव ब्रूयात्।
   `रोलः' इत्यत्र स्वतन्त्रास्वतन्त्रसाधारणी जातिरनुवाद्ये विधेये च विवक्षिता। एकादेशस्य च पथङ्निष्कर्षायोगात्तद्द्वारा ऋकारस्यैव लृकारादेशः फलति। स्वतन्त्रवर्णवृत्तिजातेर्नायं निर्देशः किन्तु अशांशिसाधारण्या एवेति। अत्र ज्ञापकं तु ``लुटि च क्लृपः (पाo सूo 1-2-93) ``तासि च क्लृपः (पाoसूo 7-2-60) ``ऋदुपधाच्चाक्लृपिचृतेः (पाoसूo3-1-110) इति निर्देशाः। यद्वा, कृप उः रः ल इति छेदः, कृप इत लुप्तषष्ठीकं पदम्। तच्च तन्त्रेणाऽऽवृत्या वा योज्यम्। कृपेर्यो रेफस्तस्य लः कृपेऋकारस्यावयवो यो रेफः रेफसदृश इति यावत्, तस्य च लकार इति। तेन `चलीक्लृप्यते' इत्यादि सिद्धम्। ईदृशपदविभागप्रदर्शनपरभाष्यादेव कृपोरिति सूत्रपाठस्य प्रामादिकत्वं निर्णीयते तदेवं नुड्विधिलादेशयोः समाहितम्।
   विनामो नतिः, तल्लक्षणं चोक्तं प्रातिशाख्ये---``नतिर्दन्त्यमूर्द्धन्यभाव (ऋoप्राo5-57) इति। प्रकृते तु नस्य णत्वं नतिः, तत्रेदं प्रतिविधानम्---``छन्दस्यृदवग्रहात्(पाoसo8-4-26) इत्यत्रयोगविभागाः कार्यः, ऋतः, ऋतः परस्य नस्य णः स्यात्, `पितृयाणं' `द्युमत्' इत्यादि। नन्वेवमपि तपरकरणात् `पितॄणाम्' इत्यादौ णत्वं न स्यादिति चेत्। एवं तर्हि लत्वविधाविवेहापि `रषाभ्याम्' इति रेफतत्सदृशभागसाधारणी जातिर्निद्दिश्यते क्षुभ्नादिषु तृप्नोतिशब्दपाठाज् ज्ञापकात्। न च परयाऽज्भक्त्या व्यवधानं, `व्यवायेऽपि' इति विभज्य सामान्येन व्यवायेऽपि णत्वविधानात्। न चैवं ` कृतेन' इत्यादावतिप्रसङ्गः, ``अट्कुप्वाङ्नुम्भिः इति नियमात्। आक्षरसमाम्नायि कैस्तत्प्रत्यायितैर्वा व्यवाये यदि भवति तर्ह्येतैरेवेति नियमसूत्रस्यार्थः। यद्वा तृप्नोतिशब्दपाठेन ``होतृपोतृप्रशास्तॄणाम् (पाoसूo 6-4-11) इत्यादिनिर्देशेन च ऋवर्णान्नस्य णत्वमेव ज्ञाप्यते लाघवात्। एवं हि व्यवायेऽपीति योगविभागोऽपि न कर्त्तव्यो भवतीति। भाष्ये तु ``वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते इति द्वितयोऽपि पक्षः समर्थितः। स तु बहुप्रतिविधेयन्वेन गौरवभयान्नेह प्रपञ्च्यते।
  ननु यदि वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते तर्हि `कुक्कुटः' `पिप्पली' `पित्तम्' इत्यादौ संयोगसंज्ञा न स्यात् अखण्डस्य मात्राकालस्य क्क्प्त् इत्यस्य एकहल्त्वात्। तदवयवयोश्च हल्ग्रहणेनाग्रहणात्। नन्वखण्डस्यानुपदेशात् कथं हल्त्वमिति चेत्? मा भूत्तर्हि तदपि। अवयवानां हल्त्वं तु कुतः? `सँय्यन्ता'`सँवत्सरः' `यँल्लोकम्' इत्यादौ तु एकवर्णानामपि हल्त्वं भविष्यति, अण्सूपदिष्ठैर्ग्रहणात्। तदवयवयोस्तु हल्त्वं न स्यादेव। ततश्च संयोगसंज्ञावरहे ततः पूर्वस्य गुरुत्वाभावे प्लुतो ना स्यादिति। अत्राहुः, व्यञ्जनमर्धामात्रमेव। आशूच्चारणात्तु तुल्यरूपयोर्द्वयोरेकत्वभ्रमः। इदं च शिष्टसमाचारात् प्रक्रियादशायामवश्यं स्वीकार्यम्। परमार्थदशायां तु---
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।।
   इति वाक्यपदीयोक्तरीत्या स्फोटं सिद्धान्तयतां क्वास्य पूर्वपक्षस्यावसरः ।।
   हयवरट् (माoसूo5) हकारोऽयं द्विरुपदिश्यते। यदि तु परत्रैवोपदिक्ष्यते अडक्ष्हश्हण्ग्रहणेषु न गृह्येत। ततश्च `अर्हेण' इत्यत्राड्(1)व्यवायेऽपीति णत्वं न स्यात्। `महान् हि' इति स्थिते `महाँहि' इति न स्यात्। अत्र हि``दीर्घादटि समानपादे (पाoसूo 8-3-9) इति रुः, ``आतोऽटि नित्यम् (पाoसूo 8-3-3) इत्यनुनासिकः, ``भो भगो अघो अपूर्वस्य (पाoसूo7-3-17) इति यत्वम्, ``हलि सर्वेषाम् (पाoसूo7-3-22) इति यलोपः। तत्राप्यशीत्यनुवर्त्तत इति वक्ष्यते। `ब्राह्मणो हसति' इत्यत्र ``हशि च (पाoसूo6-1-114) इत्युत्वं न स्यात्। तथा `लिलिहढ्वे, लिलिहिध्वे, इत्यत्र ``विभाषेटः (पाoसूo 8-3-79) इति मूर्द्दन्याविकल्पो न स्यात्। तत्र हि ``इणः षीध्वम्(पाo सूo 7-3-78) इतिसूत्रादिण इत्यनुवर्त्तते। तदेवमटि अशि हशि इणि चेति चतुर्षु ग्रहणं प्रथमोपदेशस्य फलमिति स्थितम्।
   यदि तु परत्र नोपदिश्येत, वल्रल्झल्शल्ग्रहणेषु न गृह्येत। ततश्च `रुदिहि' `स्वपहि' इत्यत्र ``रुदादिभ्यः सार्वधातुके (पाoसूo7-2-76) इति वलादित्वप्रयुक्त इण्न स्यात्। ``ष्णिह प्रीतौ (दिoयo)`स्निहित्वा, स्नेहित्वा' `सिस्निहिषति, सिस्नोहिषति' इत्यत्र ``रलोव्युपधात्( पाoसूo1-2-26) इति कित्त्वं न स्यात्। `अदाग्धाम्' `अदाग्धम्' इत्यत्र घत्वस्यासिद्धत्वाद्धकारादझलः परः सिजिति ``झलो झलि(पाo सूo8-2-26) इति न प्रवर्त्तेत। `अधुक्षत्' `अलिक्षत्' इत्यत्र ``शल इगुपदादनिटः (पाoसूo 3-1-45) इति क्सोन स्यात्।
   तस्मात्प्रत्याहाराणां चतुष्टये प्रथमोपदेशस्य चतुष्टये च द्वितीयोपदेशस्य फलमस्तीति स्थितम्।
