शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।। श्रीः ।।
भट्टोजिदीक्षितविरचितः ।

शब्दकौस्तुभः । [ प्रथम भागः ]

       ।। श्रीगणेशाय नमः ।।
  विश्वेशं सच्चिदानन्दं वन्देऽहं योऽखिलं जगत् ।।
  चरीकर्त्ति बरीभर्त्तिसंजरीहर्ति लीलया ।। 1 ।।
  नमस्कुर्वे जगद्वन्द्यं पाणिन्यादिमुनित्रयम् ।।
  श्रीभर्तृहरिमुख्यांश्च सिद्धान्तस्थापकान्बुधान् ।। 2 ।।
  नत्वा लक्ष्मीधरं तातं सुमनोवृन्दवन्दितम् ।।
  फणिभाषितभाष्याब्धेः शब्धकौस्तुभमुद्धरे ।। 3 ।।
  परिभाव्य बपहून् ग्रन्थान्योऽर्थः क्लेशेन लभ्यते ।।
  तमशेषमनायासादितो गृह्णीत सज्जनाः ।। 4 ।।
  समर्प्य लक्ष्मीरमणे भक्त्या श्रीशब्दकौस्तुभम् ।।
  भट्टोजिभट्टो जनुषः साफल्यं लब्धुमीहते ।। 5 ।।
  
   प्रेक्षावत्प्रवृत्तये व्याकरणस्य विषयं भगवान् भाष्यकारः प्रादर्शयत् ``अथ शब्दानुशासनम् इति। अथशब्दः प्रारम्भस्य द्योतको न तु वाचकः, निपातत्वात् उपसर्गवत्। न च तेऽपि वाचका एवेति वाच्यम्, `उपास्यते गुरुः' `अनुभूयते सुखम्' इत्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारायोगेन वाचकत्वे स्थिते उपसर्गाणां द्योतकत्वस्यैव युक्तत्वात्। ननूक्तयुत्त्याऽस्तूपसर्गाणां द्योतकता निपातान्तरं तु वाचकमेविति चेत् ? न, साक्षात्क्रियते अलंक्रियते ऊरीक्रियते इत्यादौ कर्मणि लकारेण कर्मीभूतस्य गुर्वादेरभिधानसिद्धये धात्वर्थं प्रति कर्मत्वस्य वाच्यत्वात्, उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तदवच्छेदेनैव द्योतकताकल्पनाच्च। सामान्ये प्रमाणानां पक्षपातात्। निपातत्वं चाऽखण्कडोपाधिरूपं जातिरूपं शब्दस्वरूपमेव चेति पक्षत्रयेऽपि प्रादिचादिसाधारणमेव। प्रत्वादिप्रत्येकपर्यवसन्नं तदिति पक्षेऽपि व्रादीनां चादिभ्यो वैलक्षण्यानिरुक्तेः केवलानामप्रयोगेण अन्यलभ्यताऽपि तुल्यैव। विजयते इत्यत्र धातोर्विशेष्टजय इव घटश्चेत्यत्र समुच्चितघटे घटशब्दस्यापि लक्षणायाः संभवात्। किञ्च चादीनां वाचकत्वे समानाधिकरणप्रातिपदिकार्थयोरबेदान्वय इति व्युत्पत्तिर्निपातेतरविषयकतया विना प्रमाणं संकोचनीया स्यात्, स्याच्च समुच्चयादिशब्दयोग इव चादियोगेऽपि घटादेः षष्ठी। किञ्च समुच्चयादिपदैरुपस्थिते यथा विशेषणसम्बन्धस्तथा चादिभिरुपस्थितेऽपि स्यात्। द्योतकत्वपक्षे तु पदार्थैकदेशत्वान्न तत्र विशेषणान्वयः। अपि च----
शरैरुस्रैरिवोदीच्यानुद्धारिष्यन् रसानिव।
   इत्यादौ उस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिप्यन्नित्यादिरर्थः। स च उस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च तात्पर्यग्राहकत्वे सत्येव लभ्यते। अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधजनकताऽपि भज्येत। इवशब्दात्तु तृतीया दुर्लभा, असत्त्वार्थकतया कारकविभक्त्ययोगात्। एवमप्युस्रादिभ्यस्तृतीयायाऽनन्वयस्यानुद्धाराच्च। नन्वेवं नञ्तत्पुरुषस्योत्तरपदार्थादिप्राधान्यमित्यादिसिद्धान्ता भज्येरन्निति चेत् ? न, पूर्वपदद्योत्यं प्रति प्राधान्यमिति तदर्थात्। द्योत्यार्थेना(1)प्यर्थवत्तेति प्रातिपदिकत्वसिद्धि। अत एव येषां द्योत्योऽप्यर्थो नास्ति ``तु हि च स्म ह वै पादपूरणे इत्यमरकोशात् ``कमीमिद्विति पादपूरणार्थाः इति निरूक्ताच्च, तदर्थं ``निपातस्यानर्थकस्य इति वार्तिकारम्भ इत्यवधेयम्। स्फुटञ्चेदङ्कैयटादिग्रन्थेषु। अत एवाऽऽकृत्याधिकरणे भट्टैरुक्तम्---
चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः।
क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ।।
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते।
यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ।। इति ।।
   यत्तु अर्थवत्सूत्रे `अधीते' इत्यादौ धातोरनर्थकता उपसर्गविशिष्टस्य वाचकतेति कैश्चिदुक्तं, तदभ्युच्चयमात्रम्। ``सर्वस्य द्वे इति सूत्रे कैयटादिग्रन्थोऽप्येवमेव। पूर्वोत्तरमीमांसयोस्तत्रतत्र नत्रः पर्य्युदासे लक्षणेति ग्रन्था अप्येवमेव, उक्तयुक्तेः। अस्तु वा मतान्तरं निपाता वाचका इति, सर्वथापि प्रादयो द्योतकाश्चादयस्तु वाचका इत्येवंरूपमर्द्धजरतीयं नैयायिकाभ्युपगतमप्रामाणिकमेवेति दिक् ।
   अनुपृर्वकः शासिर्विविच्य ज्ञापने दृष्टः। तद्यथा--``अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः। यथा वा--``संपूषन्विदुषा नय यो अञ्जसाऽनुशासति। य एवेदमिति व्रवत्। अत्र हि गुणत्रयोपेतेन सद्गुरुणाऽस्मान् शिक्षयेति पूषा प्रार्थ्यते। तत्र अञ्जसेति सैघ्रयमुक्तम्। अनुशासतीति विविच्य बोधकंत्वम्। ``बहुलञ्छन्दसि इति शपो न लुक्। इदमित्यमेवेति यो ब्रूयादिति प्रमेयनिष्कर्ष उक्तः। ब्रवदित्यत्र ``लेटोडाटौ इत्यट्। तथाच अनुशिष्यन्ते विवितच्य असाधुभ्यो विभज्य बोद्यन्ते येनेति करणेल्युट्। ततश्शब्दानामिति कर्मणि षष्ठी, तदन्तेन समासः। न च ``कर्म्मणि च इति सूत्रेण समासानिषेधः शङ्ख्यः, तत्र च श(1)ब्दार्थतया कर्म्मणीति शब्दवता ``उभऊयप्रप्तौ इतिसूत्रेण या षष्ठी तदन्तं न समस्यते इत्यर्थात्। `चित्रं गवां दोहोऽगोपेन' इत्यत्र हि आश्चर्यं प्रतिपाद्यं, तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति, न त्वन्यथा। अतः कर्तृकर्मणोर्विशिष्योपादानादस्त्युभयप्राप्तिः। इह तु शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तिपरं वाक्यं न तु कर्त्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः। अस्तु वा अथाकथञ्चिदुभयप्राप्तिः। तथापि न क्षतिः, ``उभयप्राप्तौ इतिसूत्रे अविशेपेण विभाषेति पक्षस्यापि वक्ष्‌यमाणतया नियमाप्रवृत्तिपक्षे आचार्यस्य शब्दानुशासनमिति प्रयोगसंभावत्। शेषलक्षणा षष्ठी वाऽस्तु। तस्माद्वैदिका लौकिकाश्च शाधवः। शब्दा इह विषय इति स्थितम्। वेदे भवा वैदिकाः, अध्यात्मादित्वाठ्ठञ्। एवं लोके भवा लौकिकाः। यद्वा लोके विदिता लौकिकाः ``तत्र विदित इति वर्त्तमाने ``लोकसर्वलोकाट्ठञ। प्रातिशख्योष्विव न वैदिकैकदेशमात्रमिह विषयः। न वा व्याकरणान्तरेष्विव छान्दसपरित्याग इति सूचयितुमुभयोपादानम् ।।
।। इति विषयनिरूपणम् ।।

   स्यादेतत्तू, गौरित्यादिः शब्द इह विषयः। तत्र च गकार औकारो विशर्गश्च घटकः। व्युत्पाद्यते तु डोप्रत्ययसुप्रत्ययर्वादेशादिकम्। न चैतद्गौरिति बोधे भास्ते। तथाचार्थान्तरता। गौरित्यनेन परिनिष्ठितेन सह डोप्रभृतीनां सम्बन्धविशेषस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनामिति चेत् ? न, शब्दान्तरव्यावृत्तस्य सम्बन्धस्य उपयोगस्य च दुर्वचत्वात् द्रव्यगुणादिपदार्थानामिह प्युत्पाद्यतापत्तेश्च। अस्ति हि तेषां गौरित्यनेन वाच्यवाचकभावादिः सम्बन्धः। अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्त्याश्यसम्बन्धेन शब्दो विशेषणतया भासते। चाक्षुषबोधेऽपि व्यक्तया स्मारितः शब्दो विशेषणमित्यभ्युपगमः। आह च---
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानां सर्वं शब्देन भासते ।।
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।। इति ।।
यत्संज्ञास्मरणं तत्र न पदप्यन्यहेतुकम् ।।
पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ।।
इति च।
   युक्तं चैतत्, गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थेन शब्दस्यापि स्मरणे बाधकाभावात्। अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणत्वाविशेषात्संसर्गोऽपि तादात्म्यमेवास्तु। एवं गोगुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयेन ``अथ गौरित्यत्र कः शब्दः इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभेदो भाष्यकृद्भिराशङ्क्य निराकृतः। तत्र निराकरणग्रन्थस्यायमाशयः--समसत्ताकभेदाभेदौ विरुद्धावेव। अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्तिव्यवस्था न स्यात्, न स्याच्च भेदग्रहाद् भ्रमनिवृत्तिः। जातिव्यक्त्यादिसम्बन्धस्त्वतिरिक्त एवेति। एवमेव शब्देनापि सहास्त्येव सम्बन्धो द्रव्यादीनामिति स्थितम्। अस्ति च द्रव्यादिव्युत्पादनस्य प्रकृते उपयोगोऽपि। अस्मिन्नर्थेऽयं साधुरित्यर्थाविशेषं पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात्। अत एव वाजिनि दरिद्रे च क्रमेण अश्र्वशब्दौ अस्वशब्दश्च साधुर्व्युत्क्रमेण त्वसाधुरिति सिद्धान्तः।
ननु यथा वैशेषिकादीनामेतच्छास्त्रसिद्धमेव प्रकृतिप्रत्ययविभागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः, प्रकृतिप्रत्ययादिविचारस्तु क्वाचित्कः प्रासङ्गिकस्तथेहापि लोकप्रसिद्धं दर्शनान्तरसिद्धं च पदार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यते इति चेत् ? अस्तु तावदेवं, ततापि डोप्रभृतिव्युत्पादनं निष्फलमेव; इति चेत् ? अत्रोच्यते, गौस्तिष्ठति देवदत्तः पचतीत्यादयः शृङ्गग्राहिकया तावज्जन्मसहस्रणापि बोधयितुं बोद्धुं चाशक्याः, आनन्त्यात्। अतः प्रकृतिप्रत्ययविभागक्लपनारूपो लघुभूत उपायः समाश्रीयते लिपिवत्। आरोपित एव च तत्र सम्बन्धः। प्रसिद्धो हि स्थूलारुन्धतीशाखाचन्द्रादिन्यायो लोके, पञ्चकोशावतरणन्यायश्चोत्तरमीमांसायाम्। तात्पर्यविषयाबाधाच्च प्रामाण्यम्। एषैव ह्यर्थवादेष्वपि गतिः। आत्मवपोत्खेदनप्रभृतीनां बाधेऽपि तात्पर्यविषयीभूतस्य प्राशस्त्यस्याबाधितत्वात्। उक्तं च हरिणा---
