शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ४

विकिस्रोतः तः
← आह्निकम् ३ शब्दकौस्तुभः
आह्निकम् ४
[[लेखकः :|]]
आह्निकम् ५ →


   न धातुलोप आर्द्धधातुके (पाoसूo1-1-4)।
 धात्वंशलोपनिमित्ते आर्द्धधातुके परे तन्निमित्तिके गुणवृद्धी इको न स्तः। `लोलुवः' `पोपुवः' `मरीमृकजः'। लोलूयादिब्यो यङन्तेभ्यः पचाद्यचि कृते ``यङोऽचि च(पाoसूo2-4-74) इति यङ्लुकि लुङ्निमित्तभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्यते। यद्यपि कृत्स्नस्य धातोरपि क्वचिल्लोपोऽस्ति। तद्यथा, ``दुरीणो लोपश्च(पाoसूo 1-2-187) दुःशब्दे उपपदे इणो धातो रक् प्रत्ययो भवति धातोश्च लोपः, दुःखेन ईयते प्राप्यते दूरामिति; तथाप्येवंविधे विषये गुणवृद्ध्योःक प्राप्तिविरहान्निषेधवैयर्थ्यम्। अतोऽत्र दातुशब्देन तदेकदेशो लक्ष्यते।
   धातुलोप इति च यदि षष्ठीतत्पूरुषः स्यात्तदार्द्धधातुकग्रहणं लोपविशेषणं वा गुणवृद्ध्योर्विशेषणं वा तन्त्रावृत्त्यादिभिरुभयविशेषणं वेतित्रयः कल्पाः। तत्राद्ये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति यत्किञ्चिन्नित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात्। ततश्च प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमित्तके नलोपे च सति `प्रेद्धः' इत्यत्र प्राप्नुवन्नाद्गुणोऽपि निषिध्येत। यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते ऽसावन्यतरतो व्यपदेशमितीक्स्थानिकत्वस्यापि सत्त्वात्। न चैवमपीग्लक्षणत्वविरहान्न निषेधः लैगवायने ओर्गुणस्येवेति वाच्यम्। नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्त(1) रसूत्रे तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः।
   अस्तु वाऽर्थाधिकाराश्रयणबलेनेहापीक इति स्वरूपपरं तथापि `भेद्यते' इत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्वयेऽप्यस्त्येवेति बोध्यम्। ननु `उपेद्धः' `प्रेद्धः' इत्युदाहरणस्येहोक्तिसम्भव एव नास्ति। तथाहि, ``पूर्वं धातुः साधनेन युज्यते इति मते `इद्धम्' इत्यत्र नलोपोऽन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात्। ``पूर्वं धातुरुपसर्गेण इति दर्शने तु गुणोऽन्तरङ्ग, उभयथाऽपि गुणो भविष्यति बहिरङ्गस्य गुणस्यासिद्धतया निषेधायोगात् बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेर्निर्बात्वाच्च। सत्यम्, ``असिद्धं बाहेरङ्गमन्तरङ्गे (पाoभाo50) इति परिभाषा नेह प्रवर्त्तते ``नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः (पoभाo51) इति निषेधात्। यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्रेषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः। किन्त्वस्मिन्पक्षे ``एत ऐ (पाoसूo3-4-93) इति सूत्रे `पचावेदं' `पचामेदम्' इत्यादौ एत ऐत्वं कुतो नेत्याशङ्क्य बहिरङ्गत्वेन गुणस्यासिद्धत्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते, तथाच बहिरङ्गस्यासिद्धताबलेन `प्रेद्धम्' इत्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाष्यमपि विरुध्येत। तस्माद्यत्रोत्तरकालप्रवृत्तिके अच आनन्तर्यं तत्र बहिरङ्गपरिभाषा न स्यादिति कैयटसम्मत एव ``नाजाननतर्ये(पाoभाo51) इत्यस्यार्थः साधुः। `पचावेदम्' इत्यादौ हि पूर्वं गुणप्रवृत्तिः। तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके अच ``नाजान्न्तर्ये (पाoभाo51) इत्यस्यार्थः साधुः। `पचावेदम्' इत्यादौ हि पूर्वं गुणप्रवृत्तिः। तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके ``एत ऐ (पाoसूo3-4-93) इत्यत्र तदनाश्रयणाद्युक्त एव बहिरङ्गतयोद्धारः। `उपेद्धः' `प्रेद्धः' इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः। तत्राजानन्तर्याश्रयणाभावाद्बहिरङ्गपरिभाषया सिद्धमेवैतत्। अतोऽत्रत्यं भाष्यमपि सङ्गच्छते।