   स्यादेतत्, रेफस्य यर्कार्याणि प्राप्नुवन्ति। तद्यथा `मद्रहदो' `भद्रहदः' इत्यत्र अचः पराद्धकारात् परस्य यर इति विधीयमानं द्वित्वं `नह्यस्ति' इत्यादौ यकारस्येव प्राप्नोति। न च ``रोरि(पाoसूo 8-3-14) इति लोपः सुकरः, लोपं प्रति द्वित्वस्यासिद्धेः। ``हलो यमाम्(पाoसूo 8-4-64) इतिलोपस्तु वैकल्पिक इति वक्ष्यमाणत्वात् पक्षे रेफद्वयं श्रूयेत। न च व्यञ्जनपरस्यैकस्यानेकस्य वा उच्चारणं विशेषो नास्तीत्यसिद्धवत्सूत्रे भाष्यकृता वक्ष्यमाणत्वान्नायं दोष इति वाच्यम्, सूक्ष्मत्वाद्दुर्लक्ष्यो विशेष इति तदर्थात्। न तु सर्वथा विशेषविरहोऽभिप्रेतः। ``शरोचि (पाoसूo8-4-49) ``हलो यमाम् (पाoसूo8-4-64) इत्यादिशास्त्रवैयर्थ्यापत्तेः। तथा `चतुर्मखः' इत्यादौ ``यरोऽनुनासिकेऽनुनासिको वा (पाoसूo 8-4-45) इति पक्षे णकारः प्रवर्त्तेत, स्थानसाम्यात्। `कूण्डं रथेन' इत्यादौ ``वा पदान्तस्य(पाo सूo 8-4-59) इति पक्षे रेफः प्रवर्त्तेत। ``रेफोष्मणां सवर्णा न सन्ति(भाoहo) इत्येतद्विजातीयः सवर्णो नास्तीत्येवं परम्। स्वस्य स्वयं सवर्णो भवत्येव, तुल्यास्यप्रयत्नत्वात्। ``रो रि (पाoसूo 8-3-14) इति लोपस्त नास्ति तं प्रति परसवर्णस्यासिद्धत्वात्। अथ द्वित्वान्नासिकपरसवर्णानिवृत्तये यवाभ्यां पूर्वत्र रेफोऽनुकृष्येत--``हरयवट् इति? तर्हि ``रलो व्युपधाद् (पाoसूo 1-2-26) इत्येतद्वकारान्तेष्वपि प्रवर्त्तेत। ततश्च `देवित्वा' `दिदेविषति' इत्यत्र पक्षे गुणो निषिध्येत। नन्वव्युपधादिति च्छित्वा अवकारान्ताद् व्युपधादिति व्याख्यास्यते इति चेत्? एवमपि `गौधेरः' `पचेरन्' इत्यादौ ``लोपो व्योः (पाoसूo6-1-76) इति न प्रवर्त्तेत, रेफस्य व्ल्यनन्तर्भावात्। `रलि' इति वक्ष्यामीति चेत्? ``हय गतौ (भ्वाoपo) `हय्यात्' हत्यादौ यकारेऽतिप्रसङ्गः। ननु यथाश्रुते एव सूत्रे `वलि' इति सरेफं पदं छित्वा रेफे वलि चेति व्याख्यानान्नोक्तदोष इति चेत्? एवमपि ``इको रणचि (पाoसूo 6-2-77) ``संयोगादेरातोदातोरण्वतः (पाoसूo8-2-43) ``उदात्तरणो हल्पूर्वात्( पाoसूo1-1-45) ``इग्रणः सम्प्रसारणम् (पाoसूo1-1-45) इत्यादिक्रमेण यण्ग्रहणानि सर्वाणि रेफेण ग्राह्यणि स्युः। न चैतावतापीष्टनिर्वाहः ``इको रण् इत्यत्र संख्यातानुदेसेनेकारस्य रेफः उकारस्य यकारः ऋकारस्य वकार इति बहूपप्लवप्रसङ्गात्। ननु यथाश्रुतेऽपि यथासंख्येन निर्वाहो दुरुपपादः। तथाहि विधीयमानतया यवलाः सवर्णान्न गृह्णन्तीति चत्वारस्तावद् यणः, गुणानामभेदकतयाऽनुनासिकसङ्ग्रहेऽपि पृतग्गाणनाविरिहात्। इकस्तु सवर्णग्रहणात् षट्षष्टिः। न च षट्षष्टेरुपस्थापकानामिक्शब्दवाच्यानामिकारादीनां चतुष्ट्वमस्त्येवेति वाच्यम्, तृतीयचतुर्थाभ्यामृकाराभ्यां प्रत्येकं तस्या यएव त्रिंशत उपस्थितौ सत्याम् लृकारे रेपादेशस्य ऋकारे च लकारादेशस्य दुर्वारत्वात्। तस्मात्``स्थानेऽन्तरतमः (पाo सूo1-1-50) इत्यनेनैव प्रकृते निर्वाहः। यथासङ्ख्यसूत्रं तु ``नन्दिग्रहिपदादिभ्यः (पाoसूo3-1-134) इत्यादिष्पयोक्ष्यते इत्येव निष्कर्षः। तथा च `इकोरण्' इति न्यासेऽपि तेनैव निर्वाहोऽस्त्विति चेत्? न, वैषम्यात्। यथाश्रुते ह्यविरोधात्परिभाषाद्वयमपि ``इको यण् (पाoसूo6-1-77) इत्यत्र प्रवर्त्तते। इको यथासंख्यमन्तरतमो यण् स्यादिति। रणिति न्यासे तु परिभाषयोर्विरोधात् परत्वेन यथासंख्यमेव प्रवर्त्तेत। तस्मदनुचितो रेफस्य स्वर्थानादपकर्षः। यथाश्रुते तु द्वित्वादिदोषत्रयं दुर्वारमिति।
   अत्रोच्यते, रेफस्याविशेषतः श्रुतेन द्वित्वं प्रति निमित्तत्वेन सामान्यतः श्रुतं कार्यित्वं बाध्यते। यथा `ब्राह्मणा भोज्यन्तां, माठरकौण्डिन्यौ परवेविष्टाम्, इति विशेषतः श्रुतेन परिवेषणेन माठरकौण्डिन्ययोः सामान्यतः प्राप्तं भोजनं बाध्यते, तद्वत्। यद्यपीह लक्ष्यव्यक्तभेदेनोभयं सम्भवति, सत्यपि सम्भवे सामान्यतः प्राप्तं विशेषप्राप्तेन बाध्यते इत्यभ्युपगमान्न दोषः। एवञ्च ``अचो रहाभ्याम् (पाoसूo8-4-46) इति सूत्रे यर इति रेफभिन्नपरमेवेति स्थिते ``अनचि च (पाoसूo8-4-47) इत्यत्रापि तथैव अर्थाधिकाराश्रयणात्। तेन `हर्यनुभवः' इत्यादावपि रेफस्य न द्वित्वम्। नन्वेवं दध्युदकादौ यण् न स्यात्, विशेषतः श्रुतेन स्थानित्वेनेकां निमित्तत्वस्य बाधादिति चेत्? न, तत्र लक्ष्यानुरोधेन व्यक्तिपक्षाश्रयणात्। व्यक्तिपक्षे हि प्रतिलक्ष्यमसकृल्लक्षणं प्रवर्त्तते। यद्वा, प्रतिलक्ष्यं भिन्नानां सर्वेषां लक्षणानां तन्त्रेणोच्चारणम् ``इको यणचि(पाoसूo6-1-77) इति। ततश्चेकामपि तात्पर्यतो निमित्तत्वप्रतिपादनाददोषः। नचैवं `श्रीशः' इत्यादावपि यण्प्रसङ्गः, व्यक्तिपक्षे विप्रतिषेधे परमेवेति नियमबलेन तद्व्यक्तिविषयकशास्त्रस्यैव विरहकल्पनात्। एवमपवादविषयेऽपि `सुश्रयौ' इत्यादौ बोध्यम्। ``परिहृत्यापवादविषयं तत उत्सर्गो ऽभिनिविशेते इति न्यायात्। जातिव्यक्तिपक्षौ च लक्ष्यानुरोधाद्व्यवस्थयाऽऽश्रीयेते इति पस्पशायामेवोक्तम्। ``तस्मादित्युत्तरस्य (पाoसूo 1-1-67) ``पत्युत्तरपदाण्ण्यः (पाoसूoएo4-21-85) इत्यादिनिर्द्देशाश्चेह लिङ्गम्। भाष्ये तु ``नेमौ रहौ कार्यिणौ द्विर्वचनस्य, किं तर्हि निमित्तमिमौ इत्युक्तम्। तत्र हकारग्रहणं दृष्टान्तार्थं, तस्य यर्बहिर्भूततया यथा न द्वित्वे कार्यिता तथा यरन्तर्भूतस्यापि रेफस्येति। एवमनुनासिकपरसवर्णविधी अपि स्थानेन्तरतमपरिभाषासंस्कृतौ स्थानप्रयन्तरतमे `एतन्मुरारिः' `त्वङ्करोषि' इत्यादौ क्वचिल्लब्धावकाशौ अनन्तरतमे प्रागुक्ते न प्रवर्त्तेते जातिपक्षाश्रयणादेवेति संक्षेपः। अत्र वार्त्तिकम्--``अयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वे, अविशेषेण संयोगोपधसंज्ञाऽलोन्त्यविधिद्विर्वचनस्थानिवत्त्वनिषेधाः इति। अस्यार्थः--अविद्यमानो योगः प्रत्याहारेषु सम्बन्धो येषां तेऽयोगाः अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहारसम्बन्धसून्या इत्यर्थः। वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः, अयोगाश्च ते वाहाश्चेति कर्मधारयः। अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः। ``ते च विसर्जनीयजिव्हामूलीयोपध्मानीयानुस्वारयमाः इति भाष्यम्। एतच्च ``ऋति ऋ वा (काoवाo) ``लृति लृवा (काoवाo) इति विहितयोरीषत्स्पृष्टयोरप्युयलक्षणम्। तथाच तुल्यास्यसूत्रे भाष्यम्--`तयोरच्त्वं वक्ष्यामि' इति। तत्फलं तु तत्रैव स्पष्टम्। तत्र यमानां लक्षणमनुनासिकसंज्ञासूत्रे प्रपञ्चयिष्यामः। एषामट्सूपदेशः कर्त्तव्यः, णत्वलं फलम्। `उरःकेण' `उरःपेण' `उरःकेण' `उरःपेण' अड्व्यवाये इति णत्वं विसर्जनीयजिह्वामूलीयोपध्मानीयैर्व्यवायेऽपि सिद्यति। नायमज्ञाताद्यर्थे कः, ``सोऽपदादौ (पाoसूo8-3-38) इति सत्वप्रसङ्गात्; किन्तु उरः कायति उरःपातीति विग्रहः। ``कै शब्दे ``पा रक्षणे (अoपo) आभ्याम् ``आतोऽनुपसर्गे कः (पाoसूo3-2-3) ``कुप्वोःकःपौ च (पाoसूo 8-3-37) इति चकारात् पाक्षिको विसर्गः। न चैवमपि गतिकारकोपपदानां प्राक्सुबुत्त्पत्तेः समासाभ्युपगमात् ``सोपदादौ (पाoसूo 8-3-38) इति प्रवर्त्तेतेति वाच्यम्, तस्य `दधिकल्प' (काoवाo) अत्यादिपरिगणनाच्च। `प्रोम्भणम्' ``अट्कुप्वाङ्(पाoसूo8-4-2) इतिसूत्रे नुम्ग्रहणं न कर्त्तव्यं भवति।
   अत्रेदमवधेयम्--अट्सु क्रियमाण उपदेशोऽकारानन्तरमिकारात् प्राक्कर्त्तव्यः। तेनेण्सु अनन्तर्भावात् `पयः सु यशःसु' इत्यादौ ``इण् फोः (पाoसूo8-3-57) इत्यधिकृत्य विधीयमानम् ``आदोशप्रत्यययोः (पाoसूo 8-3-51) इति षत्वं न भवति। अक्षु चान्तर्भावात् `संस्कर्त्ता' इत्यत्रानुस्वारादचः परत्वमाश्रित्य सकारस्य द्वित्वं कैयटेनाष्टमे वक्ष्यमाणं संगच्छते। न चैवं `हरिः करोति' इत्यादौ ``इको यणचि (पाoसूo 6-1-77) इति यण्प्रसङ्गः, विसर्गस्यासिद्धत्वात्। एवं `हरिः पश्यति' इत्यादावनुस्वारस्यासिद्धत्वं बोध्यम्।
   शर्षु चोपदेशः कर्त्तव्यः। जश्भावस्तावत्प्रयोजनम्। तथाहि, वार्त्तिकमते ``उब्ज आर्जवे (तुoपo) इति धातुरुपध्मानीयोपधः पठ्यते। तत्र ``झलां जश् ज्ञशि (पाoसूo 8-4-53) इति जश्भावे आन्तरतम्याद्वकारादेशः-- ``उब्जिता उब्जितुम्' शर्षूपदेशाद्धि नान्तरीयकत्वादेव झल्त्वमप्यायाति। भाष्यकारस्तु नैतन्मेने। तथाहि, उपध्मानीयोपधत्वपक्षे `उब्जिजिषति' इति न सिध्यति, अभ्यासे बरकारमात्रश्रवणप्रसङ्गात्। हलादिःशेषेण जकारस्य निवृत्तिः। यदि तु ``पूर्वत्रासिद्धमद्विर्वचने(पoआo125) इत्युक्तेः सबकारस्य द्वित्वं तदा स्पष्ट एव बकारस्य शेषः। अथ ``उभौ साभ्यासस्य (पाoसूo8-4-21) इत्यनेनानित्यताझापनाद् द्विर्वतचनेप्यसिद्धत्वमाश्रीयते, `औजिढत्' इत्यत्र यथा; तथाप्यभ्यासे उपध्मानीयस्य शेषे ``अभ्यासे चर्च (पाoसूo8-4-54) इति जश्त्वेन बकार एव श्रूयेत। इष्यते त्वभ्यासे जकार इति प्राञ्चः। वस्तुतस्तु द्वितीयपक्षे उपध्मानीयमात्रमभ्यासे श्रूयेत तच्चोच्चारयितुमप्यशक्यम्। जश्त्वं तु दुर्लभं, प्रकृतिचरां प्रकृतिचर इत्यष्टमे सिद्धान्तयिष्यमाणत्वात् उपध्मानीयेऽचत्वस्यापि सत्त्वेन तावन्मात्रद्वित्वापस्याऽभ्यासे इकारदौर्लभ्याच्च। किञ्च अत्र पक्षे अस्मात् घञि कृते उपध्मानीयस्य जश्त्वे `अभ्युब्जाः' `समुब्जाः' इति स्यात्। इष्यते तु `अभ्युद्गः' `समुद्गः' इति। नन्वत एव ``कुप्वोः (पाoसूo8-3-37) इतिसूत्रे `उपध्मानीयस्य च' इति वर्त्तिकेन कवर्गे परत उपध्मानीयस्य सकारो विधीयते। ततो जश्त्वेन दत्वं विधीयते इति चेत्? सत्यम् `उपध्मानीयस्य च' इति वार्त्तिकारम्भ एव तु गौरवार्ह इति ब्रूमः। बकारोपधोऽयमिति वृत्तिकारमते तु बकारस्य द्वित्वनषेधः `समुद्गः' इत्यादौ दकारादेशश्चेत्युभयमपि वचनेनैव साधनीयं स्यात्। तस्माहकारोपध एवायम् `अभ्युद्गः' `समुद्गः' इति यथा स्यात्। कथं तर्हि `उब्जिता' `उब्जितुम्' इत्यादि सिध्यतीति चेत्? शृणु, ``भुजन्यब्जौ पाण्युपतापयोः (पाoसूo7-3-61) इत्यस्मिन्कुत्वाभावनिपातनार्थे सूत्रे बकारोच्चारणेनानुमीयते----उब्जेरकुत्वविषये दकारस्य भकारविधायकं बकारविधायकं वा वचनमस्ततीति तच्चानुमीयमानं वचनं `भ उद्जेः' इति वा `ब उद्जेः' इति वा। उभयथापि ``स्तोः श्चुना श्चुः (पाoसूo8-4-40) इत्यस्यानन्तरं कल्पते। उद्जेः स्तोर्दकारस्येति यावत्। श्चुना योगे भकारो बकारोवा भवतीति सूत्रार्थः। उद्जेरिति किम्? तज्जः। श्चुनेति किम्? अभ्युद्गः, समुद्गः। इह हि ``चजोः श्चुना' इति पदद्वयोपजीवनार्थं चोक्तस्थले एव कल्पनं युक्तमअ। अन्यथा बहुतरकल्पने गौरवं स्यात्। एवम् `उब्जिजिषति' इत्यपि सिद्धण् ``नन्द्राः (पाoसूo6-1-3) इति दकारस्य द्वित्वनिषेधात्। न च परत्वाद्भवत्वषत्वे ``पूर्वत्रासिद्धे नास्तिविप्रतिषेधोऽभावादुत्तरस्य (भाoइo) इति वक्ष्यमाणत्वात्। अन्तरङ्गत्वाद्भत्वबत्वे इत्यपि न, असिद्धत्वादेव। न च ``पूर्वत्रासिद्धीयमद्विर्वचने (पाoभाo 125) इत्यसिद्धत्वप्रतिषेधः शङ्क्यः, द्वित्वे कर्त्तव्ये सति हि स निषेधः, न तु द्वित्वनिषेधेऽपि। इह तु ``नन्द्राः (पाoसूo 6-1-3) इति सूत्रेण द्वित्वनिषेधे कर्त्तव्ये निर्बाधमेवासिद्धत्वमिति दिक्।