उपायाः शिक्षमाणानां बालानामुपूलालनाः।
अस्त्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ।। इति ।।
उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः। इति च।
   अत एव हि केचित्सुप्रत्ययं विदधति, अपरे सिम्। तथा सूत्ररीत्या `पाठितम्' इत्यत्र इतप्रत्ययः, भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप् ``डावतावर्थवैशेष्यात् इति वार्त्तिकोक्तरीत्या डावतुरिति दिक्।
   एतेन `पचति' इत्यादौ आदेशैः स्मार्थमाणा लडादयो बोधका इति वदन्तः परास्ताः। तथा हि, वृद्धव्यवहाराच्छक्तिग्रह इति निर्विवादम्। ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति, न त्वलौकिकानां लादीनाम्। एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विचक्विबादिप्रत्ययाश्च न शक्ताः किन्तु अपाक्षीत् पपाच पापच्यते करोति चर्करीति इत्यादिप्रयोगसमवायिनः अपाक् पपाच् इत्यादय एव।
   श्रूयमाणेन डुपचष्प्रभृतीनां स्मरणं तेनार्थबोध इति चेत् ? न, लाघवलाद्व्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसम्बन्धकल्पनात्, औत्प्रेक्षिकस्य स्मरणकल्पने गौरवात्, अव्यवस्थापत्तेश्च। `पचति(1)देवदत्तः', `पचन्तं तं पश्य' इति तिप्शकृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधारधेयभावेन संसर्गेण देवदत्ते आख्यातार्थो यत्नो विशेषणमितरत्र तु अभेदेन सं सर्गेण कृदर्थः कर्त्ता विशेषणामिति त्वात्सिद्धान्तभङ्गापत्तेश्च। एतेन कर्त्रधिकरणे आख्यातार्थत्वं कर्तुर्निरस्य जञ्जभ्यमानाधिकरणे शानर्ज्थत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः।
   यत्तु तैरुक्तं शानजंशे `` कर्त्तरि कृत् इति व्याकरणं शक्तिग्राहकमस्तीति; तदप्यापाततः, कृद्वाक्यशेषोऽयमनिर्द्दिष्टार्थेषु ण्वुलादिषूपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकाङ्क्षत्वादिति वक्ष्यमाणत्वात्। आकाङ्क्षितविधानं ज्याय इति न्यायात्। अन्यथा क्रिय्माण इति कर्म्मणि शानचो दौर्लभ्यापत्तेश्च। किञ्च ``कर्त्तरि कृत् इति चत्कर्तृग्रहणं तदेव ``लः कर्मणि इत्यत्राप्यनुवृत्तं, तत्कथं कृतां तिङां च वैलक्षणयम् ? अन्यलभ्यत्वादेरुभयत्र साम्यात्।
   यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कर्त्ता वाच्य इत्युक्तम्, तत्तु पचतिकल्पं पचतिरुपं देवदत्त इत्याद्यनुरोधात्तिङ्क्ष्वपि तुल्यम्। तस्मात्पररीत्या न काश्चिच्छत्रन्तात्तिङन्ते वैषम्यहेतुः। अस्मद्रीत्या तु ``भावप्रवानमाख्यातं, सत्त्वप्रधानानि नामानि इति निरुक्तकारोक्तेः प्रत्ययार्थप्राधान्यमौत्सर्गिकं तिङ्षु त्यज्यते, `प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् इति सूत्राच्च। शतृशानज्विधौ रूपविधौ च भाष्येऽपि स्फुटमतेत्। `पाचको व्रजति' इतिवत् `पचतिव्रजति' इति प्रयोगेऽप्यत एव नोपपद्यते, पचतोरूपं पचन्तिरूपमित्यादौ रूपबाद्यन्ते द्विवचनादिकञ्च न भवति। तस्मात्तिङ्षु कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते।
   यत्तु भट्टै--कर्त्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेः ``द्व्येकयोः इत्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तुर्वाच्यता सूत्रादायातीति, तदप्यापाततः। द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विदिना ``द्व्येकयोः इत्यस्य एकवाक्यता, न च तत्र कर्त्तरीत्यस्ति, यद् द्वित्वादिविशेषणतया कथञ्चिद्योज्येत। लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत् ? सत्यम्, वाक्यैकवाक्यता सा, न तु पदैकवाक्यता आदेशविधेर्लविधिलभ्यलकारानुवादेन प्रवृत्तेः। लविधौ कर्तृग्रहणम्। स च द्विवचनादिसंज्ञाविनिर्मुक्त एव। अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिभानायाऽऽदेशा एव शरणीकर्तव्याः। एवं णलादौ तिबादीद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम्। न च परम्परासम्बन्धेन णलेव बोधकः, वृत्तिशून्यत्वात्। अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक्।
   तस्मात् ``पूर्वत्रासिद्धम् इत्यादौ यथा आहार्यारोपेणैव व्याख्यानं सर्वसंमतं तथा सास्त्रीयप्रक्रियायां सर्वत्र।
   वस्तुतस्तु वाचकता स्फोटैकनिष्ठा। तत्र चाष्टौ पक्षाः--वर्णस्फोटः 1, पदस्फोटः 2 , वाक्यस्फोटाः 3, अखण्डपदस्फोटः 4, तादृग्वाक्यस्फोटः 5, इत्थं पञ्च व्यक्तिस्फोटाः, वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोट इति। तथा हि, किञ्चिद्वर्णव्यत्यासादिना शक्ततावच्छेदकानुपूर्वीभङ्गस्य प्रतिपदमैत्सर्गिकत्वात्तत्र च केनचित्क्वचित्प्रथमं शक्तिग्रहात्केन कस्य स्मारणमित्यत्र विनिगमनाविरहादृषभो वृषभो वृष इत्यादाविव कर् कार् कुर् चकर् इत्यादीनां प्रयोगसमवायिनां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छइन्नानां वाचकतेति वर्णस्फोटपक्षः। कर्प्रभृतयो वाचका न वेति चेह विप्रतिपत्तिशरीरम् ।। 1 ।। `रामं रामेण रामाय हरये हरौ हरीन्' इत्यादौ परिनिष्ठिते रूपे कियानांशो द्रव्यादिवाचकः कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमशक्यतया राममित्यादिपरिनिष्ठतं पदमेव वाचकं कर्मत्वादिविशिष्ठस्येति पदस्फोटपक्षः ।। 2 ।। दधादं, हरेव, विष्णोव, इत्यादावपि विनिगमनाविरहतौल्याद्वाक्यमेव विशिष्टार्थे शक्तमिति वाक्यस्फोटः ।। 3 ।। एकः पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अख्ण्डं वर्णव्यङ्ग्यम्। एकत्वप्रतीतिरौपाधिकीति चेत् ? पटेपि तथात्वापत्तेः ।। कः पदार्थोसाविति चत् ? भावः। भावविशेषेषु क्वान्तर्भवतीति चेत् ? त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत्। नह्येतावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यते। आनियतपदार्थवादे गौरवमिति चेत् ? व्यक्तीयत्ता तवापि नास्ति। उपाधीयत्ता तु सर्वैः सुवचा। भावत्वाभावत्वाभ्यां नित्यत्वानित्यत्वादिना वा विभजनात्। भावविभाजकोपाधयस्तु घटविभाजकोपाधिवदेवाऽनावश्यकाः। अस्मिंश्च पक्षद्वये वर्णा अप्यनावश्यकाः। नन्वनुभवसिद्धास्ते इति चेत् ? व्यञ्जकघ्वनिविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवहियते इत्यभ्युपगमात्। भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विषयसंबन्धजन्यवृत्तिवैचित्र्येण व्यङ्ग्ये स्वरूपसुखे वैचित्र्यवच्च। अतएव वाचस्पतिमिश्रास्ततत्वबिन्दौ ``वस्तुतः ककारादतिरिच्यमानमूर्त्तेर्गकारस्याभावात् इति स्फोटवादिमतमुपन्यास्थत्। यथा वा अखण्कडेष्वपि ऋकारादिषु वर्णेषु वर्णान्तरसमानाकारैकदेशावभासः, तथाऽत्र पक्षे वर्णावभासोऽपि भविष्यति। उक्तं च बोपदेवेन----
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम्।
औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ।। इति ।।
   भर्त्तृहरिरप्याह---
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।। इति ।।
   तस्मादखण्डं पदं वाक्यं वेति ।। 5 ।। पञ्चापि व्यक्तिस्फोटावान्तरभेदाः।
   जातिस्फोटवादिनस्तु घोत्तरटत्वादिकं शक्ततावच्छेदकतया आद्यपक्षत्रयेऽपि यथाययं वाच्यम्। अन्यथा सरो रस इत्यादावर्थविशेषप्रतीत्यनापत्तेः। तच्च उपाधिरूपम्। उपाधिश्च परम्परासंबद्धा जातिरेव। सा च सर्वाधिष्टानब्रह्मस्वरूपात्मिका। तथा च शक्यांश इव शक्तांशेऽपि न्यायसाम्येनाकृत्याधिकरणरीत्या ब्रह्मतत्त्वमेव तत्तदुपहितं वाच्यं वाचकं च। अविद्यविद्यकधर्मविशेषो वा जातिरिति पक्षे तु सैव वाचिकाऽस्त्वित्याहुः ।। 6 ।।
   अष्टावप्येते पक्षाः सिद्धान्तग्रन्थेषु तत्रतत्रोपनिबद्धाः। तथा हि, स्थानिवत्सूत्रे ``सर्वे सर्वपदादेशाः इतिभाष्यग्रन्थः। पद्यतेऽर्थोऽनेनेति अर्थवदिहीपदं न तु सुप्तिङन्तमेव। तथाच ``एरु इत्यस्यतेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेऽनुकूलः। तथा स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वमिति स्थानेन्तरतमपरिभाषयैव ``तस्थ स्थमिपाम् इत्यादिषु निर्वाहात्तदर्थं यथासंख्यसूत्रं नारब्धव्यमिति भाष्यमपि। पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके ``येनोच्चारितेन इति भाष्यप्रतीकमुपादाय कैयटेन भाष्यर्थतया वर्णितौ। वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वेति वदता तयोरखण्डताप्युक्ता। ``नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यम् इति तत्रतत्र भाष्ये सखण्डतोक्ता।