   ननु ``षतवतुकोरसिद्धः (पाoसूo6-1-96) इति सूत्रे एषा परिभाषा ज्ञापयिष्यते। तत्र च `कोऽसिचत्' `कोऽस्य' इत्यादौप्रथमप्रवृत्तिके ``एङः पदान्ताद् (पाoसूo6-1-109) इत्यस्मिन्नजानन्तर्यं न तूत्तरकालप्रवृत्ते षत्वेऽपीति कथं कैयटमतं समर्थनीयम्। तस्माद्यत्रान्तरङ्गे बहिरङ्गे वा अचोरानन्तर्यमिति हरदत्तोक्तरीतिरेव शरणीकर्त्तव्येति चेत्? न, कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञअजस्यात्। अस्ति ह्युत्तरकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम्, इणः परस्य सस्येत्युक्तेः। एवञअच प्रथमपक्षे `प्रेद्धः' इत्यादौ दोषाभावेऽपि `(1)भेद्यते' इत्याद्यासिद्धिरेव दूषणमिति दिक्।
   द्वितीयपक्षे तु यत्किञ्चिनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात्। ततश्च ``क्नूयी शब्दे इत्यस्माण्णिचि पुकि यलोपे कृते पुगन्तलक्षमो गुणो निषिध्येत। तथाच `क्नोपयति' इति न सिध्येत्। यदि तु ``चेले क्रोपेः (पाoसूo3-4-33) इति निर्द्देशाद् गुणस्तर्हीहापि `भेद्यते' इत्यस्यासिद्धिरेव दोषः।
   तृतीयपक्षे त्वार्द्धधातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात्। तत्र तन्त्रावृत्त्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव लोपेन सह गुणवृद्ध्येरैकनिमित्तकत्वं च न लभ्येत। ततश्च `भेद्यते' इत्यत्र भिदेर्ण्यन्तात्कर्माणि यकि भिद् इय इति स्थिते नित्यत्वाण्णिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोऽपि गुणो निषिध्येत। न च णिलोपात्प्रगेवान्तरह्गत्वाद् गुणोऽस्त्विति वाच्यम्, विभज्यान्वाख्यानपक्षे तदसम्भवात् ``उपसंजनिष्यमाणनिमित्तोप्यपवाद उपसंजातनिमित्तमप्युत्सर्गं बाधते (पाoभाo65) इति न्यायाच्च। अन्यता `दधति' इत्यादावन्तरङ्गत्वात् ``झोन्तः (पाoसूo 7-1-3) इत्यन्तादेशः प्रवर्त्तेत। न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेन ``अदब्यस्तात्(पाoसूo 7-1-4) इत्यस्य प्रवृत्तिरस्त्विति वाच्यम्, अल्विधौ स्थानिवद्भावासम्भवात्। किञ्च, ``समर्थानां प्रथमाद्वा (पाoसूo4-1-82) इति सूत्रे ``अकृतव्यूहाः पाणिनीयाः (पाoभाo56) ``कृतमपि शास्त्रं निवर्त्तयन्ति इति ज्ञापयितुं समर्थग्रहणमिति वक्ष्यते। द्वे एते परिभाषे समानफले इति च तत्रैव स्फुटीकरिष्यते। तथा चेहापि पूर्वं गुणो न क्रियेत, कृतोऽपि वा निवर्त्तेत `जग्मुषः' इत्यादाविडादिवत्। तस्माद्धातोर्लोपो यस्मिन्निति बहुव्रीहिरेव साधुः। एवं हि सति लोपस्य गुणवृद्धोश्चैकनिमित्तकत्वं लभ्यते इति न कश्चित्पूर्वोक्तदोषः।
   स्यादेतत्, आरभ्यमाणेऽप्यस्मिन्सूत्रे `लोलुवः' इत्यादौ गुणो दुर्वारः। तथाहि, इह सूत्रे ``ङ्कितिच (पाoसूo1-1-5) इति सूत्रे च निषेध्यं किमित्याकाङ्क्षायां पूर्वत्र निर्णिता इक्पदोपस्थितिरेव सम्बध्येत--धात्वंशलोपनिमित्ते आर्द्धदातुके इक्पदं नोपतिष्ठते। ततश्च `बेभिदः' `मरीमृजः' `भिन्नः' `मृष्टः' इत्यादौ व्यञ्जनस्य गुणवृद्दिप्राप्तिः परमेतस्य प्रघट्टकस्य फलं स्यात्। लोलुवादौ तु स्यादेव गुणः। न च परिभाषां प्रतिशेषिभूततयाऽर्थतः प्रधानयोर्गुणवृद्ध्योरेव निषेधोऽस्त्विति वाच्यम्, शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात्। नहि `राजपुरुषमानय' इत्यादावर्थतः प्रधानभूतोऽपि राजा आनयनेनाऽन्वेति, अपि तु पुरुष एव। प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोपस्थितेरेव, कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात। आह च---