   अथवा माऽस्तु वाक्यशेषानुमानं, ``भुजन्युब्जौ (पाoसूo 7-3-61) इति निपातनादेव बकारोऽस्तु। न चैवमसिद्धताविरहाद्वकारस्यैव द्वित्वं स्यादिति वाच्यम्, दकारोपधनिर्देशसामर्थ्याज्जिशब्दस्य द्वित्वे कृते ततो दकारस्य बकारप्रवृत्तेः। न चास्मिन्पक्षे `अभ्युद्गः' इत्यादावपि बकारप्रलङ्गः, अकुत्वाविषये एव बकारो निपात्यते हत्यभ्युपगमात्। नन्वेवं कुत्वविषये चरितार्थत्वात्कथं दकारोपदेशस्य सामर्थ्यमुक्तम्। येन द्वित्वानन्तरमेव बकारः प्रवर्त्तेतेति चेत्? अनभिधानात्। अतो घञादि माऽस्तु, निपाततनं चैवमविशेषेणास्तु। `अभ्युद्गः' `समुद्गः' इत्येतन्नोब्जे रुपम्, किन्तु उपसर्गद्वयपूर्वकाद्गमेः ``अन्येष्वपि दृश्यते (पाoसूo 3-2-101) इति डप्रत्ययः. व्युत्पत्तिमात्रं चेदम्, रुढिशब्दत्त्वात्। ``समुद्गकः सम्पुटकः (अoकोo2-3-139) इत्यमरः. तदेवमयोगवाहानां शर्षूपदेशस्य जश्त्वाभावरूपं प्रयोजनं वार्त्तिकमतेऽस्ति। भाष्यकारमते तु नास्तीति स्थितम्। तथाः पत्वमपि प्रयोजनं `सर्पिःषु' `धनुःषु'। ``नुम्विसर्जनीयशर्व्यवायेपि (पाoसूo8-3-58) इति सूत्रे विसर्जनीयग्रहणं सूभयथाऽपि कर्त्तव्यमेव। नुम्स्थानिकेनैवानुस्वारेण व्यवधाने यता स्यात्, इह मा भूत् `पुंसु' इति। नुभम्ग्रहणं हि इण्कवर्गाभ्यामुत्तरः सकारो नुमा व्यवहितः षत्वविधौ सम्भवति, अनुस्वारे षत्वस्यासिद्धत्वादित्याहुः। अस्तु वा स्थानिवद्भावेन नुम्त्वम्, तथापि स्वाश्रयस्यानुस्वारत्वस्यापि सत्त्वात् शर्त्वेनैव सिद्धे नियमार्थता युक्ता। नियमश्च सजातीयापेक्ष इत्यनुस्वारेण व्यवाये चेद्भवति तर्हिनुमैव न त्वन्येनेति फलितम्। वस्तुतस्त्वतिदेशं प्रति अनुस्वारस्यासिद्धत्वादतिदेश एव दुर्लभः `सुहिन्सु' इत्यादौ विधायकत्वसम्भवे नियामकत्वानुपपत्तिश्च, तथापि लक्ष्यानुरोधाल्लक्षणेत्येव शरणम्, यथाऽट्कुप्वाङ्सूत्रे। तत्र प्रेन्वनादौ णत्वं मा भूत् प्रोम्भणादौ च स्यादित्येवमर्थं लक्षणेति चेत्? इहापि `सुहिन्सु' `पुंसु' इत्यादौ मा भूदिति तुल्यम्। णत्वविधावनुस्वारमात्रे लक्षणा षत्वे तु नुमस्तानिक एवेत्यन्यदेतत्। अस्मिंश्च पक्षे शर्षूपदेशेऽपि झल्त्वमिव हल्त्वयर्त्वे अपि नान्तरीयकत्वादेव सिद्धे। तत्फलं तूत्तरवार्त्तिकव्याख्यानात्समनन्तरमेव स्फुटी भविष्यति। तता खर्त्वमपि। तेन ``कुप्वोःकः पौ च (पाoसूo 8-3-37) इति सूत्रान्तर्गतो विसर्गः सिद्धः। एवञ्च सौत्रनिदैग्रहणमेवोपष्टभ्य शर्षूपदेशं प्रत्याचक्षाणा। यथाश्रुतमट्सूपदेशपरं वृत्तिग्रन्थं व्याचक्षाणाः परास्ताः, अट्सूपदेशेनाल्त्वाच्त्वयोर्लाभेऽपि हल्त्वयर्त्वालाभात्, तत्फलस्य च वक्ष्यमाणत्वात्। न चाट्स्वेव यकारोत्तरमुपदेशात्तल्लाभ इति वाच्यम्, तता सति `पयःसु' इत्यादाविणः परत्वेन षत्वापत्तेः, अच्त्वासिद्ध्या ``समः सुटि (पाoसूo 8-3-5) इत्यत्रत्यकैयटादिग्रन्थविरोधापत्तेश्चेति दिक्।
   अविसेषेणेत्यादि वार्त्तिकस्यायमर्थः--यत्र प्रदेशे प्रयोजनं दृश्यते तत्र तत्रोपदेशःक कर्त्तव्यः, प्रयोजनानितु संयोगसंज्ञादीनि पञ्चेति। तथाहि, वार्त्तिकमते उब्जेरुपध्मानीयोपधतया उपध्मानीयस्य हल्संज्ञां विना संयोगसंज्ञा न सिद्ध्यति। जश्त्वं त्वसिद्धंम्। ततश्च ``संयोगे गुरु[पाoसूo1-4-11] इति गुरुसंज्ञाया अपि विरहाद् `उ3ब्जक' इत्यत्र ``गुरोरनृतः [पाoसूo8-2-86] इति प्लुतो न स्यात्। तस्मात्प्लुतगुरुसंज्ञाहल्संज्ञानामुत्तरोत्तरसापेक्षतया प्लुतसिद्ध्यर्थं हल्संज्ञाएषितव्या। तदेतदभिप्रेत्योक्तम्---``संयोगसंज्ञा प्रयोजनम् इति। तथोपदासंज्ञाऽपि प्रयोजनम्--`निष्कृतं' `दुष्कृतम्' ``इदुदपधस्य च [पाoसूo8-3-41] इति षत्वं यथा स्यात्। बाष्यकारस्त्वाह-इदुदुपधस्थानिको यो विसर्ग इति व्याख्यानान्नेदं प्रयोजनम्, उपधाग्रहणप्रत्याख्यानाद्वा। इदुद्भ्यां परस्य विसर्गस्येत्येवे,ष्टसिद्धिरिति। अलोन्त्यविधिश्च प्रयोजनम्-`वृक्षस्तरति'। विसर्जनीयान्तस्य पदस्य स इति पक्षे अन्त्यस्य सत्वं यथा स्यात्। पदस्य यो विसर्जनीय इति व्याख्यानात् ``निर्दिश्यमानस्य[पाoसूo12] इति परिभाषाया वा सिद्धत्वादिदमपि न प्रयोजनम्। द्विर्वचनं च प्रयोजनम्। `उरः कः, उरः प' ``अनचि च [पाoसूo8-4-47] इत्यच उत्तरस्य यरो विधीयमानं द्वित्वं सिद्धं भवति। तता स्थानिवद्भावप्रतिषेधोऽपि प्रयोजनम्। यथा `उरः केण' इत्यादौ अड्व्यवायेति णत्वं सिद्धं भवति। एवं `व्यढोरस्केन' इत्यादावपि प्राप्नोति स्तानिवद्भावात्सकारस्य तत्र ``अनल्विधौ [पाoसूoएo 1-1-56] इति प्रतिषेधोऽल्त्वे सति सिध्यति। न च ``पूर्वत्रासिद्धे न स्थानवत् [भाoइo] इति निषेधोऽस्तिवति वाच्यम्, न पदान्तसूत्रशेषभूतस्य तस्य ``अचः परस्मिन्[पाoसूo1-1-57] इत्येतद्विषयकत्वात्। स्थानिवद्भावं प्रतित्रिपादीस्तास्यासितद्धतया न्यायसिद्धं तदिति पक्षे तु नेदं प्रयोजनम्। `उरः केम' इति णत्वं `संस्कर्ता' इत्यत्र सकारस्य द्वित्त्वं चाधिकं प्रयोजनं बोध्यमिति दिक्। यद्यपि सर्वमिदमट्शरोरुपदेशेन सिद्ध्यत्येव, तथापि वार्त्तिकाक्षररचनाया द्वेधापि सम्भव इति भावः ।।