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु।
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ।।
  इत्यमरः। पस्पशायामेव प्रघट्टकान्तरे ``किंपुनः इत्यादि भाष्यमुपादाय `केचिद्वर्णस्फोटमपरे पदस्फोटं वाक्यस्फोटं चाहुः' इति वदता कैयटेन `` अइउण् इत्यत्र व्यक्तिस्फोटजातिस्पोटयोर्बलाबलं चिन्तयता प्रत्याहारान्हिकान्ते ``अक्षरं न क्षरं विद्यात् इति भाष्यव्याख्यावसरे व्यवहारनित्यता तु वर्णपदवाक्यस्फोटानां, नित्यत्वं तु जातिस्फोटस्येति प्रतिपादयता, अनुपदमेव ब्रह्मतत्त्वमेव हि शब्दरूपतया प्रतिभतीत्यर्थ इति व्याचक्षाणेन सर्वे पक्षाः सुचिता एव। यदा तु अविद्यैव जातिरिति पक्षस्तदभिप्रायेण जातिस्फोटस्यापि व्यवहारनित्यतेति ``अक्षरं न क्षरं विद्यात् इत्यस्य कैयटीये पाठान्तरम्। ``आद्यन्तौ टकितौ इतिसूत्रे च भाष्य एव वर्णस्फोटपदस्फोटावुक्तौ। असत्यमेव प्रकृतिप्रत्ययविभागं तदर्थं चाश्रित्य रेकागवयन्यायेन सत्यस्य पदस्फोटस्य व्युत्पादनमभिप्रेतमिति तत्रैव कैयटः। ``अर्थवदधातुः ``स्वं रूपं शब्दस्य ``तपरस्तत्कालस्य इत्यादिसूत्रेष्वपि स्पष्टमिदं भाष्यकैयटादावित्यलं बहुना। जातेश्च ब्रह्मात्मकत्वमुक्तं हरिणा----
सम्बन्धिबेदात्सत्तैव भिद्यमाना गवादिषु।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।। इति ।।
   जातेः स्फोटत्वमपि प्रघट्टकान्तरे स एवाह----
अनेकव्यत्त्यभिव्यङ्ग्या जातिः स्फोटे इति स्मृता।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पितः ।। इति ।।
   यद्यपीहाष्टौ पक्षा उक्तास्तथापि वाक्यस्फोटपक्षे तात्पर्यं ग्रन्थकृताम्। तत्रापि जातिस्फोटे इत्यवधेयम्, पृर्वपूर्वोपमर्द्देनैवोत्तरोत्तरोपन्यासात्। तथाच प्रथमव्युत्पत्तेर्व्यवहाराधीनतया संपूर्णस्य वाक्यस्य विशिष्टे प्राथमिकः शक्तिग्रह इति निर्विवादम्। स चावापोद्वापाभ्यामवयवानां शक्तिरिति न्यायोपष्टम्भेन त्यज्यत इति दर्शना न्तराणां पन्थाः। एकादेशादिस्थले उक्तरीत्या विनिगमनाविरहेण कैश्चित्पररूपादिस्थले पूर्वलोपाद्यभ्युपगमेन च व्याकरणानां कलहे सति अवयवशक्तेर्दुरुपपादतया प्राथमिकशक्तिग्रह एव प्रमारुप इति तु सैद्धान्तिकः पन्थाः। उक्तं च हरिणा---
तत्र यन्मुख्यमेकेषां तत्रैतेषां विपर्ययः ।। इति।।
ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ।। इति च ।।
   एवंस्थिते निपाता द्योतका विकरणा अनर्थका इत्यादिविचारोऽपि प्रक्रियादशायामेव। आह च---
अकडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम्।
धातूपसर्गयोः सास्त्रे धातुरेव तु तादृशः ।। इति ।।
   तादृशोऽखण्कड इत्यर्थः। एवञ्च `नामार्थयोरभेद एव संसर्गः' `प्रत्ययार्थः प्रधानम्' इत्यादिव्युत्पत्तयोऽपि प्रक्रियाश्रया एव। उक्तं च----
किंगर्भजन्ये किंगर्भ कीदृग्भातीति नो मते।
विचारः फलितः सर्वः प्रकृतिप्रत्ययाश्रयः ।। इति ।।
   आरोपितस्यापि पारमार्थिके उपायता न विरुद्धा। लिपिस्थूलारुन्धतीशाखाचन्द्रादीनां लौकिकदृष्टान्तानामर्थवादवाक्यापञ्चकोशावतरणादीनां तन्त्रान्तरसिद्धानां पूर्वत्रासिद्धादीनां चैतच्छास्त्रसिद्धानां प्रागेव दर्शितत्वात्। तदेवं पक्षभेदेन अविद्यैव ब्रह्मैव वा स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोट इति स्थितम्। आह च----
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते। इति।
समारम्भस्तु बावानामनादि ब्रह्म शाश्वतम्। इति च।
   तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामणिं लब्धवानिति वासिष्ठरामायणोक्ताभाणकन्यायेन शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादद्वैते औपनिषदे ब्रह्मण्यपि व्युत्पद्यतामित्यभिप्रायेण भगवान्भर्तृहरिर्विवर्त्तवादादिकमपि प्रसङ्गाद् व्युदपादयत्, तत्तु तन्त्रान्तरे स्फुटं प्रकृते नातीवलोपयुक्तं चेति नेह तन्यते ।
इति स्फोटस्वरूपव्युत्पादन्म् ।।

   स्यादेतत्, चं लिख चकारस्त्रुटित इत्यादिव्यवहाराल्लिपावेव शब्दभ्रमवतां तत्रैव वाचकत्वाभिमानजुषां बालानां पुस्तकमुपयुज्यते यथा, तथैव भेदग्रहवतामपीति वस्तुस्थितिः। एवमिहापि प्रकृत्यादिविभागेपारमार्थिकत्वाभिमानवतामपि उपयुज्यते एव सास्त्रं तत्किमर्थं कल्पनाव्युत्पादनक्लेशः। अत एव हि भाष्यकारोऽपि शब्दो नित्योऽनित्यो वेति विकल्प्य उभयथापि व्याकरणारम्भस्य निष्प्रत्यूहत्वाद्यथातथास्त्वित्युदासिष्यतेति चेत् ? सत्यं, व्युत्पत्त्यर्थं वस्तुस्थइतिः कथिता। पक्षभेदेषु हि गौणमुख्येषु व्युत्पादितेषु तत्र परस्परविरुद्धतया भास्माना अपि सिद्धान्तग्रन्था व्यवस्थापयितुं शक्यन्ते। स्वार्थद्रव्यादीनां पञ्चनां क्रमेण भानमित्यादिवक्ष्यमाणमपि कल्पनयैवोपपादयितुं शक्ष्यते इति दिक्।
   नन्वस्तु साधुशब्दो विषयः, अस्तु च प्रकृतिप्रत्ययादिकल्पनया तद्व्युत्पादनोपपत्तिः, तथापि व्याकरणाध्ययनस्यानुष्ठापकं किमिति चेत् ? नित्याध्ययनविधइरिति गृहाण। श्रुयते हि ``ब्राह्म्णेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति। निष्कारणो दृष्टकारणनिरपेक्षो नित्य इति यावत्। कार्यतेऽनुष्ठाप्यतेऽनेनेति कारणं फलम्। ब्राह्मणेन षडङ्गो वेदोऽद्येयो ज्ञेयश्चेत्यन्वयः। तथाच साङ्गवेदाध्ययनतदर्थज्ञ्ानरुपोऽयं धर्मो नित्यः सन्ध्योपासनादिवदित्यर्थः। श्रुतिरेषेति हरदत्तादयः। स्मृतिरिति तु भट्टाचार्याः। तत्र यदि स्मतिरेवेति प्रामाणिकं तर्हि ``आगमः खल्वपि इति भाष्येप्यागममूलकत्वादागमः स्मृतिरेविति व्याख्येयम्। अङ्गत्वं चाङ्गत्वेन संस्तवात्। उक्तं हि शिक्षायाम्---
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते।
निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ।।
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते ।। इति ।।
   उपकारकतयाऽप्यङ्गत्वम्। व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते। ज्योतिषमपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेषं प्रतिपादयति। निरुक्तं तु व्याकरणस्यैव परिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां प्रायशस्तत्र सङ्ग्रहात्। छन्दोविचितिरपि गायत्र्यादिलक्षणद्वारा गायत्र्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते। शिक्षापि वर्णोच्चारणप्रकारं दर्शयति। कल्पसूत्राण्यपि प्रकरणान्तरपठितस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयोगं दर्शयन्ति। तस्मात्षडङ्गानि। तेष्वपि प्रधानं व्याकरणम्, पदपदार्थावगमस्य व्याकरणाधीनत्वात्; वाक्यार्थज्ञानस्य तन्मूलकत्वात्। अत एव तस्य शिक्षायां मुकत्वेन निरूपणं कृतम्। मन्वादिस्मृतिष्वपि अङ्गाध्ययनविधयः प्रसिद्धा एव। तथा चाध्ययनविधिर्व्याकरणाध्ययनस्यानुष्ठापक इति स्थितम्। तथाच सन्धअयोपासनादेरभावे प्रत्यवायोऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्टाने च बोध्यम् ।
   रक्षाप्रभृतीनि फलान्तराण्यपि सन्ति। तथा च बाष्यम्--``कानि पुनरस्प प्रयोजनानि। रक्षोहागमलघ्वसन्देहाः प्रयोजनम् इति। अत्र प्रयुज्यते प्रवर्त्यतेऽनेनेति करणल्युडन्तः प्रयोजयतीति कर्तृव्युत्पत्त्या बाहुलकात्कर्तृल्युडन्तो वा, उभयथापि प्रवर्त्तकविधिपरः पुल्लिङ्गः प्रयोजनशब्द एकः। फलपरः क्लीबोऽपरः। उभयोः ``नपुंसकम् इति नपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम्। तत्र आगमः प्रवर्त्तकः, रक्षोहलाघवासन्देहास्तु फलानीति विवेकः। तत्र प्रवर्त्तक आगमो व्याख्यातः। फलानि व्याख्यायन्ते ।
   तत्र रक्षा वेदसंरक्षणम्। तथाहि, भाषायमदृष्टा लोपगमवर्णविकाराश्छन्दसि दृश्यन्ते। ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्येरन्। वैयाकरणस्तु लक्षणदर्शी तदेव रूपं स्थापयति।
   तत्र लोपोदाहरणम्--त्मना देवेषु विविदे मितद्रुः। त्मना आत्मनेत्यर्थः। ``मन्त्रेष्वाङ्‌यादेरात्मनः इत्याकारलोपः।
   आगमो यथा--देवासः, ब्राह्णणासः। ``आज्जसेरसुक् इत्यसुगागमः।
   लोपागमौ यथा--देवा अदुह। अदुहतेत्यर्थः। दुहेर्लङो झस्यादादेशे कृते `` लोपस्त आत्मनेदेषु इति तलोपः, ``बहुलं छन्दसि इति रुडागमः। एतेन `नाशिरं द्रुहे' `विश्वा इत्ते' `छेनवो दुह्रे' इत्यादिलडन्तमपि व्याख्यातम्।
   वर्णविकारो यथा--गृभ्णामि ते सौबगत्वाय। ``हृग्रहोर्भश्र्छन्दसि ``हस्येति वक्तव्यम् इति भकारः।
   प्रत्ययोऽपि छान्दसोस्ति। यथा--उद्ग्राभं च निग्राभं चेति। ``उदिग्रह इतिसूत्रे ``उद्ग्राभनिग्राभौ च च्छन्दसि स्रुगुद्यमननिपातनयोः इति वचनादुन्निपूर्वाद्ग्रहेर्घञ्। तत्र उत्पूर्वात्सूत्रेण लोकेऽपि सिद्धो घञ्। निपूर्वात्तु वार्तिकोक्तश्छन्दस्येव। सन्निवेशविशेषयुक्ताः पात्रविशेषाः स्रुचः। इह तु जुहूपभृतोरेव ग्रहणम् ``उद्गाभं चेति जुहूमुद्यच्छति, निग्राभञ्चेत्युपभृतं नियच्छति इति वचनात्। भकारादेशः प्राग्वत्।
   ऊहोऽपि प्रयोजनम्। तथाहि, यत्राह्घजातं सम्पूर्णमुपदिष्टं सा प्रकृतिः।यथा--दर्शपूर्णमासौ। यत्र नोपदिष्टं सा विकृतिः यथा--``सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः इति विहितो यागः। अत्र वैकृतस्य विधेर्विशयभूतायां भावनायां करणीभूते यागे उपकारकाकाङ्क्षायां तन्मुखेन प्राकृतमङ्गजातं प्राप्यते। वैदिके करणे तादृशानामेवाङ्गानामपेक्षितत्वात्। तेषामेव प्रकृतौ क्लृप्तसामर्थ्यात्। तद्विशेषस्य् चैकदेवतात्वादिना शक्यज्ञानत्वात्। तस्मात् ``प्रकृतिवद्विकृतिः कर्त्तव्या इति पूर्वमीमांसायां स्थितम्। तत्र यस्याङ्गस्य प्रकृतौ य उपकारः क्लृप्तस्तस्य विकृतावसंभवे निवृत्तिः। यथा प्रकृताववघातस्य वैतुष्यमुपकारतया कलृप्तं तस्य कृष्णलेष्वसंभवादवघातस्य निवृत्तिः। मन्त्रा अप्यङ्गम्। तेषां चानुष्ठेयार्थप्रकाशनं कार्यम्। तत्र प्रकृतौ यस्य मन्त्रस्य यदभिधेयं तच्चेद्विकृतौ साकल्येन नास्ति तदा कृत्स्नस्य मन्त्रस्य निवृत्तिः। यथा-- ``अवरक्षो दिवः सपत्नं वध्यासम् इत्यवघातमनत्रस्य कृष्णलेषु। यस्य त्वेकदेशस्याभिदेयं नास्ति तस्य तावन्मात्रं निवर्तते। यथा--``अग्नये त्वा जुष्टं निर्वपामि इत्यस्य मन्त्रस्यावयवभूतं देवताभिधायि पदमौषधद्रव्यकत्वेन एकदेवताकत्वेन चाग्रनेयविकारभूते देवताभिधायि पदमौषधद्रव्यकत्वेन एकदेवताकत्वेन चाग्नेयविकारभूते सौर्ये निवर्त्तते अग्निशब्दे च लुप्तद्वारकतया निवर्तमाने एकारोऽपि निवर्त्तते। अकारान्तेतरप्रकृतिसन्निधानेनैव हि एकारस्य सम्पदानं वाच्यम्, अकारान्तात्तु यशब्दस्य। ततश्चतुर्थ्यन्तसूर्यायेत्याद्युदात्तमग्नय इत्यस्य मध्योदात्तस्य स्थाने ऊह्यम्। सोऽयं प्रकृत्यूहः।
   लिङ्गस्य क्वचिदूहः। यथा--``देवीरापः शुद्धाः स्थ इत्यप्सु विनियुक्तो मन्त्रः। तस्याज्ये ऊहः देवाज्यशुद्धमसीति।
   प्रत्ययमात्रस्य क्वचिदूहः। यथा--``मा भेर्मा संविक्थाः इति पुरोडाशेऽवदानमन्त्रः। तस्य धानासूहः--``माभैष्ट मा संविजिध्वम् इत्यादिरिति हरदत्तादयः। याज्ञिकास्तु संविग्ध्वमित्यूहमाहुः। युक्तं चैतत्, प्रकृतावनिट्कतया ``विजिर् पृथग्भावे इत्यस्य प्रयोगो न तु ``ओविजी भयचलनयोः इत्यस्येत्यवधारणात्।
   लाघवमपि प्रयोजनम्। तताहि, अध्यापनं ब्राह्मणस्यवृत्तिः। तन्निर्वाहश्च वैदुष्याधीनः। वैदुष्यं च साध्वसाधुविवेकः। स च न प्रतिपदपाठादिना सम्भवति, शब्दानामानन्त्यात्। तस्मादुत्सर्गापवादरूपलक्षणद्वारा तद्बोधने लाघवम्। अन्यथा तु गौरवम्।
   असन्देहोऽपि प्रयोजनम्। तथाहि, ``स्थूलपृषतीमनड्वाहामालभेत इति श्रूयते। तत्र सन्देहः--कर्मधारयोऽयं बहुव्रीहिर्वेति। तत्र कर्मधारयपक्षे पृषतीशब्देन मत्वर्थलक्षणया पृषतत्तवती बिन्दुमती गौरेवाभिधीयते, स्थूलापि सैव, बिन्दूनां स्थौल्यं तानवं वा यथा तथाऽस्तु। बहुव्रीहौ तु स्थौल्यं पृष्त्स्वेवेति। गौस्तु स्थूला कृसा वेत्यत्रानादरः। तत्र लकाराकारे उदात्तत्वं दृष्टा पूर्वपदप्रकृतिस्वरेण बहुव्रीहिं वैयाकरणो निश्चिनोति। ततश्च निश्चयेन प्रतिबन्धात्संशयानुत्पादः। स एवासन्देहः। अर्थाभावेऽव्ययीभावादसन्देहमिति स्यादिति चेत् ? न, पर्यायेणाव्ययीभावतत्पुरुषसंज्ञाद्वयमपीह भवतीति द्वितीये उपपादयिष्यमाणत्वात्। अत एवोभयथा मुनिप्रयोगः--अद्रुतायामसंहितमिति, अथासंहितयेति च। एवं ``इन्द्रपीतस्योपहूतो भक्षयामि इत्यादावपि स्वरेणैव बहुव्रीहिनिर्णये हन्द्रपीताधिकरणमवैयाकरणान्प्रति सार्थकम्। कृत्वाचिन्तान्यायेन वा नेयमिति दिक् ।
   तदेवं रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि व्याख्यातानि। आगमस्तु प्रवर्तक इत्युक्तम्। भाष्ये तु सन्दर्भसुद्ध्यर्थं फलचतुष्टयस्य प्राक् पश्चाद्वा प्रवर्त्तके वक्तव्ये मध्ये तदुक्त्या फलसन्दंशेन नित्यानामपि फलपर्यवसानमस्तीति सूचितम्। फलं तु पापक्षयः प्रत्यवायानुत्पत्तिर्वा, ``धर्मेण पापमपनुदति ----
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृव्छति ।।
   इत्यादिवचनानीह साधकानीति दिक्।
   ``इमानि च भूयः इत्यादिभाष्येण प्रवर्त्तकवचनान्तराणि उदाहृत्य व्याख्यातानि। तद्यथा--``तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः इति ब्राह्मणम्। अत्र न म्लोच्छितवै एतस्य विवरणं नापभाषितवै इति। उभयत्रापि ``कृत्यार्थे तवैकेन्केन्यत्वनः इति तवैप्रत्ययः। थातूनामनेकार्थतया निन्दावचनान्म्लेच्छदातोः कर्मणि घञ्। तेनापशब्दसामानाधिकारण्यं न विरुध्यते। अत्र `न म्लेछितव्यम्' इति निषेधस्य ``तेऽसुराः इत्यर्थवादः। न चेह रात्रिसत्रन्यायेन आर्थवादिकं फलमास्त्विति वाच्यं, ``द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् इति न्यायेन अपापश्लोकश्रवणवत्प्राशस्त्यमात्रपरत्वात्। प्रकरणात्क्रत्वङ्गो ह्ययं निषध इति ``यर्वाणस्तर्वाणो नाम इत्यादावुत्तरग्रन्थे भाष्यकारैरेव स्फुटीकरिष्यते। अत एव इहापि पराभूता मा भूमेत्यध्येयं व्याकरणमिति नोपसंहृतं, किन्तु म्लेच्छा माभूमेत्येव। म्लेच्छा निन्द्याः, शास्त्रबोदितविपरीतानुष्ठानादिति भावः। अत्र ``हैहेप्रयोगे हैहयोः इति प्लुते प्लुतत्वप्रयुक्ते प्रकृतिभावे च कर्त्तव्ये तदकरणं म्लेच्छनमित्त्येके। ननु ``सर्वः प्लुतः साहसमनिच्छता विभाषा कर्त्तव्यः इति भाष्यकृता वक्ष्यमाणत्वान्नैष दोष इति चेत् ? सत्यम्, अत एवापरितोषाद् `वाक्यद्विर्वचनं म्लेच्छनम् ' इत्यपरैर्व्याख्यातम्। ``सर्वस्य द्वे इत्यत्र पदग्रहणस्य चोदितत्वादिति तेषां भावः।
   ननु नेदं शास्त्रीयं द्विर्वचनं किन्तु तात्पर्यद्योतनार्थमैच्छिकः पुनः प्रयोगः `अनावृत्तिः शब्दादनावृत्तिः शब्दात् ' इतिवदिति चेत् ? तर्ह्याम्रेडितस्वरानुपपत्तिः। यदि तु तत्राम्रेडितस्वरविनिर्मक्त एव पाठस्तर्हि अरिशब्दे रेफस्य लत्वमपशब्द इत्यवर्धयम्। इदं च भाष्यादिषु प्रसिद्धं श्रुतिपाठमुसृत्य व्याख्यातम्। अयं च पाठः क्वचिच्छाखायामन्वेषणीयः। माध्यन्दिनानां शतपथब्राह्मणे तु ``हेलवो हेलव इति वदतः इति पठित्वा ``तस्माद् ब्राह्मअणो न म्लेच्छेत् इति पठ्यते। तत्र यकारस्थाने वकारोऽपशब्द इति स्पष्टमेव।
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्तियथेन्द्रसत्रुः स्वरतोपराधात् ।। इति ।।
   स्वरेण स्वरतः ``हीयमानपापयोगाच्च इति तसिः। मिथ्याप्रयुक्तः यदर्थप्रतिपादनाय प्रयुक्तस्ततोऽर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन् अत एव तमर्थं नाहेत्यर्थः। वागेव वज्रः हिंसकत्वात्। यजमानं हिनस्तीति। यथाध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः एवमध्वर्युकृतादपशब्दप्रयोगाद्यजमाने प्रत्यवाय इत्यर्थः। यथेत्युदाहरणे। इन्द्रशत्रुः इन्द्र शत्रुशब्दः। पुरा किल विश्वरूपाख्ये त्वष्टुः पुत्रे इन्द्रेण हते सति कुपितस्त्वष्टा इन्द्रस्य हन्तारं वृत्राख्यं पुत्रान्तरमुत्पिपादयिषुराभिचारिकं यागं कृतवान्। तत्र च इन्द्रस्य शातयिता शत्रुः हिंसक इति यावत् तथाभूतः सन् वर्धस्वेति प्रतिपादितुं `इन्द्रशत्रुर्वर्धस्व' इति प्रयुक्तम्। ण्यन्ताच्छदेरौणादिकः क्रुन्प्रत्ययः। प्रज्ञादिगणे निपातनाद् ह्रस्वः। इन्द्रशत्रुत्वस्य विधेयत्वान्न सम्बोधनविभक्तिः तस्या अनुवाद्यविषयकत्वात्। अत एव राजन् युध्यस्व राजा भव युध्यस्वेत्यनयोर्व्यवस्थयैव प्रयोगः। राजत्वस्य सिद्धत्वे सम्बोधनविभक्तिर्न तु विधेयत्वेऽपीति। एवं स्थिते इन्द्रशत्रुशब्दे तत्पुरुषसमासप्रयुक्तेऽन्तोदात्ते वक्तव्ये प्रमादादाद्युदात्तः किलोक्तः। तथाच पूर्वपदप्रकृतिस्वरेण बहुव्रीह्यर्थो लब्धः। इन्देर्हि धातोरौणादिके ``ऋज्रेन्द्र इत्यादिना रन्प्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादितः। तेनेन्द्र एवास्य हिसकः सम्पन्न इति श्रुतीतिहासपुराणादिषु प्रसिद्धम्। तदिहोदाहरणतयोक्तम् ।
   स्यादेतत्, ``यज्ञकर्मणि इत्येकश्रुत्येह भवितव्यम्। सा च तत्पुरुषबहुव्रीह्योरविशिष्टेति। अत्राहुः--जपादिपर्युदासेन मन्त्रेष्वेव एकश्रुतिर्विधीयते। स्वेच्छया प्रयुज्यमानश्च मन्त्रो न भवति। तदुक्तं भेदलक्षणे जैमिनिना--``अनाम्नातेष्वमन्त्रत्वम् इति। अपस्तम्बश्चाहअनाम्नाता अमन्त्रा यथा प्रवरोहनामधेयग्रहणानि इति। अत एव ``मन्त्रो हीनः इति पाठस्य शिक्षायां प्रसिद्धत्वेऽपि ऊह्यमानस्यामन्त्र तया यथेनद्रशत्रुरिति वाक्यशेषोऽसङ्गतः स्यादतो मन्त्रशब्दः शब्दमात्रपर इत्याशयेन भाष्ये ``दुष्टः शब्दः इति पठितम्। ननु स्वाहेन्द्रशत्रुर्वर्द्धस्वेति वेदे पठ्यत एवेति ? सत्यम्, ऊहितं यदमन्त्रभूतम् अनुकार्यं तदनुकरणस्य पाठेऽपि अर्थपरस्यानुकार्यस्य लौकिकत्वानपायात्। नन्विन्द्रशत्रुशब्दस्य लौकिकत्वे कथं स्वरप्रयुक्तयोर्गुणदोषयोः प्रसक्तिः स्वरस्य वेदमात्रविषयकत्वादिति चेत् ? न, स्वरविधौ छन्दोधिकाराभावात्। एतावानेव हि भेदः--यच्छन्दसि त्रैस्वर्यमेकश्रुतिश्च व्यवस्थायाऽऽश्रीयते, लोके त्वैच्छिको विकल्पः। अत एव एकश्रुत्यासूत्रपाठस्त्रैस्वर्येण वेति पक्षद्वयमपि तत्रतत्रोपन्यस्तमिति वक्ष्यामः।