   लण् [माoसूo6] अत्राकारोऽनुनासिकः प्रतिज्ञायते, न तु हकारादिष्विवोच्चारणार्थः. तेन `उरण् रपरः [पाoसूo1-1-51] इत्यत्र रप्रत्याहारग्रहणं भवति। प्रत्याहारग्रहणे ज्ञापकस्तु ``ऋकारलृकारयोः सवर्णविधिः[काoवाo] इति वार्तिकनिर्देशः। ननु ``अइउण् [माo सूo1] इत्यत्रानुबद्धो णकारः स एवेहानुबध्यते। तेनाणग्रहणेष्विण्ग्रहणएषु च पूर्वेण परेण वेति सन्देहः प्राप्नोति। तस्मादसन्देहायेहानुबन्धान्तरमेव कुतो न कृतमिति चेत् ? न, ``व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् [पाoभाo1] इति परिभाषां ज्ञापयितुमनुबद्धस्यैव पुनरनुबन्धात्।
   ञमङ्णनम्। ज्ञभञ् [माoसूo7-8]। अत्र मकारानुबन्धो भाष्ये प्रत्याख्यातः। स हि प्रत्याहारत्रये उपयुज्यते--अम् यम् ङमिति। तच्च त्रयं ञकारेणैव निर्वहति। तथाहि, ``पुमः ख्य्यञ्परे इत्येवास्तु। न च झकारेणैव निर्वहति। तथाहि, ``पुमः खय्यञ्परे इत्येवास्तु। न च झकारभकारपरः ख्यस्ति, येनातिप्रसङ्गः स्यात्। तथा ``हलो यञां यञि लोपः इत्येव पाठ्यम्। न च झकारभकारौ झकारभकारपरौ स्तः। हल उत्तरयोस्तयोः सम्भवे तु ``झरो झरि [पाoसूo8-2-39] इति लोपेन भाव्यमेव। तथा ``ङञो हस्वादचि ङञुण्नित्यम् इति पाठ्यम्। न च झकारभकारौ पदान्तौ स्तः। उज्झेर्लभेश्च क्विपि तौ स्त एवेति चेत्? न, उज्झेर्दोपधतया संयोगान्तलोपे सति `उद्' इति रूपाभ्युपगमात्, लभेस्तु जश्त्वविधानात्। न्न्वेवमप्यागमिनस्त्रयो इणनेभ्यः परे य अचः, आगमास्तु पञ्चेति संख्यातानुदेशो न स्यादिति चेत् ? न, ``यतासंख्यम्[पाoसूo1-3-10] इत्यत्र हि विध्यर्थप्रमितिवेलायां निर्दिश्यमानगतसंख्यासाम्यमाश्रीयते, न तु लक्ष्यसंस्कारवेलायांप्रयोगगतम्। तस्मान्माऽस्तुमकारोऽनुबन्धइति स्थितम्।
   घढधष्।। जबगकडदश् ।। खफछठथचटतव् ।। कपय् ।। शषसर् ।। हल् [माoसूo9।10।11।12।13।14)।। इति माहेस्वराण्यक्षरसमाम्नायसूत्राणि। अत्रायं संग्रहः----
एकस्‌मान्ङ्ञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाःस्युः।
झेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ।। इति ।।
   अस्यार्थः--ङञणवटा एकस्मात्परे ग्राह्याः स्युः. तथाहि, ङकार एकारादेव परो ग्राह्यः ``एङि पररूपम् (पाoसूo6-1-94) इति यथा। ननु ``षिद्भिदादिभ्योऽङ् (पाoसूo3-3-104) ``अस्यतिवक्तिख्यातिभ्योङ् (पाoसूo3-2-52) इत्यकारेण ग्रहणमस्त्विति चेत्? न, ``आदिरन्त्येन [पाoसूo1-1-72] इत्यत्र ``अणुदित्सवर्णस्य च [पाoसूo1-1-69] इत्यतोऽप्रत्यय इत्यनुवृत्तेः। अत एव ``रोः सुपि [पाoसूo8-3-16] इति न प्रत्याहारग्रहणम्। ``सुपि च [पाoसूo7-3-102] इत्यत्र तु अप्रत्यय इति प्रतिषेधो नास्ति, यञादाविति विशेषणाद् उत्तरत्र च ``बहुवचने झलि [पाoसूo7-3-103] इति विशेषणात्। `सुप्तिङन्तं पदम् [पाoसूo 1-4-34] इत्यत्र तिङ्साहचर्यात् ``शास इदङ्हलोः [पाoसूo6-4-34] इत्यत्र तु अङ्ग्रहणसामर्थ्यादपि प्रत्याहारग्रहणं न भवति। अङादौ हलादौ चेति हि व्याख्याने अङ्हलोरिति व्यर्थमेव स्यात्। द्विविधा एव हि क्‌ङितः प्रत्यया अङादयो हलादयश्च। `व्यतिशासै' इत्यत्र तु क्ङित्त्वमेव नास्ति, अटा सहैकादेशस्य स्थानिवद्भावेनाङादित्वाच्च। ``ऋदृशोऽङि [पाoसूo 7-4-16] इत्यपि न प्रत्याहारः, ऋकारान्तेषु ``ऋच्छत्यॄताम्[पाoसूo 7-4-11] इति गुणविधानाज्ज्ञापकातद्। ``सनि च [पाoसूo2-4-47] ``हङ्श्च [पाoसूo2-4-48] इति न प्रत्याहारः ``इको झल् [पाoसूo 6-4-16] इति कदीर्घविधानाच्च। इङ्न्तानां सनि गम्यादेशे हि सति उदाहृतसूत्रद्वयं निर्विषयं स्यात्। ``परिमाणाक्यायां सर्वेभ्यः [पाoसूo 3-3-20] ``इङ्श्च [पाoसूo 3-3-21] इत्यपि न प्रत्याहारः वैयर्थ्यप्रसह्गात्। तथाहि, इकारान्तेभ्य एरचा भाव्यम्। उकारान्तेभ्य ``ऋदोरप् [पाoसूo3-3-57] इत्यपि। लृकारान्तास्सन्त्येव न। एजनतानामप्यनैमित्तिकेनात्वेन प्रत्ययोत्पत्तेः प्रागेव भाव्यम्। अतः प्रत्ययोत्पत्तिवेलायामेजन्ता न सन्त्येव। ऋदन्ताः परमवशिष्यन्ते। तत्र `उः' इत्येव लाघवाद् ब्रूयात्। वस्तुतस्तु सामान्यलक्षणेनैव ऋदन्तेषु घञः सिद्धत्वात्सूत्रमेवेदं न कुर्यात्। अथोच्येत ``इङश्च [पाoसूo 3-3-21] इत्यारम्भसामर्थ्यादिवर्णोवर्णान्तेष्वेजष्भ्यां सह वैकल्पिको घञ् समाविशात्विति, तदपि न; एवं हि सति अजपो र्विधावेव वाग्रहणं कुर्यात्। ``क्रीङ्जीनां णौ [पाoसूo 6-1-48] इति नप्रत्याहारः क्रीज्योः पृथग्ग्रहणमिति वाच्यम्, एवं हि `इक' इत्येव ब्रूयात्, एङन्तानां सानान्यलक्षणेनैवात्वस्य सिद्धत्वात्। ``इङ्धार्योः [पाoसूo3-2-130] इत्यपि न प्रत्याहारः, धारिणा साहचर्यात्। तस्मात्सिद्धं ङकार एकस्मादेवेति।
   तथा ञकारोऽप्येकस्मादेव। ``अतो दीर्घो यञि [पाoसूo 7-3-101] इति।
   तथा ``अइउण् [माoसूo1] इत्येव णकारोऽप्येकस्मादेव। अणिति यथा। अथ ``इणः षीध्वम् [पाoसूo8-3-78] इत्यादाविण्प्रत्याहारोऽप्यनेन कुतो नेति चेत्? न, ``अचि श्नुधातुभ्रुवां य्वोः [पाoसूo 6-4-77] इत्यत्रेकारोकारयोः स्वरूपेण निर्द्दशात्। अन्यथा हि संहितायां मात्रालाघवात्पदच्छेदेऽप्यर्द्धमात्रालाघवाद् `इणः' इत्येव ब्रूयात्। व्याख्यानाच् पूर्वेम न तु परेण ग्रहीष्यते। व्याख्यानं च सिद्धान्तेऽपि शरणम्। य्वोरित्यपि हि निर्देशे किं ह्रस्वयोर्ग्रहणमुत दीर्घयोरुत यकारवकारयोरिति सन्देहः स्यादेव। एवञ्च ``एच इग्घ्रस्वादेशे [पाoसूo 1-1-48] इति सूत्रे इणित्येव प्रतिपत्तिलाघवार्थं वक्तव्ये इग्ग्रहणमपीह लिङ्गम्। इण्ग्रहणे हि तत्र यथासंख्यप्राप्तिरेव नेति न तत्परिहाराय यति तव्यमिति दिक्।