   नन्वेवं ``उच्चैसल्तरांवा इतिसूत्राद्विकल्पानुवृत्त्यैव सिद्धौ ``विभाषाछन्दसि इत्यत्र विभाषाग्रहो व्यर्थः स्यात्। प्रसज्यप्रतिषेधे तु नायं दोषः। यज्ञकर्मणीत्यस्य निवृत्तये पुनर्विभाषाग्रहणात्। न च पर्युदास पक्षेऽप्येवेमवास्त्विति वाच्यं, नित्याविकल्पविध्योर्विषयभेदस्यावस्य कतया आरम्भसामर्थ्यादेव तन्निवृत्तिसिद्धेः। प्रसज्यप्रतिषेधे तु नारम्भसामर्थ्यं, ऊहादिष्वमन्त्रेषु चरितार्थस्य पूर्वविधेरुत्तरेण छन्दोमात्रविषयकेण बाधसम्भवात्। न ह्यूहादीनां छन्दस्त्वमस्ति, मन्त्रब्राह्मणेतरत्वात्। तस्मादसमर्थसमासमाश्रित्यापि प्रसज्यप्रतिषेध एवागत्या स्वीकर्त्तुमुचित इति चेत् ? न, पर्युदासपक्षेऽपि मन्त्रे नित्यं ब्राह्मणे वेति विषयविभागसंभवेन यज्ञकर्मनिवृत्तये विभाषाग्रहणसम्भवात्। उक्तापरितोषादेव तु केचिज्जपादिषु प्रसज्यप्रतिषेधमाश्रित्य इहाप्येकश्रुतेः प्राप्तौ सत्यां तदकरणं बहुव्रीहिस्वरकरणं च स्वरतोऽपराधादित्यस्यार्थ इत्याहुः।
   श्रूयते च-----
यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्रनाविव शुष्कैधो न चज्ज्वलति कर्हि चित् ।।
   निगदेन पाठमात्रेण। शुष्कैध इति सान्तेन क्लीबेन एधस्शब्देन अकारान्तेन वा पुल्लिङ्गेन निर्वाह्यम्। न ज्वलति न प्रकाशते निष्फलं भवतीत्यर्थः। निरुक्ते तु--``अथापि ज्ञानप्रशंसा भवत्यज्ञाननिन्दा च इत्युपक्रम्य---
``स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्।
योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ।।
   इति मन्त्रमुदाहृत्य ``यद्गृहीतमविज्ञातम् इत्यादि पठितम्। तत्रापि गृहीतं शब्दतः, अविज्ञातं तु अर्थतः प्रकृतिप्रत्ययादिविभागेन वेत्यादि; शेषं प्राग्वत्।
   अन्यत्रापि श्रूयते--``एकः शब्दः सम्थक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवति इति। एतच्च ``एकः पूर्वपरयोः इति सूत्रे भाष्यकृद्वक्ष्यति। एकन्मूलकमेव कात्यायनप्रणीतेषु भ्राजाख्येषु श्लोकेषु स्मर्यते----
यस्तु प्रयुङ्क्ते कुशलो विषेषे शब्दान् यतावद्व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।। इति ।।
दुष्यतति चापशब्दैरित्यत्र अवैयाकरणः कर्त्ता सामर्थ्याद् बोध्यः।
   तथाः---
अविद्वासः प्रत्यभिवादे नाम्नो ये न प्लुनिं विदुः।
कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ।।
   अथमहमित्यस्य ``अनुकरणं चानितिपरम् इतिक गतिसंज्ञा। ततो गतिसमासेऽपि `अस्यवामीयम्' इत्यादाविवानुकरणत्वादेव विभक्तेर्लुङ् न ।
   याज्ञिकाः पठन्ति प्रयाजाः सविभक्तिकाः कार्या इति ।। यद्यपि प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते, तथापि यदि आधा नादनन्तरं यजमान उदरव्यथावान् स्याद्यदि वा संवत्सरमध्ये तस्य महती विपत्स्यात्तदा नैमित्तिकीं पुनराधेयेष्टिं विधाय तत्रेदमाम्नातं--``प्रयाजाः सविभक्तिकाः इति। तत्र केवलविभक्तेः प्रयोगानर्हत्वात्प्रकृतिराक्षिप्यते। सा चाग्निशब्दरूपा न तु या काचित्। निरुक्ते देवताकाण्डे-``अथ किंदेवताः प्रयाजानुयाजाः इतिक प्रश्नमवतार्य मन्त्रवर्णादीनुदाहृत्य ``आग्नेया इति तु स्थितिः इत्युपसंहारात्। तस्मादादितश्चतुर्षु प्रयाजेषु चतस्रो विभक्तयोऽग्निशब्दप्रकृतिकाः पठ्यन्ते इत्यादिश्रौतग्रन्थेषु द्रष्टव्यम्।
   तथान्यत्रापि ``यो वा हमा पदशः स्वरशोऽक्षरशो वाचं विदधाति स आर्त्विजीनः इति। पदंपदमिति ``संख्यैकवचनाच्च वीप्सायाम् इति शस्। स्वर उदात्तादिः। अक्षरं व्यञ्जनसहितोऽच्। ऋत्विजमर्हतीत्यार्त्विजीनो यजमानः, ऋत्विक्कर्मार्हतीत्यार्त्विजीनो याजकः, ``यज्ञर्त्विग्भ्यां घशञौ इतिसूत्रेण ``यज्ञर्त्विग्भ्वां तत्कर्मार्हतीति चोपसंख्यानम् इतिवार्त्तिकेन च खञ्। यजने याजने च विदुष एवाधिकार इति भावः।
   ऋग्वेदेऽपि बहरवो मन्त्रवर्णाः--चत्वारिशृङ्गा, चत्वारिवाक्, उतत्वः पश्यन्, सक्तुमिव, इत्यादयः। ``तितउ परिपवनं भवति इति भाष्यम्। ``चालनी तितउः पुमान् इति तु अमरस्य प्रमाद इत्येके। वस्तुतस्तूक्तभाष्यानुरोधादमरग्रन्थे पुसत्वायोगमात्रं व्यवच्छेद्यं न त्वन्ययोगोऽपि। तथा च पुंनपुंसकवर्गे--``स्याद्वास्तु हिंगु तितउ इति त्रिकाण्डशेषः। अत एव `तितउमाचष्टे तितापयति' इत्यभियुक्तग्रन्था अपि संगच्छन्ते इति दिक्।
   याज्ञिकाः पठन्ति--``आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीया सारस्वतीमिष्टिं निर्वपेत् इति।
   तथा--दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्याद्धोषवदाद्यन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनारिप्रातिष्ठितं तद्धि प्रतिष्ठिततमं भवति द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितमिति। नामकरणे अधिकारिणः पितुर्ये त्रयः पुरुषास्ताननु कायति अभिधत्ते इति त्रिपुरुषानूक्म्। ``अन्येषामपि दृश्यते इति दीर्घः। त्रिपुरुषेत्यत्र पात्रादित्वात्स्त्रीत्वाभावः, मूलविभूजादित्वात्कः। यत्तु उपपदाविपक्षया ``आतश्चेपसर्गे इति कं कृत्वा ततः षष्ठीतत्पूरुष इति, तत्तु ``कर्मण्यण् इति सूत्रे ``अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन इति वार्त्तिकस्य नदीसूत्रे स्त्रयाख्यावितिमूलविभुजादित्वात्क इति भाष्यस्य च अननुगुणम्। अत एव गङ्गाधरादिशब्दानां संज्ञाशब्दत्वमिति प्राञ्चः। वस्तुतस्तु प्रथमं कर्माविवक्षायामनूकपदं व्युत्पाद्य पश्चात्कर्मसम्बन्धेऽप्यदोषः। वार्त्तिकादिकं तु प्रथममेद कर्मविवक्षामभिप्रेत्य। अन्यथा कृतपूर्व्यादिषु का गतिः ? अत एव ``शक्यं च क्षुदुपहन्तुम् इति भाष्यव्याख्यायां बहिरङ्गस्त्रीत्वप्रतीत्या अन्तरङ्गः पदसंस्कारो न विहन्यते इति कैयटोपि वक्ष्यति। विवक्षा च लोकप्रसिद्ध्यनुसारिणी न तु स्वायत्तेति ``विपराभ्यांजेः इत्यादावपि पूर्वं धातुः साधनेन युज्यत इति पक्षमुपष्टभ्य विजयतीत्यादि नापादनीयमिति दिक्।
   तथा च ऋग्वेदे एव पठ्यते--``सुदेवो असि वरुण यस्य ते सप्तसिन्धवः। अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव इति। अस्यार्थः--हे वरुएण! सत्यदतेवोऽसि। यस्य ते काकुदं तालु काकुर्जिह्वा सा उद्यते उत्क्षिप्यतेऽस्मिन्निति काकुदम्। वदेरुत्क्षेपणमर्थो धातूनामनेकार्थत्वात्। ततो घञर्थे काविदानमित्याधिकरमे कः, सम्प्रसारणं, षष्ठीतत्पुरुषे शकन्ध्वादित्वात्पररूपम्। नुद प्रेरणे इत्यस्मादधिकरणे कः पृषोदरादित्वान्नुशब्दस्य लोप इत्यन्ये। निरुक्तस्वरसोऽप्येवम्। सप्तासिन्धव इव सिन्धवो विभक्तयः। अनुक्षरन्ति तालु प्राप्य प्रकाशन्ते इत्यर्थः। अत्र दृष्टान्तः--यता सच्छिद्रां लोहमयीं प्रतिमां प्रविशयाग्निः प्रकाशतेतथेति। अग्निर्हि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोऽपि शारीरं पापमपाकुर्वन्तीति भावः। सूर्मी स्थूणाऽयःप्रतिमेत्यमरः। स्मर्यते च---
सूर्मीं ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पगः। इति।
   ``अमि पूर्वः इत्यत्र ``वा छन्दासि इत्यनुवृत्तेर्यणादेशः। सुषिरामित्यत्रार्शआद्यच् अभेदोपचारो वेत्याहुः। वस्तुतस्तु ``ऊषसुषिमुष्कमधोरः इति मत्वर्थीयो रप्रत्ययः। ``रन्ध्रं श्वभ्रं वपासुषिः इत्यमरः ``सरध्रेसुषिरं त्रिषु इति च। सुष्टु स्यतीति सुषिरिति क्षीरस्वामी।
गर्त्ते गर्त्तान्विते वाद्ये विशेषे सुषिरं त्रिषु।
इति शाश्वतः ।।
इति प्रयोजनप्रपञ्चः ।।

   इत्येवं विषयप्रयोजनयोरुक्तयोः सम्बन्धाधिकारिणावुक्तप्रायावेवेति पृथङ्नोक्तौ।
   इह येन प्रयोजनं पृष्टं ततोऽन्य एव तटस्थ इत्थं प्रत्यवतिष्ठते। ननु यथा `अधीष्व' इत्याचार्येणोक्ते प्रयोजनप्रश्नमकृत्वैव वेदमधीयते, तद्वदङ्गभूतं व्याकरणमप्यध्येष्यन्ते तत्किं प्रयोजनवर्णनक्लेशेनेति ? अत्रेदमुत्तरम्, प्रायेणेदानीन्तनानामल्पायुष्कत्वाद्विघ्नबहुलत्वाच्च प्रधानभूतो वेदस्तावत्पाठ्यते। तदध्ययनकाले च बाल्यात्प्रयोजनादिकं प्रष्टुमसमर्थाः शिष्या गुरुणा उपदिश्र्यमानं वेदं गृह्णन्तीति युक्तम्। ततो गृहीतवेदाः प्रौढिमापन्ना विवाहार्थं त्वरमाणा व्याकरणाध्ययनाय गुरुणा प्रेर्यमाणा अपि न सहसा प्रवर्त्तन्ते। ``वेदान्नो वैदिकाः शब्दाः सिद्धालोकाच्च लौकिकाः, अनर्थकं व्याकरणम् इति प्रत्यवतिष्ठन्ते। तान्प्रतियुक्तमेव प्रयोजनादिवर्णनम्। पूर्वकल्पेषु व्याकरणशिक्षादीनि लक्षणानि प्रथमं पाठयित्वा तत्तल्लक्षणानुसन्धापनपूर्वकं लक्ष्यभूतं वेदं ग्राहयन्तःस्थिताः। तदा परं बाल्यावस्थायां व्याकरणपाठात्प्रयोजनप्रश्नविरहे तत्प्रतिपादनमपि न कर्त्तव्यमेवेति। यद्यपि---
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि।
युक्तश्छन्दांस्यधीयीत णासान्विप्रोऽर्द्धपञ्चमान् ।।
ततः परं तु छन्दांसि शुक्लेषु नियतः पठेत्।
वेदाङ्गनि रहस्यं च कृष्णपक्षेषु सम्पठेत् ।।
   इति मनुवचनस्य ``इत ऊर्ध्वमनध्यायेष्वङ्गान्यधीयीत इत्यादिस्मृत्यन्तराणां च पर्यालोचनया वेदवेदाङ्गाध्ययनसमकालता लभ्यते, तथापि ऋषिवचनत्वाविशेषाद्भाष्यकारोक्तेर्मानवादेश्च व्रीहियववद्विकल्प एवेति तत्त्वम्। तदेवमनुबन्धचतुष्टयस्य सुस्थात्वात्साधुशब्दव्युत्पादनं कर्त्तव्यमिति स्थितम् ।
   ननु किमिदं साधुत्वम्? साधयति बोधयतीति साधुरिति व्युत्पत्त्या बोधकत्वं तदिति चेत्? गाव्यादावपि तत्सत्त्वात्। शक्तत्वं तदिति चेत् ? न, `पचति' इत्यादौ विकरणानामसाधुतापत्तेः, तेषामनर्थकत्वात्; डुपचष् लट् इत्यादीनांसाधुतापत्तेश्च, लाक्षणिकेष्वव्याप्तेश्च तेषामपि लक्ष्येऽर्थे ऽशक्तेः। क्वचिच्छक्ततायास्तु अश्र्वास्वादिष्वतिप्रसक्तेः। वृत्तिमत्त्वं तदिति चेत् ? न, द्योतकेषु निपातेष्वव्याप्तेः । औपसंदानिकी शक्तिरेव द्योतनेति चेत् ? न, प्रोत्तरजित्वघोत्तरटत्वयोरविशेषेण विनिगमनाविरहाच्छक्ततापत्तौ व्यासज्यवृत्तिशक्तौ विश्रान्तेः। ततश्च अट्द्विवचनाद्यव्यवस्थापत्तिः। न च जातिविशेषे एव साधुतेति वाच्यं, कत्वादिना सङ्करापत्तेरिति।
अत्राहुः----
अनपभ्रष्टताऽनादिर्यद्वाऽभ्युदययोग्यता।
व्याक्रिया व्यञ्जनाया वा जातिः काऽपीह साधुता ।। इति ।।
   अस्यार्थः---शक्तिवैकल्यादिप्रयुक्तमन्यथोच्चारणमपभ्रष्टता, तद्विरहोऽनपभ्रष्टता, सैव साधुता। सा चार्थविशेषान्तर्भावेणैव। तथाहि, यमर्थं शक्तया लक्षमयावा बोधयितुं द्योतयितुं वा यादृक्शब्दोऽनादिः प्रयुक्तस्तस्मिन्नर्थे दोषादन्यथात्वं प्राप्तः सोऽसाधुः, अन्यथा तु साधुरिति। येऽपि गाव्यादिष्वेव प्रथमं व्युत्पन्नाः सन्तस्तान्प्रयुञ्जते तेषामप्यन्यथोच्चारणमस्त्वेव। तत्र च दोषप्रयोज्यतास्त्येव, मूलप्रयोक्तुर्भ्रमाद्यन्यतमत्वात्।
   यद्वा, अनादिता साधुता। अनादरिति तु श्लोके भावप्रधानो निर्द्देशः। आदेरभावोऽनादिरिति वा। असन्देह इतिवत्तत्पुरुषः।
अभ्युदययोग्यता वाऽस्तु साधुता।
   रत्नतत्त्ववच्छास्त्रापरिशीलनशालिभिर्गम्यो जातिविशेषो वेति। यत्तु जातिसङ्कर इत्युक्तम्। तन्न; गुणगतजातौ तस्यादोषत्वात्। तथाहि, यस्य देवदत्तादेरनोष्ठ्या वर्णा एव पूर्वं श्रुतास्तस्य कुड्यदिव्यवहितस्य ओष्ठ्यवर्णेषु श्रुतेषु यदनुमानं जायते तदोष्ठ्यानोष्ठ्यसाधारणतदनुमापकजात्यङ्गीकारे सत्येव घटते न तु तत्तद्व्याप्यनानाजातिस्वीकारे, ओष्ठ्यवर्णवृत्त्यसाधारणजातेः प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात्। वस्तुतस्तु उपाधिसङ्गरवदेव जातिसङ्गरोऽपि सर्वत्रास्तु,दूषकताबीजानिरुक्तेः, विनिगमकाभावेन भूतत्वमूर्त्तत्वयोरिव शरीरत्वपृथिवीत्वयोर्द्वयोरपि जातित्वभङ्गापत्तेश्च। तस्माच्चतुर्विधमपि साधुत्वं निर्दोषं व्याकरणैकगम्यं च।
    एवमसाधुत्वमपि चतुर्द्धा--अपभ्रष्टता, सादिता, प्रत्यवाययोग्यता, तदवच्छेदकजातिविशेषो वेति। टिघुभादिसंज्ञासु यद्यपि पुण्यपापजनकतारूपे साधुत्वासाधुत्वे नस्तस्तथापि अनपभ्रष्टत्वरूपं साधुत्वमस्त्येव। तदेवानुशासनप्रवृत्तावुपयोगि, ``भय इत्यादिसौत्रानिर्द्देशात् ``कुत्वं कस्मान्न भवति इत्यादिभाष्याच्चेत्याहुः। एवं चानादित्वमभ्युदययोग्यत्वं वा अनपभ्रष्टतामात्रेण न सिध्यति, किन्तु पौरुषेयसङ्केतविरहविशिष्टेनेत्यवधेयम्। तदेतदुक्तम्---
यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः।
कथं नु तासां साधुत्वं नैव ताः साधवो मताः ।।
अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता।
हस्तचेष्टा यथालोके तथा सङ्केतिता इमाः ।।
ततश्च----
नासां प्रयोगेऽभ्युदयः प्रत्यवायोऽपि वा भवेत्।
लाघवेनार्थबोधार्थं प्रयुज्यन्ते तु केवलम् ।। इति।।
तदयं निर्गलितोऽर्थः---
यास्त्वेताः स्वेच्छया संज्ञा क्रियन्त इति पक्षे
अनिदंप्रथमाः शब्दाः साधवः परिकीर्त्तिताः।
त एव शक्तिवैकल्यप्रमादालसतादिभिः।
अन्यथोच्चारिताः पुम्भिरपशब्दा इतीरिताः ।।
   इति च साध्वसाधुलक्षणे आश्रीयमाणे टिघुभादीनां साध्वसाधुबहिर्भावः स्पष्ट एव। तेषामप्यनादितेति पक्षे तु चतुर्विधाऽपि प्रागुक्ता साधुताऽस्त्येव। उक्तञ्च---
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित्।
नित्य एव तु सम्बन्धो डित्यथादिषु गवादिवत् ।।
वृद्व्यादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ।।
   पक्षद्वयेऽप्यनुशासनविषयता निर्विवादेति। नामकरणे त्वयं विसेषः--कृतं कुर्यान्न तद्धितमित्यादिगृह्यसूत्राविरोधिनामेव साधुता। तद्विरोधिनां तु देशभाषानुसारेण क्रियमाणानां कूचीमञ्चीत्यादिनामधेयानामसाधुतैव। तदेतद् ऋलृक्सूत्रे वार्तिकवयाख्यावसरे स्फुटीकरिष्यते ।।
इति साधुत्वनिर्वचनम् ।।

   व्युत्पादनं च प्रकृतिप्रत्ययादिकल्पनया उत्सर्गापवादरूपलक्षणैरेव, न तु साध्वसाध्वोर्वा अन्यतरस्य वा प्रतिपदपाठेन, शब्दानामानन्त्येन तदसम्भवादित्युक्तम्। स्यादेतत्, लक्षणप्रणयनमपि किं जातिपक्षमाश्रित्य उत व्यक्तिपक्षम् ? आद्ये सकृद्गतौ यद्बाधितं तद्वाधितमेवेति न सिद्ध्येत्। तथाहि, जातौ पदार्थे द्वयोर्विध्योः परस्परपरिहारेण तत्तज्जात्याक्रान्तव्यक्तिविशेषे चरितार्थयोः क्वचिदेकत्र प्रसङ्गे परस्परप्रतिबन्धादप्रतिपत्तिरेव स्यात् सत्प्रतिपक्षवत्। तथा च वक्ष्यति--``अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् इति। तत्र च विप्रतिषेधसूत्रं विध्यर्थं---परं तावद्भवतीति। तस्मिंश्च कृते यदि पूर्वस्य निमित्तमस्ति तर्हि भवत्येव तत्। यथा `भिन्धाकि' इत्यत्र भिनद् हि इति स्थिते परत्वाद्धिभावे कृते पुनः प्रसङ्गविज्ञानादकज्भवति। तदेवं जातिपक्षे पुनः प्रसङ्गविज्ञानं यद्यपि सिद्ध्यति तथापि सकृद्गताविति न सिध्यति। तथा च`जुहुतात् त्वम्' इत्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवद्भावेन स्यादेव धिः। व्यक्तिपक्षे तु सकलव्यक्त्युद्देश्यकस्य शास्त्रस्य व्यक्त्यन्तरे चरकितार्थत्वास्म्भवाद्विकल्पग्रसङ्गे नियमार्थं सूत्रं परमेव भवति न तु पूर्वमिति। तथा चैतत्सूत्रबलेन तत्र पूर्वलक्षणस्य व्यक्त्यन्तरमात्रविषयकत्वं कल्प्यत इति एतद्व्यक्तिविषयकलक्षणाभाव एव पर्यवस्यति। तथा च जुहुतात्त्वमित्यादेः सिद्धावपि भिन्धकीत्यादि व्यक्तिपक्षे न सिध्यति। तस्मादशक्यमन्यतरपक्षाश्रयणेन लक्षणप्रणयनमिति चेत्? सत्यम्, अत एव लक्ष्यानुरोधात्पक्षद्वयमप्याश्रीयते। क्व चित्कश्चित्पदार्थ इति। तत्र जातिवादिनामयं भावः--लाघवाज्जातिर्वाच्या। व्यक्तीनामानन्त्येन तासां वाच्यत्वे गौरवम्। वाहदोहाद्यन्वयस्तु लक्षितायां व्यक्ताविति।
   व्यक्तिवादिनस्तावाहुः--अनुपपत्तिं विनापि व्यक्तिप्रतीतेरनुभवसिद्धतया व्यक्तिरेव वाच्या। त्वप्रत्ययादिकं विना जातेः प्राधान्येनाप्रतीतेश्च। वाहाद्यन्वयोऽप्येवं समञ्जसः। यत्तूक्तं व्यक्तीनामानन्त्यमिति, नैतद्वाधकं, शक्यतावच्छेदिकाया जातेरैक्यात्। नन्वेवं जातेरपि वाच्यत्वमायातमिति चेत् ? न, अकार्यत्वेऽपि कार्यतावच्छेदकत्ववदशक्यत्वेऽपि शक्यतावच्छेदकत्वसम्भवात्। अत एव लक्ष्यतावच्छेदके लक्षणा नेति नैयायिकाभ्युपगमः। तस्माज्जातिरुपलक्षणं व्यक्तिमात्रं तु वाच्यमिति।
   यत्तु सरुपसुत्रे भाष्ये वक्ष्यते--``नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः इत्यादि, तत्तु जातिव्यक्त्योरन्यतरेण विशिष्टस्यापरस्य वाच्यतेत्येवं रूपं मतान्तरम्। तथा चाकृत्यधिकरणे भट्टैरुक्तम्---
नियोगेन विकल्पेन द्वे वा सह समुच्चिते।
सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ।। इति।।
   तत्र जातिरेव व्यक्तिरेव वा वाच्येति इहत्यं मतद्वयं नियोगेनेत्यनेनोपनिबद्धम्। चतुर्थचरणेन तु सरुपसूत्रोक्तं मतद्वयमुपनिबद्धमिति विवेकः। यद्यपि जातिव्यकित्पक्षयोरन्यतरस्य न्यायेन बाध आवश्यकस्तथापीह शास्त्रे संज्ञापरिभाषादिवल्लक्ष्यसिद्ध्युपायतया उभयाश्रयणे किमपि बाधकं नास्तीत्यवधेयम्। वस्तुतस्तु भट्टोक्ताष्ठपक्षीमध्ये विकल्पेनेति तृतीयः पक्षोऽत्र प्रक्रियादशायां स्थितः। विकल्पश्च लक्ष्यानुरोधाद्व्यवस्थितो नत्वैच्छिक इत्यन्यदेतत्। समुच्चयपक्षं चतुर्थ माश्रित्यापि क्वचित्कस्य चिद्विवक्षा अपरस्य त्वविवक्षेति गृहीत्वा प्रक्रियानिर्वाहः सुकर इति दिक्। यदि हि व्यक्तिरेवेत्येतत्सार्वत्रिकमाभिमतं स्यात्तर्हि``जात्याख्यायाम्इति सूत्रं नारभेत। यदि च जातिरेवेति, तर्हि सरूपसुत्रं नारभेतेति भाष्यम्।
   ननु यस्मिन्वेन एक एवाम्रवृक्षस्तत्रापिलक्षणर्या जातिपरत्वे इह आम्राः सन्तीति प्रयोगं साधयितुं ``जात्याख्यायाम् इति सूत्रमस्तु। तथा जातिपक्षेऽपि नानार्थानुरोधात्सरूपसूत्रमस्तु। वक्ष्यति हि वार्त्तिककृत्-व्यर्थेषु च मुक्तसंशयमिति। सत्यम्, लक्षयानुरोध एव पक्षद्वयाश्रये शरणम्। अत एवोदाहृतसूत्रयोर्भाष्यकृता प्रत्यारव्यास्यमानत्वेप्यदोषः।