   एवं वकारोऽप्येकस्मादेव ``नश्छव्यप्रशान् [पाoसूo 8-3-7] इति ``एचोऽयवायावः [पाoसूo6-1-78] इति सूत्रे अविति न प्रत्याहारः, अयादिसाहचार्यात्।
   एवं टकारोऽप्येकस्मात् ``अट् कुप्वाङ् [पाoसूo8-4-2] इति।
   द्वाभ्यां षः ``एकाचो बशो भष् झषन्तस्य स्धवोः [पाoसूo 8-2-37] इति यथा।
   ककारस्त्रिभ्यः। ``अकः सवर्णे [पाoसूo6-1-101] ``इको यण् [पाoसूo 6-1-77] ``इसुसुक्तान्तात्कः [पाoसूo7-3-51] इति यथा।

   ``लण् [माoसूo 6] इत्यत्रत्यो णकारोऽपि त्रिभ्यः ``अणुदित्सवर्ण स्य [पाoसूo1-1-69] इत्येक एवाण्, ``इणः षीध्वम् [पाoसूo 8-3-78] इत्यादयः सर्वे इणः, ``इको यण् [पाoसूo 6-1-77] इत्यादौ यण् च। चत्र यण् तावत्पूर्वेण न सम्भवत्येव । इण्तु सम्भवन्नपि ज्ञापकात्त्यक्तः। अणस्तु उभाभ्यां ग्रहणे स्थिते क्व पूर्वेण क्व वा परेणेति वि वक्षायां ग्रहणकशास्त्रे परेणैवान्यत्र तु पूर्वेणैवेति सिद्धान्तः। उक्तं हि ``व्याख्यानतो विशेषप्रतिपत्तिः [पoभाo1] इति। न हि ``परेश्च घाङ्कयोः [पाoसूo 8-2-22] इत्यादौ व्याख्यानादन्यन्नियामकमस्ति। किञ्च, अण् ग्रहणानि तावत्पञ्च--``उरण् रपरः [पाoसूo 1-1-51] ``अणुदित्सवर्णस्य [पाoसूo1-1-69] ``ढ्रलोपे पूर्वस्य दीर्घोणः [पाoसूo 6-3-111] ``केऽणः [पाoसूo7-4-13] ``अणोऽप्रगृह्यस्य [पाoसूo8-4-57] इति। तत्र ``उरण् रपरः [पाoसूo 1-1-51] इति तावत्पूर्वेण ``ऋत इद्धातोः [पाoसूo7-1-100] इति धातुग्रहणाज्ज्ञापकात्। तद्धि `मातॄणाम्' इत्यादिव्यावृत्त्यर्थं क्रियते। परेण च ग्रहणे ``नामि [पाoसूo 6-4-3] इति दीर्घस्यापि रपरत्वापत्त्या व्यावर्त्याप्रसिद्धिः। ननु `चिकीर्षति' इत्यत्र ``अज्ज्ञनगमाम् [पाoसूo6-4-16] इति दीर्घे रपररत्वे च सति ``उपधायाश्च [पाoसूo 7-1-1] इतीत्वमेषितव्यम्। तद्वत् `मातॄणाम्' इत्यत्रापि प्रसङ्गे तद्व्यवर्तकतयोत्तरार्थं धातुग्रहणं भविष्यतीति चेत् ? न, एवं हि सत्युत्तरत्रैव कुर्यात्। इह करणं ज्ञापकमेव। तथा च वक्ष्यति--``नुड्वाच्य उत्तरार्थं तु, इह किञ्चित् त्रपो इति इति। किञ्च अण्ग्रहरणसामर्थ्यादपि पूर्वैवायम्। यदि हि परेण स्याद् `उरच्' इत्यज्ग्रहणमेव कुर्यात् `कृत्तिः' `कृतं' `प्रकृतं' `नृःपाहि' मातॄणाम्' इत्यादावाद्युदात्तानुदात्तस्वरितानुनासिकदीर्घाणां रपरतायाः परेणाम्ग्रहेणोपपादयितव्यायास्तावतापि लाभात्। `कर्त्ता' `कारकः' इत्यादौ गुणवृद्धिप्रसङ्गे एचामवर्णस्य चाविसेषाद्रपरत्वस्य विकल्पेन प्रसङ्ग इत्यप्यज्ग्रहणेन सिध्यत्येव।
   स्यादेतत्, `कर्त्रर्थण्' इत्यत्र इको यणि रपरत्वे रेफद्वयश्रवणार्थमण्ग्रहणं स्यात्। नह्येतदज्ग्रहणेन सिध्यति। ``हलो यमाम् [पाoसूo8-4-64] इति लोपस्तु वैकल्पिकः ``झयो होऽन्यतरस्याम् [पाoसूo 8-4-62] इत्यतोन्यतरस्यांग्रहणानुवृत्तेः। अत्र च झापकं ग्रहणकशास्त्रेऽण्ग्रहणम्। तद्धि `सय्यँन्ता' सव्वँत्सरः । यलँलोकम् इत्यादौ परसवर्णस्य सानुनासिकस्य ********** ग्रहणाद्क ``अनचि च (पाoसूo 8-4-47) इति द्वित्वे कृते पक्षे यवलानांत्रिकस्य श्रवणार्थं क्रियते। ``हलोयमाम्[पा.सू.8-4-64] इत्यस्य नित्यत्वे तु व्यर्थमेव तत्स्यात्। यद्यपि गुणानामबेदकत्वेनैव सानुनासिकयवलानां द्वित्वसिद्धेर्ग्रहणकशास्त्रेऽज्ग्रहणमेवोचितं चन त्वण्ग्रहणं, तथापि `गुणा बेदकाः' [पाoभाo] इत्यपि पक्षं झापयितुमण्ग्रहणम्। बेदकाभेदकपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोदाद्व्यवस्था। अत एव ``चतसर्याद्युदात्तनिपातनम् [भाoइo] इत्यादि सङ्गच्छते। अत एव च ``अष्टन आ विभक्तौ [पाoसूo 7-2-84] इत्यादाविदमस्त्यदाद्यत्वे चानुनासिकोनेति वक्ष्यामः।
   यत्तु विकल्पानुवृत्तौ झापकान्तरवर्णनम्-अनुवर्त्तते विबाषा शरोऽचि यद्वारयत्ययं द्वित्वं, नित्ये हि तस्य लोपे प्रतिषेदार्थो न कश्चित्स्याद् इति, तत्तु भाष्ये दूषितम्। तथाहि, लोपस्य नित्यत्वे ``अचो रहाभ्याम् [पाoसूo8-4-46] इति द्वित्वेनारम्भसामर्थ्यात्तद्वाधः. द्विविधा एव हि यरः यमो झरश्चेति। तत्र ``हलो यमाम् [पाoसूo 8-4-64] इति ``झरो झरि [पाoसूo 8-2-39] इति च लोपे कृते द्वित्वं वृथा स्यात्। किं तर्हि तयोर्योगयोरुदाहरणमिति चेत्? यत्रान्तरेण द्वित्वं व्यञ्जनत्रयं लभ्यते, यथा आदित्यो देवताऽस्य आदित्यः, प्रत्तम्, अवत्तमिति। एवं स्थइते `चतुर्षु' इत्यत्रापि यदि द्वित्वं स्यात्तर्हि लोपो न स्यादेव। ततश्च सार्तकः ``शरोऽचि [पाoसूo8-4-49] इति निषेधः कथं विभाषानुवृत्तिं ज्ञापयेदित्यास्तां तावत्। सर्वथापि विकल्पानुवृत्तेः स्थितत्वात्पाक्षिकरेफद्वयश्रवणार्थमण्ग्रहणमस्त्विति।