   इदानीं वार्तिककारः शास्त्रस्य नियमविधिरुपतया सार्थक्यमाहसिद्धे शब्दार्थसम्बनदे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु। लोकादेव हि प्रथमव्युत्पात्तिः अव्युत्पन्नं प्रति व्याकरणादीनामप्रवृत्तिः। ``अर्थवदधातुः इत्यादि हि व्याकरणं शक्तिग्रहोपजीवकम्। तथा च समर्थसूत्रेऽपि वार्त्तिकम्--``अर्थानादेशनात् इति। ``अनेकमन्यपदार्थे इत्यादिकं हि लोकसिद्धमर्थमनूद्य साधुत्वान्वाख्यानपरम्। ततश्च लोकादेव शब्दे अर्थे तयोः सम्बन्धे च सिद्धे अर्थबोधनाय शब्दप्रयोगेऽपि प्रसक्ते गवादय एव प्रयोक्तव्या न तु गाव्यादय इति नियमार्थं शास्त्रम्। नियमफलं तु धर्मः। तत्र स्मार्त्तो दृष्टान्तः--``प्राङ्मुकोऽन्नानि भुञ्जीत इत्यादिर्लौकिकशब्देनैक्तः। ``व्रीहीनवहन्ति इत्यादिश्च वैदिकशब्देनोक्तः। धर्मनियम इति च षष्ठीतत्पुषोऽश्वघासादिवपत्, न तु चतुर्थीतत्पुरुषः प्रकृतिविकृतिभावविरहात्। ननु यदि प्रयुक्तानामिदमन्वाख्यानं तर्हि किमर्थमप्रयुक्ता अपि ऊष तेर चक्र पेचेत्यादयो व्युत्पाद्यन्ते इति चेत् ? न, आर्षज्ञानं विना अप्रयुक्तताया दुरवधारणत्वात्। महान्हि प्रयोगविषयः। तथा च भाष्यम्--``सप्तद्वीपा वसुमती, त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्याबहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवर्त्मा सामवेद एकविंशतिधाबाह्वृच्यं नवधाथर्वणो वेदः वाकोवाक्यमितिहासः पुराणं वैद्यकमित्येतावान् प्रयोगस्य विषयः इति। बह्वृचानामाम्नायो बाह्वच्यम्। ``छन्दोगौक्थिकयाशिकबह्वचनटाञ्ञ्यः इति ञ्यप्रत्ययः। ``चरणाद्धर्माम्नाययोः इत्युक्तत्वादाम्नाये। अथर्वणा प्रोक्तो वेदो अथर्वा। उपचारात्प्रयोग इत्येके। वसन्तादिषु अथर्वन् आथर्वण इत्युभयोः पाठसामर्थ्यात्प्रोक्तप्रत्ययस्व वैकल्पिको लुगिति तु तत्त्वम्। अत एव भाष्ये वक्यते-तेन प्रोक्तमिति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः। वसिष्ठोऽनुवाकः। ततो वक्तव्यमथर्वणो वेति। तमधीते आथर्वणिकः वसन्तादित्वाठ्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः। आथर्वणिकस्याम्नाय आथर्वणः ``आथर्वणिकस्येकलोपश्च इति आथर्वणिकादण् तत्सन्नियोगे नेकलोपश्च।

   प्रकृतमनुसरामः। एतावन्तं प्रयोगविषयं पर्यालोचयितुमशक्तैरप्यस्मदादिभिर्लक्षणानुगतानां प्रययोगेस्तीत्यनुमेयम्। अस्ति च त्वयोदाहृतानामपि वेदे प्रयोगः--सप्तास्ये रेवती रेव दूष। यन्मे नरः श्रुत्यं ब्रह्म चक्र। यत्रानश्चक्राजरसं तनूनामिति। ननु यदि लक्षणेनानादितासिद्धिस्तर्हि वचन्त्यादीनामपि स्यादिति चेत्? न, ``नहि वचिरन्तिपरः प्रयुज्य ते इत्यभिर्युक्तानामविगीतव्यवहारेण सामान्यशास्त्रस्य सङ्कोचात्। अभ्युपगतो विशेषविषयिण्या पतितस्य कर्मानधिकारस्मृत्या अग्निहोत्रादिश्रुतीनां सङ्कोचः, विशेषविषयेण शिष्टाचारेण सामान्यस्मृतेः सङ्कोचश्च। तदुक्तम्--आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति। यत्र तु अप्रयोगः सन्दिग्धः सास्त्रानुगमश्च तत्र निष्प्रत्यूहमनुमानम्। तदुक्तम्--- ``यथालक्षणमप्रयुक्ते इति। अप्रयुक्ते अनिश्चितप्रयोगे इत्यर्थः। निश्चिताप्रयोगे तु लक्षणं न प्रवर्त्तते एवेति निष्कर्षः। न चैवं `ब्रावोवचिः इत्यादीनां सङ्कोचापात्तिः। त्रिशङ्क्वाद्ययाज्ययाजनेनापि स्मृतिसङ्कोचापत्तेस्तुल्यत्वात्। तत्र धर्मबुद्ध्यानुष्ठानं नास्तीति चेत् ? इहापि साधुत्वबुद्ध्या प्रयोगो नास्तीति तुल्यम्। यर्वाणस्तर्वाण इतिवदभइयुक्तानामपि असाधुप्रयोगस्य क्रतोर्बहिरुपपत्तेश्च। अत एवेतिहासपुराणादिष्वपशब्दा अपि सन्तीति हरदत्तः। नदीसंज्ञासूत्रे भाष्येऽपि स्पष्टमेतत्। केचित्तु आर्षग्रन्थेष्वपि छन्दंसि विहितस्य व्यत्ययस्य प्रवृत्त्या साधुतां समर्थयन्ति। न च गौणमुख्यन्यायेन मुख्ये छन्दस्येव तत्पवृत्तिः, स्वरितत्वप्रतिज्ञया तद्बाधात्। वक्ष्यति हि ``स्वरितेनाधिकारः इति सूत्रेऽविशेषायाधिकं कार्यमिति। गौणमुख्यन्यायो हि स्वरितत्वप्रतिज्ञास्थले न प्रवर्त्तते इत्यर्थः। उपपादयिष्यते चेदम्। अत एवार्षत्वात्साधुतेति तत्र तत्रोद्धोषः सङ्गच्छते इति दिक्।
   यद्यपि अप्राप्तांशपूरणफलको नियमविधिः, इतरव्यावृत्तिफलकस्तु नित्यप्राप्तिविषयकः परिसंख्याविधिरिति पूर्वोत्तरमीमांसयोर्व्यवहारस्तथापीह शास्त्रे परिसंख्याऽपि नियमशब्देन व्यवहियत। तेन ``पञ्च पञ्चनखा भक्ष्याः इत्यस्य नियमोदाहरणतया उपन्यासो न विरुद्धः। न चासौ मीमांसकरीत्याऽपि नियमो भवत्विति वाच्यं, पञ्चातिरिक्तभक्षणे प्रायश्चित्तविधेरसङ्गतत्वापत्तेः, पञ्चानामभक्षणे प्रायाश्चित्तापत्तौ
गृहेऽपि निवसन् विप्रो मुनिर्मांसविवर्जनात्।
   इत्यादिस्मृतिव्याकोपाच्च अत एव त्रिदोषाऽपि परिसंख्यैव तत्राश्रितेति दिक् ।
   अत्रेदमवर्धयम्, नियमातिक्रमे कृते अपूर्वं परं न भवति, दृष्टस्त्वर्थावबोधो भवत्येव अवहननातिक्रमे कृतेऽपि वैतुष्यवत् दिगन्तराभिमुखभोजने तृप्तिवच्च। न चापभ्रंशानामवाचकतया कथमर्थावबोध इति वाच्यं, शक्तिभ्रमवतां बाधकाभावात्। विशेषदर्शिनस्तु द्विविधाः--तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तस्तद्विकलाश्च। तत्र आद्यानां साधुस्मरणद्वारा अर्थबोधः, द्वितीयानां बोध्यार्थसंबद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः, सर्वनामस्मृतेर्वा, तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा, अर्थाध्याहारपक्षाश्रयणाद्वेति यथायथं बोध्यम्।
अपरे त्वाहुः--अपभ्रंशा अपि वाचका एव। तथाहि, अस्मात्पदादयमर्थो बोध्धव्य इतीश्वरेछ्चा शक्तीरिति मते भगवदिच्छायाः सन्मात्रविषयकत्वादपभ्रंशैस्तु बोधदजननस्य शक्तिभ्रंमदशायां तेनाप्यभ्युपगमाद् दुर्वारा शक्तिः। पदार्थान्तरं तदिति मतेऽपि कल्पकं साध्यवसाध्वोस्तुल्यमेव। असाधुस्मरणद्वारा साधुर्बोधक इति वैपरीत्यस्यापत्तेश्च। स्वीकृतं हि परेण तिबादिस्मारितानां लादीनामसाधूनामपि बोधकत्वम्। ननु साधूनामल्पत्वात्तत्रैव लाघवाच्छक्तिः कल्प्यते इति चेत् ? न वयमपूर्वं किञ्चित्कल्पयामः, किन्तु यथा घटजननसमिर्थ्यमेव दण्डादेः शक्तिः, तथा घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिः। सा च कारणत्वापरपर्याया शक्तिभ्रमाद् बोधं वदता त्वयाऽप्यभ्युपेतैव। शक्तिग्रहस्य भ्रमत्वं परं त्यज्यतां विषयाबाधादिति ब्रूमः। नन्वेवं गौणमुख्यविभागोच्छेदः `` सर्वे सर्वस्य वाचकाः इति पर्यवसानादिति चेत् ? त्वत्पक्षेऽपीश्वरेच्छाया गौणादावतिप्रसङ्गस्य तुल्यत्वात्। सुहृद्भावेन पृच्छामीतिचेत् ? प्रचुरतरप्रयोगतद्विरहाभ्यां गौणमुख्यविभाग इति गृहाण। ननु जनकत्वेनागृहीतादपि तर्हि कारणात्कार्योदयः स्यादेवेति चेत् ? पदार्थस्मृतिरापाद्यते वाक्यार्थबोधो वा ? नाद्यः, सम्बन्धग्रहं विना तदयोगात्। नान्त्यः, द्वाराभावात्। पदार्थस्मारणं हि द्वारम्। एवञ्च महदेव लाघवमअ। साधुस्मारणकल्पनाक्लेशश्च न भवतीति। साधुत्वं तु जातिविशेषात्मकमित्युक्तमेव। समानाथामर्थावगतौ शब्दौश्चापशब्दैश्चेति भाष्यमप्येतत्पक्षपातीति दिक् ।।
इति अपशब्दानां वाचकत्वावाचकत्वविचारः।

   प्रयोगशब्दमुपाददानो वार्त्तिककारः प्रयोगाद्धर्मो न तु ज्ञानमात्रादिति सूचयति। युक्तं चैतत्, एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्त इत्यत्र ज्ञानप्रयोगयोरुपादानस्याविशेषेऽपि प्रतिपदाधिकरणन्यायेन यदैकस्मादपूर्वं तदेतरत्तदर्थमिति प्रयोगात्फलं, ज्ञानं तु तदङ्गमित्यभ्युपगमात् प्रयोगस्य फलम्प्रति सन्निहितत्वाच्च। ज्ञानस्य तु व्यवहितत्वात् ज्ञानस्यप्रयोगाङ्गतायां दृष्टार्थतालाभाच्च। उक्तं च भट्टैः---
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते।
पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम् ।। इति।।