  अत्रोच्यते, `कर्त्रर्थम्' इत्यादौ सत्यपि रपरत्वे रेफद्वयश्रवणं दुर्लल्भम्‌रो रि [पाoसूo8-3-14] इति लोपात्। न च तत्र `पदान्तस्य' इति व्याख्यातुं युक्तं, जर्गृधेर्लङ् `अजर्घाः' पास्पर्द्धेर्लङ् `अपास्पाः' इत्यादेरसिद्धिप्रसङ्गात्। न चाण्ग्रहणसामर्थ्यात्तद्वाधः, पूर्वेणापि ग्रहणे ऽबाधेनैवोपपत्तेरिति दिक्। तस्माद्धातुग्रहणसामर्थ्यादण्ग्रहणसामर्थ्याद्वा ``उरण् रपरः इति पूर्वेण ग्रहरणमिति स्थितम्। वस्तुतस्तु धातुग्रहणमेव ज्ञापकम्, अण्ग्रहणस्य `लाकृतिः' इत्यादौ लपरताफलमित्यपि वक्तुं शक्यत्वात्। ``अणुदित्सवर्णस्य चाप्रत्ययः [पाoसूo1-1-69] इति तु परेणैव ``ऊर्ऋत् [पाoसूo7-4-7] इति लिङ्गात्। तत्र हि ``कॄतसंशब्देने [चुoउo] इत्यस्माच्चुरादिण्यन्ताल्लुङि चङि `अचीकृतत्' इत्यत्र ऋकारस्य दीर्घस्यापि स्थाने हस्व एवयथा स्यादित्येवमर्थं तपरकरणं कृतम्। ग्रहणकशास्त्रे पूर्वण ग्रहणे तपरत्वं स्यात्। ननु सत्यपि परेण ग्रहणे ``उर्ऋत् [पाoसूo7-4-7] इत्यत्र तपरत्वं वृथैव। भाव्यमानेन सवर्णग्रहमाप्रसक्तेरिति चेत्? न, वक्ष्यति हि तत्र वृत्तिकारः--न चायम्भाव्यमानोऽण् किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपेणाभ्यनुज्ञायते इति। कृते तु तपरत्वे तद्वलादेव दीर्घस्थाने भाव्यमानताऽपि लभ्यते इत्यन्यदेतत्। तस्माद् ग्रहमकशास्त्रेण परेणेति स्थितम्। तत्फलं तु ``उरण् रपरः [पाoसूo 1-1-51] इत्यत्र उरित्यनेन ऋकारस्य ग्रहणाद् ``ऋत इद्धातोः [पाoसूo 7-1-100] ``उदोष्ठ्यपूर्वस्य [पाoसूo1-1-102] इत्यादौ रपरत्वसिद्धिः। `ढ्रलोपे पूर्वस्य दीर्घीऽमः (पाoसूo 6-3-111) इत्यत्रापि हलामणामसम्भवादेचान्तु विशेषाभावादनर्थकमवाण्ग्रहणं स्यात्। ततश्च ``अचश्च (पाoसूo 1-1-28) इत्येव सिद्धमित्यण्ग्रहणसामर्थ्यात्पूर्वेण ननु ``वृहू उद्यमने [तुoपo] अस्मात्तृचि ऊदित्वादिडभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रेफस्य दीर्घे स्थानसाम्यादृकारे ढलोपस्यासिद्धत्वम् ``उपधायाश्च (पाoसूo 7-1-1-101) इतीत्वे पूर्ववद् गुणे `वर्दा' इति यथा स्यादिति परेण हि ग्रहणे ``हल' [पाoसूo 6-4-2] इत्यत्राप्यस्यैवाण्ग्रहणस्यानुवृत्तेस्त्रेः सम्प्रसा रणे कृते दीर्घः स्यात्। यता दृढादिषु वृढशब्दस्य पाठोऽपि ज्ञापको बोध्यः। ``वृहू उद्यमने [तुoपo] अस्मान्निष्ठायां ढत्वधत्वष्टुत्वढलोपेषु कृतेषु `वृढः' इति रुपम्। दन्त्योष्ठ्यादिश्चायम्। ``उद्वृहरक्षः सह मूलमिन्द्र इति दर्शनात्। ``मूलमस्याबर्हि [पाoसूo4-4-88] इति सूत्रे हरदत्तादिग्रन्थे स्पष्टतेत्। तुदादौ एतद्दातूत्तरत्वेन पठ्यमानयोः ``तूहू स्तृहं हिंसायम्[तुoपo] इति धात्वेरपि निष्ठायां `तृढः' स्तुढः इति रूपं बोद्यम्। ``दृढः स्थूलबलयोः [पाo सूo 7-2-20] इति तु इडभावो नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते न त्वसिद्धइकाण्डस्थढत्वादेरिहि प्रवृत्तिरिति वक्ष्यते। तेन `परिद्रढय्य' `पारिद्रढी कन्या' इत्यादौ लघुत्वप्रयुक्तो णेरयादेशः ष्यङ्भावश्च सिध्यतीति दिक्। तेन ढ्रलोपसूत्रे परेणाण्ग्रहणपक्षेऽपि वृढतृढस्तृढेष्वेवातिप्रसङ्गो न तु दृढेऽपीति विवेकः। ``केऽणः [पाoसूo 7-4-13] इत्यत्र परेणाण्ग्रहणे `गोका' `नौका' `उपानत्का' `चतुष्कम्' इति धत्वविसर्जनीययोरस्त्रिद्धत्वाद्ध्कस्वप्रसङ्गः, ततापीह ह्रस्वश्रुत्योपस्थितस्य ``अचः [पाoसूo1-28] इत्यस्याबादाय पूर्वेण भविष्यति। अबाधेनोपपत्तौ हि बाधो न न्याय्यः। ``अणोऽप्रगृह्यस्य (पाoसूo 8-44-57) इत्यत्र परेण सति--`कर्तृ' `अग्ने' `वायो' `मत्यै' `पपौ' `मालामाच्क्षाणो माल्' `वृक्षवयतेरप्रत्ययः वृक्षव्' अत्रापि प्राप्नोति। रेफवर्जिता अन्तरथाः सानुनासिकनिरनुनासिकभेदेन द्विधेत्युक्तत्वात्। अत्र लण्सूत्रे स्तित्वा वृक्षव्शब्दमित्यं कैयटो व्युदपादयत्--वृक्षं वृश्च तीती क्विति कृते, वृक्षव्शब्दमित्थँ कैयटो व्युदपादयत्-- वृक्षं वृश्चतीति क्विपि कृते वृक्षवृश्चमाचष्ट इति णिचि (verified)

``हलि सर्वेषाम् [पाoसूo8-3-23] इति कप्राप्नोति। न च स्थानिवद्भावः पूर्वत्रासिद्धे तन्निषेधादिति चेत्? इति प्राप्नोति । न च स्तानिवद्भावः पूर्वत्रासिद्धे तन्निषेधादिति चेत्? न, ``भो भगो [पाoसूo8-3-17] इत्यतोऽसीत्यनुवर्त्याशि हलि तद्विधानादिति। न च विच्पक्षेऽपि णिचः प्राग्भाविनं क्विणमेवाश्रित्योठ् प्रसञ्जादिति। न च विच्पक्षेऽपि णिचः प्राग्भाविन् क्विपमेवाश्रीत्योष् प्रसञ्जनीयः, अर्न्तभूतक्विबाश्रयतयाऽन्तरङ्गे रर्त्तव्ये बहिर्बूतणिजपेक्षतया वहिरङ्गस्य टिलोपस्यासिद्धत्वात्। इदं त्विह वक्तव्यम्। विच्पक्षेऽप्येकदेशविकृतस्यानन्यत्वेन व्रश्चतिग्रहणेन ग्रहणम् ``व्रश्च[पाo सूo 8-2-36] इति षत्वं दुर्वारम्। न च णिलोपस्य स्थानिवत्त्वम् `प(1)दान्तविधौ न' इति निषेधात् ``पूर्वत्रासिद्धे न [भाoइo] इति निषेधाच्च। तस्मान्नायं वृश्चतिरपि तु वेतिर्वातिर्वा, वृक्षं वेतीति वृक्षवीः वृक्षं वातीति वृक्षव्यं वृक्षवां वाऽऽचष्टे वृक्षव्, विच्, न तु क्विप् ऊठ्प्रसङ्गात्, क्वौ विधिं प्रति स्थानिवत्वनिषेधात्। तथा च देवयतेः `दयुः' इति सिद्धान्तितम्। न चैवमपि ``लोपो व्योः [पाoसूo6-1-76] इत्यस्य प्रसङ्गः स्थानिवत्त्वात्। चानवयवत्वात्। विभावितं चेदं ``भो भगो [पाoसूo8-2-17] इति सूत्रे कैयटेनेति दिक्।
   यत्तु ``हलि सर्वेषाम् (पाoसूo8-3-22) इति सूत्रे हरदत्तेनोक्तम्--``वृक्षव् करोतीत्येवं रूपः प्रयोगे नास्त्येव, अनभिधानात्। लण्सूत्रे ``न पदान्ता हलोणः सन्ति (भाoइo) इति भाष्यकारोक्तेश्चानभिधानं निस्चीयते इति, तच्चिन्त्यम् लण्सूत्रभाष्ये ``न पदान्ताः परेऽणः सन्ति इति पाठात् अप्रगृह्यस्येति पर्युदासाश्रयणेनाचामेव कार्यभाक्त्वादितरे कार्यभाजो न सन्तीत्येवंपरतया कैयटेन तद्विवरणाच्च, ``ननु चायमस्ति कर्तृ इत्युत्तरभाष्येणास्य दूषितत्वाच्च, त्वदुदाहृतपाठे उत्तरभाष्यस्योक्तिसम्भवालाभाच्च। अत एव ``भो भगो (पाoसूo8-2-17) इतिसूत्रे भाष्यकारवृत्तिकारादिभिः सर्वैरपि `वृक्षव्' इत्युदाहृतम्। स्वयमपीह तथैवोदाहृतमिति पूर्वापरस्वग्रन्थविरोधो भाष्यवृत्तिकैयटादिसकलमहाग्रन्थविरोधो मूलयुक्त्यभावश्चेति तिष्ठतु तावत्।
   प्रकृतमनुसरामः. मकारोऽपि त्रिभ्यो ग्राह्यः--``पुमः खय्यम्परे (पाoसूo8-3-6) ``हलो यमां यमि लोपः (पाoसूo8-4-64) ``ङमोह्रस्वादचि (पाoसूo8-3-12) इति।
   चकारश्चतुर्भ्यः--``इकोयणचि (पाoसूo6-1-77) ``इच एकाचोऽम् (पाoसूo 6-3-68) ``एचोऽयवायावः (पाoसूo 6-1-78) ``पूर्वौ तुताभ्यामैच् (पाoसूo 7-3-3) इति।
   यकारोऽपि चतुर्भ्यः--``अनुस्वारस्य ययि (पाoसूo8-4-45) ``मयउञः (पाoसूo8-3-33) ``झयो होऽन्यतरस्याम् (पाoसूo8-4-62) ``पुमः खयि (पाoसुo8-3-6) इति।
   रः पञ्चभ्यः---``यरोनुनासिके (पाoसूo8-4-45) ``झरो झरि सवर्णे (पाoसूo 8-2-39) ``खरि च (पाoसूo8-4-55) ``अब्यासे चर्च (पाoसूo8-4-54) ``वा शरि(पाoसूo8-3-36)।
   शकारः षड्भ्यः--``भो भगो अघो अपूर्वस्य योऽशि (पाoसूo8-3-17) ``हसि च (पाoसूo 6-1-114) ``नेड्वशि कृति (पाoसूo 7-2-8) ``झलां जश् झशि (पाoसूo8-4-53) ``एकाचो बशो भष् (पाoसूo8-2-37)
   लककारोपि षड्भ्यः--``अलोऽन्त्यस्य (पाoसूo 1-1-52) ``हलि सर्वेषाम् (पाoसूo 8-3-22) ``इड् वलादेः (पाoसूoएo 7-2-35) ``रलोब्युपधात् (पाoसूo 1-2-26) ``झलां जश् (पाoसूo 8-4-53) ``शलइगुपधाद् (पाoसूo 3-1-45) इति।
   अयं च चतुर्द्दशसूत्रीस्थैर्हल्भिरिद्भिःक सम्पन्नानामष्टाध्याय्यां व्यवहतानां प्रत्याहाराणां संग्रहः. तेन सुप्तिङादे रप्रत्याहारस्य ``ञमन्ताड्डः (उoसूo1-119) इत्युणादिषु व्यवहृतस्य ञम्प्रत्याहारस्य ``यमिर्ञमन्तेष्वनिडेक इष्यते इति व्याघ्रभूतिना व्यवहृतस्य च ``चयो द्वितीयाः शरि पौष्करसादेः (काoवाo) इति वार्तिककृता व्यवहृतस्य चय्प्रत्याहारस्य चाधिक्येऽप्यदोषः। संख्यानियमश्चायमत्तरत्र एकचत्वारिंशद्भिर्व्यवहारादध्यवसीयते इति बोध्यम्।
   अत्र श्लोकवार्त्तिकम्---
प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न।
आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ।।
   प्रत्याहारोऽक्षरसमाम्नायः। तत्र येनुबन्धास्तेषामज्ग्रहणेष्वित्युपलक्षणम्। अजादिप्रत्याहारग्रहणेषु। कथं नेति। `ग्रहणम्' इति शेषः। ``आदिरन्त्येन (पाoसूo1-1-71) इति सूत्रेण हि अकार्मारभ्याऽऽचकाराद्वर्णानां भवन्त्यच्संज्ञा मध्यस्थात्वाविशेषादिकारादीनामिव णकारककारङ्काराणामपि स्यात्। ततश्च `णकारः'`दधि-ककारः' `दधि-ङकारः' इत्यादौ यण् स्यात्। एवमड्ग्रहणे चकारस्यापि ग्रहणाद् `रुचीनाम्' इत्यादौ ``अड्व्यवाये इति णत्वं स्यात्। एवमिण्ग्रहणेन चकारग्रहणाद् `रुचिध्वे' इत्यादौ ``विभाषेटः (पाoसूo8-3-79) इति ढः स्यादिति पूर्वपक्षः पूर्वार्द्धस्यार्थः।
   उत्तरमाह--आचारादिति। आचारोऽत्र सूत्रकृतो निर्द्देशः। ``उणादयो बहुलम् (पाoसूo3-3-1) ``तृषिमृषिकृशेः (पाoसूo1-2-25) ``ङसिङसोश्च (पाoसूo 6-1-110) इत्यादौ यणोऽकृतत्वान्मध्यस्थानामप्यनुबन्धानां संज्ञित्वं नेति ज्ञाप्यते इत्यर्थः। समाधानान्तरमाहअप्रधानत्वादिति। अणिन्यादिसंज्ञाः प्रणेतुं तद्रूपप्रतिपादनायानुबन्धा उच्चार्यन्ते। ततश्च परार्थमुपादीयमानतया तेषामप्राधान्यम्। इतरेषां तु स्वार्थमुपादीयमानत्वात्प्राधान्यम्। तेन तेषामेव संज्ञा न त्वनुबन्धानाम्। ``प्रधानाप्रदानयोः प्रधाने कार्यसम्प्रत्ययः (पoभाo105) इति न्यायात्। नन्वेवमकारस्याच्संज्ञा न स्यात्, संज्ञाप्रतिपादने चकारस्येव तस्याप्यङ्गत्वाविसेषादिति चेति? न, ``स्वं रूपम् (पाoसूo 1-1-68) इत्यनुवृत्त्याऽऽदेरपि संज्ञित्वात्। स्वं रूपं चादेरेव गृह्यते नान्त्यस्य, सर्वनाम्नां प्रधानपरामर्शकताया औत्सर्गिकत्वात्। इतेति तृतीयया इतोऽप्राधान्यलाभात्। तदेवं संज्ञाप्रवृत्तिकालेऽनुबन्धानां संनिधानमभ्युपेत्य द्वेदा समाहितम्। वस्तुतस्तु तदेव नास्तीत्तयाद्द-लोपश्चेति। बलवानेव बलवत्तरः स्वार्थे तरप्। ``अल्पाच्तरम् (पाoसूo 2-2-34) इति यथा। ``हलन्त्यम् (पाoसूo1-3-3) इतीत्संज्ञायां हि कृतायां णकारादीनामच्संज्ञा प्राप्नोति लोपश्च। तत्र परत्वान्नित्यत्वादन्तरङ्गत्वाच्च लोपे कृते संज्ञाप्रवृत्तिकाले मकारादीनामसत्त्वादेव तेषामजादिसंज्ञा नेति भावः। यस्मिस्तु प्रत्याहारे योऽनुबन्धोऽकपोक्षितस्तस्य वचनसामर्थ्यात्तत्प्रवृत्तेः प्राग् लोपाभावः। लुप्तेऽपि वा तस्मिन् भूतपूर्वेण तेन सहित आदिः संज्ञा भविष्यति। अन्तः पातिनां तु लुप्तानां न संज्ञा श्रूयमाणेष्विकारादिषु सावकाशत्वादिति। ननु हल्प्रत्याहारेऽकारस्य प्रवेशो दुर्वारः। न हि तत्र लोपो लभ्यते। ततः प्रागच्संज्ञाविरहेण ``उपदेशेऽज् (पाoसूo 1-3-2) इतीत्संज्ञाया अप्रवृत्तेः। एवञ्चाद्यसमाधानमपि दुरुपपादम्। उदाहृतस्याचारस्य ``लोपश्च बलवत्तरः इत्यनेनैव गतार्थत्वादिति चेत्? न, ``सोऽस्यादिः (पाoसूo4-2-55) इतिनिर्द्देशेन प्रथमस्य गुणानां भेदकत्वेन चरमस्य च समाधानस्य सूपपादत्वादिति दिक् ।।
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे
पादे द्वितीयमान्हिकम् ।। 2 ।।
                -----***-----