   अत एव ``तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेद इत्यादिष्वपि ज्ञानपूर्वकानुष्ठानात्फलमित्येव सिद्धान्तः। तदुक्तं वार्तिककृता--`तत्तुल्यं वेदशब्देन इति। वेदः शब्दो विधायको यस्यार्थस्य अश्वमेधादेस्तेनेदं तुल्यमित्यर्थः। तेन वैदिकशब्दानामपि पक्षकोटिपरविष्टतया दृष्टान्तासङ्गतिरिति नाशङ्कनीयम्। ``तेऽसुराः इति पूर्वोदाहृतश्रुतिरपि अपशब्दप्रयोगात्प्रत्यवायं बोधयन्ती साधुप्रयोगाद्धर्मं गमयति। वाजसनेयिनां ब्राह्मणे--``तस्मादेषा व्याकृता वागुद्यते इति श्रुतिरप्येवम्। भाष्ये तु अभ्युपेत्यवादेन साधुज्ञानात्फलमित्ययमपि पक्षः समर्थितः। न चैवमपशब्दज्ञानादधर्मोऽपि स्यादिति वाच्यं, `यावद्वचनं वाचनिकम्' इत्यभ्युपगमात् ``न म्लेच्छितवै इत्यादिना असाधुप्रयोगस्यैव निषेधाच्च। न च व्याकरणाध्ययने प्रवृत्तस्य परिनिष्ठितपचत्यादिबोधार्थं डुपचष्प्रभृतीनां प्रयोगोऽप्यावश्यक एवेति वाच्यं, तदीयज्ञानमात्रेण निर्वाहात्। अत एवालौकिकम्प्रक्रियावाक्यमूहमात्रस्य गोचर इति नित्ससमासेष्वस्वपदविग्रहाभ्युपगमः। अथ व्युत्पादनार्थं तत्प्रयोग आवश्यक इत्याग्रहस्तथापि न क्षतिः, अनपभ्रष्टत्वेन तेषां प्रत्यवायाजनकत्वात्। नह्येते शक्तिवैकल्यादिप्रयुक्ताः, येन गाव्यादिसाम्यं भजेरन्। अथ सादित्वादसाधुतेत्याग्रहस्तथापि न क्षतिः शब्दस्वरूपपरत्वात्। अनुकरणानां सर्वत्र साधुताब्युपगमात्। नहि ``हेलयो हेलयः इति श्रुतिपाठोऽपि प्रत्यवायजनकः। शब्दस्वरूपमात्रपरा एते भिन्ना एव साधवश्चेति तु तुल्यम्। अत एव ``स्वाहेन्द्रशत्रुर्वर्द्धस्व इतिश्रुतावाद्युदात्तस्य पाठेऽपि तत्प्रत्याय्यस्यार्थपरस्य ऊहितस्यानाम्नानादमन्त्रतया जपादि पर्युदासेन मन्त्रे विधीयमाना एकश्रुतिर्न प्रसक्तेति प्रागुक्तम्। अत एव साधुत्वासाधुत्वयोरेकस्मिन् सद्भावो अभावश्चेति विरुद्धस्य दुरुपपादतया अर्थभेदाच्छब्दभेद इति दर्शनं प्रवृत्तम्। न च ``प्रकृतिवदनुकरणम् इत्यतिदेशेन अपशब्दानुकरणस्य असाधुता शङ्क्या असाधूनां शास्त्रीयप्रकृतित्वाभावात् असाधुत्वस्य शास्त्रीयकार्यत्वाभावच्च। नह्यशास्त्रीयमप्यतिदिश्यते इति। ऋलृक्सूत्रे भाष्ये स्फुटमेतत्। डुपचष्प्रभृतिप्रयोगादपशब्दज्ञानाद्वा प्रत्यवायो नास्तीति प्रागुक्तरीत्या स्थितेऽपि अभ्युपेत्यापि प्रत्यवायं भाष्ये कूपसखानकन्याय उदाहृतः। तथाहि, कूपं खनन् यद्यपि कर्द्दमेन लिप्यत एव तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलान्तरं च लभते, तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलान्तरं च लभते, तथेहापि परिनिष्ठितरूपज्ञानात्पूर्वोत्पन्नप्रत्यवायनिरासं फलानतरं च लभते इति। सोऽयं कूपशानकन्यायः। कूपं खनतीति विग्रहे कर्मण्यणि प्राप्ते वासरूपन्यायेन ण्वुल्। नित्यसमासत्वाभावात्कूपस्य खानक इति स्वपदविग्रहः। न च शिल्पिनिष्वुना सरुपेण ण्वुलो बाधः स्यादिति वाच्यम्, इह खननकर्त्तृत्वमात्रस्य विवक्षया शिल्पित्वस्याविवाक्षितत्वात्। तस्मात्सर्वथापि गाव्यादिप्रयोगे प्रत्यवाय इति स्थितम्। तत्रैव भाष्ये सिद्धान्तितम् याज्ञे कर्मण्येवायं, ``न म्लेच्छतवै इत्यस्य क्रतुप्रकरणे पाठात्। क्रतुप्रयोगाद्बहिस्तु अपशब्दं प्रयुञ्जानो न दुष्यति। एवं हि श्रूयते--``यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः अत्रायं श्रुतेराशयः--योगिन एते विरक्त्यतिशयाल्लौकिकोष्वर्थेष्वाग्रहविरहेण यथा तथास्माकं भवत्वितिविवक्षवो यद्वानस्तद्वान इति वक्तव्ये यर्वाणस्तर्वाण इत्यूचुः। याज्ञे कर्मणि पुनः साधूनेव प्रयुक्तवन्तस्तेन यर्वाणस्तर्वाण इत्येवंरूपामेव संज्ञां मुनयो लेभिर इति। भट्टाश्चाहुः---
स्त्र्युपायमांसभक्षादिपुरुषार्थमपि श्रितः।
प्रतिषेधः क्रतोरङ्गमिष्ट प्रकरणाश्रयात् ।। इति ।।
   अपरे त्वाहुः। क्रतोर्बहिः प्रयोगेऽपि पुरुषः प्रत्यवैतीति। तेषामय माशयः--``नानृतं वदेत् इत्यनारभ्याधीतः पुरुषार्थोऽपि निषेधस्तावदस्तीति निर्विवादम्। तत्र निषेध्यमनृतं द्विधा--शब्दानृतमर्थानृतं चेति। शब्दस्यार्थस्य वा विपरीतप्रतिपत्तिहेतुभूतमुच्चारणमनृतवदनम्। एवञ्च यथार्थानतं वदतः प्रत्यवायस्तथा शाब्दानृतमपीति तुल्यम्। क्रतुमध्ये पुनरपभाषणे पुरुषोऽपि प्रत्यवैति क्रतुरति विगुण इति वचनद्वयबलात्सिध्यतीति दिक् ।
   यथा च प्रयोगे साधूनां नियमस्तथा साधुत्वज्ञानेऽपि व्याकरणस्य नियम एवेत्यवधेयं, ``व्याकृता वागुद्यते इतिप्रागुक्तश्रुतेः। व्याकृता व्याकरणसंस्कृतेति हि तदर्थः।
   व्याकरणशब्दश्च योगरुढ्या लक्ष्यलक्षणसमुदायपरः, सूत्रमात्रपरो वेति पक्षद्वयमपि भाष्ये स्थितम्। तत्राद्ये पक्षे सूत्रमात्रमधीयाने वैया करणशब्दप्रयोगो भाक्तः। समुदायवाचका हि शब्दाः क्वचिदवयवेपि प्रयुज्यन्ते। यथा पूर्वे पञ्चालाः, उत्तरे पञ्चालाः, इति। द्वितीयपक्षे तु व्याकरणस्य सूत्रमिति प्रयोगो `रहोः शिरः' इतिवन्नेयः. अष्टाध्याय्या एकदेशः सूत्रमित्यवयवावयविभावे षष्ठीति वाऽस्तु। अस्य वनस्यायं वृक्ष इत्यादिवत्। न चैवमपि सूत्रमात्राच्छब्दाप्रतिपत्तेर्नियमानुपपत्तिः, पदच्छेदविग्रहयोजनादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात्। अत एव द्युत्सूत्रमुच्यमानमप्युपेक्ष्येते। यत्रैव तु सूत्रस्य तात्पर्यलेशोऽप्यस्ति तदेव तु गृह्यते। तदुक्तम्---
सूत्रेष्वेव हि तत्सर्वं यद् वृत्तौ यच्च वार्त्तिके। इति।
अत एव बहुलग्रहणादिकं सार्थकमिति दिक् ।।
   नन्वेवं किं वर्णोपदेसेन ? न हि तद्बलेन कस्यचिच्छब्दस्य साधुत्वमवगम्यते। न च कलध्मातादिदोषरहितवर्णस्वरुपप्रतिपत्तिरेव तत्फलमिति वाच्यं, लोकत एवाविप्लुतवर्णप्रतीतेरवश्यं वाच्यत्वात्। अन्तथा प्लुतादिपाठस्यापीह कर्त्तव्यतापत्तेः। तदुक्तम्---``इष्टबुद्ध्यर्थश्चेदुदात्तानुदात्तस्वरपितानुनासिकदीर्घप्लुतानामप्युपदेशः इति। एकश्रुत्या सूत्रपाठादुदात्तादिस्वरत्रयस्यापि कर्त्तव्यः पाठ इत्युक्तम्। त्रैस्वर्येण पाठे हि अन्यतमस्य उच्चारणादेव सिद्धौ द्वयोरेव कर्त्तव्यतां ब्रूयात्। अत एव च लोके त्रैस्वर्यमेकश्रुत्या सह विकल्प्यत इति ज्ञाप्यते। एतच्च ``विभाषा छन्दसि इत्यत्र स्फुटीकरिष्यामः। ननु निर्द्देशस्य जातिपरत्वात्प्लुतादिसंग्रहः सेत्स्यतीतिचेत् ? न, संवृतकलप्रभृतीदीनां प्रतिषेधः इति। तत्र र्हस्वस्य अवर्णस्य संवृतगुणकत्वेऽपि तदितरेषामचां संवृतत्वं दोषः। आदिशब्दात्कलः। स च स्वोचितस्थानभ्रष्टः। तथा श्वासभूयिष्ठतया र्हस्वोऽपि दीर्घवल्लक्ष्यमाणो ध्मातः। एवं दीर्घेऽपि रहस्ववत्कालसंकोचेनोच्यमानोऽरप्धकः। एवं करणादिर्भ्रशादपि बहवो दोषाः सिक्षाप्रातिशाख्यादिषु प्रसिद्धाः। तत्तद्दोषविशिष्टानामपि अत्वादिजात्याक्रान्तत्वाज्जतिपरनिर्द्देशपक्षे तेष्वतिव्याप्तिरितिस्थितम्। न च गर्गादिबिदादिपाठस्य तन्त्रेणोभयार्थ--तया वर्णसुद्धिलाभः अपठितेषु प्रातिपदिकंषु तथाप्यगतेः।
   स्यादतत्, सर्वा अज्व्यक्तयो हल्व्यक्तयश्च शास्त्रान्ते शुद्धाः पठिष्यन्ते ``अ अ इतिवत्। नचैवं गौरवं, तद्बलेन सर्वेषामनुबन्धनां प्रत्याख्यानात्। इत्संज्ञालोपयोरपि त्यागात्। तथाहि, शीङ् धातोर्ङकारं परित्यक्ष्यामः। ईकारं च कलं पठिष्यामः। ङित आत्मनेपदमित्यस्य स्थाने कलादात्मनेपदमिति पठिष्यामः। कलश्च प्रक्रियादशायामेव यथा ङकारः। प्रयोगे तु शुद्ध एव। प्रत्यापत्तेः शास्त्रान्ते करणमपि शास्त्रीयसकलकार्यं प्रत्यसिद्धतालाभाय। एवञ्च प्रक्रियायां दोषस्य कलादेराश्रयणंऽपि परिनिष्ठितरूपे न कश्चिद्दोषः। यथा यतान्यासपक्षेऽपि अकारस्य विवृतता प्रक्रियामात्रविषया न तु प्रयोगसमवायिनी तद्वदिह पक्षे कलादयोपीति न कश्चिद्विशेषः। धर्मिकल्पनात इति न्यायश्चेह बोध्यः। ङकारादयो हि धर्मिण एव त्यया पाठ्याः। मया तु उभयपठनीयस्य ईकारस्य कलत्वमात्रं कल्प्यमिति। नन्वस्मिन्पक्षे ``स्वरितञितः इत्यत्र कथं कार्यमिति चेत्? ``ध्मातात्कर्त्रभिप्राये इति। एवम् ``आद्यन्तौ टकितौ इत्यत्र ``आद्यन्तौ कलध्मातौ इति। इडाद्यागमाश्च निरनुबन्धाः कलाः पाठ्याः, आनुगादयो ध्माताः। डुकृञित्यस्य स्थाने कृ इति द्विदोषं पाठ्यम्। ``आदिरन्त्येन इत्यत्रापि ``आदिकलौ सह इत्युक्त्वा `अ उ' इत्यादिकाः संज्ञाः करिष्यन्ते। कलेनेति तृतीयानिर्द्देशे सति तु अप्राधान्यात्सिद्धान्त एव चरमवर्णस्य संज्ञा न स्यात्। ``ढ्रलोपे इत्यादौ अण इत्यपनीय अ ओरिति करिष्यते स्वरसन्धिस्त्वसन्देहाय करिष्यते। तस्मात्सर्वमनुबन्धकार्यादिकङ्कलादिभिरेव सिध्यतीति चेत् ? सत्यम्, सिद्त्येवम्। अपाणिनीयं चु भवतीति चेत् ? अत्रोच्यते, इष्टसिद्ध्यर्थो वर्णोपदेशः। एवञ्चाकृत्युपदेशादेव उदात्तादिसिद्धिमङ्गीकृत्य कलादिष्वतिप्रसङ्ग इत्थं परिहार्यः।
आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ।। इति ।।
   यत्तु अग्रहणेषु प्रातिपदिकेषु प्राप्ता एवेति। तन्न, त्वयापि प्रतिपदपाठस्यावश्याश्रयणीयत्वात्। अन्यथा `शशः' इत्यत्र `षष' इत्यपि स्यात्, मञ्चके `मञ्जक' इति, पलाशे `पलाष' इति। स्यादेतत्। स्वरवर्णानुपूर्वीनिर्णयाय् यदि प्रतिपदपाठस्तर्हि कलादिनिवृत्तिरपि तत एवास्तु। उणादिसूत्रात्पृषोदरादिसूत्राद्वा साधुत्वाभ्यनुज्ञानं विशेषावधारणं तु निघण्टुवादिनेति चेत् ? कलादिनिवृत्तिरपि शिक्षादिग्रन्थेनास्तु। सत्यम्, आनुषङ्गिकी कलादिनिवृत्तिः। वर्णोपदेशस्य मुख्यं फलं तु प्रत्याहारनिष्पत्तिः। प्रत्याहारशब्दस्तु अणादिसंज्ञापरः प्रत्याहियन्ते वर्णा एष्विति व्युत्पत्तेः। न च ग्रहणकशास्त्रेम निष्पादितासु अकारादिसंज्ञास्वतिप्रसक्तिः, योगरूढ्यभ्युपगमात्। तस्मादादिरन्त्येनेत्येतत्सूत्रसिद्धः। संज्ञाः प्रत्याहारशब्दवाच्यास्तन्निष्पत्तये च वर्णोपदेश इति स्थितम् ।
इति क्षीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमपादे
प्रथममाह्निकं समाप्तम् ।। 1 ।।
----***----