साकाङ्क्षावयवं भेदं परानाकाङ्क्षशब्दकम्।
कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ।। इति ।।
   किञ्च सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नञोऽन्वयो न तु नामार्थेन। तदुक्तम्--
  प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ्। इति।
   अत एव पुरुषवचनयोरसङ्करः। अन्यथा हि `घटो नास्ति' `त्वं नासि' `अहं नास्मि' इति पुरुषव्यवस्ता न स्यात्। घकटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषाप्त्तेः. न हि परमते `त्वं नासि' `त्वदभावोऽस्ति' इत्यनयोरर्थे कश्चिद्विशेषः, नञर्थं प्रति प्रथमान्तपदोपस्थापितस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संसर्गेण प्रकारताभ्युपगमेऽपि युष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात्। एवं वायौ रूपाणामबावोऽस्तीतिवद्रपाणि न सन्तीत्यत्राप्यस्तीत्येकवचनं स्यादित्यन्यत्र विस्तरः।
   एवं कारकविभक्तेरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथाऽपीति ``कारके (पाoसूo1-4-23) इति सूत्रे वक्ष्यमाणत्वाद् `भूतले घटो नास्ति' इत्यादावधिकरणत्वं क्रियान्वय्येव न तु नञर्थान्वयि। तथाचसकलकारकविशिष्टक्रियायां नञर्थान्वयः। नञो द्योतकतेति निष्कृष्टपक्षे तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः। उभयताऽपीह गुणवृद्ध्योः प्रतिषेघो दुर्लभ एवेति।
   अत्राहः--क्रिययैव सह विधेरिव निषेधस्यान्वयः शाब्द इति सत्यमेव, किन्तु क्रियैव केति संशये त्वदुक्तरीत्या सन्निहितापीक्पदोपस्थितिरिह न सम्बध्यते। तथाहि सति ``दीधीवेवीटाम् (पाoसूo1-1-6) इति सूत्रस्य व्यर्थतापत्तेः। न हि तत्रेक्परिभाषाऽलोन्त्यपरिभाषयोः फले विशेषोऽस्ति। एवं स्थिते ``अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति इति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या `भवतः' इत्यस्योपस्थितस्यगुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृद्ध्योरभावः फलि तो भवतीत्येतावता गुणवृद्ध्योर्निषेध इत्युच्यते। यथाऽऽघाराग्निहोत्रा धिकरणे (जैoन्याo2-2-5) सर्वोऽपि विशिष्टविधिरेव, तात्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं, तद्वन्निषेधेऽपि बोध्यं न्यायसाम्यात्। अत एव हि विधिनिषेधयोर्वाक्यार्थगोचरतेत्यभियुक्ताः। तस्मात् `लोलुवः' `पोपुवः' `मरीमृजः' इत्युदाहरणं सिद्धम्। प्रत्युदाहरणं तूच्यते--धातुलोप इति किम्? आर्द्धदातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्ध्योर्विकल्पो मा भूत्। आर्द्धधातुक इति किम्? ``तुर्वी थुर्वी दुर्वी धुर्वी हिंसाया (धाoसूo 572।572।573।574।) ``मुर्छा मोहसमुच्छ्राययोः (धाoसूo 212) एभ्यो यङ्लुगन्तेब्यस्तिबादौ सार्वधातुके पिति परे `तोतोर्त्ति' `मोमोर्त्ति' इत्यादौ निषेधो मा भूत् ``राल्लोपः (पाoसूo6-4-21) इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात्। इदं च राल्लोपे क्‌ङिद्ग्रहणाननुवृत्तिपक्षमाश्रित्योक्तम्। तदनुवृत्तिपक्षे तु `तोतीर्मि' इत्याद्युत्तमपुरुषैकवचनउदाहरणं बोध्यम्। अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः। ननु `तोतेर्ति' इत्यादि प्रागुक्तमप्युदाहरणमस्तु। राल्लोपस्याप्रवृत्तावपि ``लोपो व्योः (पाoसूo6-1-66) इति लोपादिति चेत्? न, तस्य वर्णमात्रनिमित्तकतया गुणेन सहैकनिमित्तकत्वाभावात्। न हि तत्र प्रत्ययग्रहणं तदाक्षेपकं वा किञ्चिदस्ति। अत एव गौधेरादिषु प्रत्ययपरतां विनाऽपि यलोप इति दिक्।
   इक इति किम्? `अभाजि' `रागाः'। ``भञ्जेश्च चिणि (पाoसूo6-4-33) ``घञि च भावकरणयोः (पाoसूo6-4-27) इत्युपधालोपे कृते वृद्धिर्यथा स्यात्। कथं तर्हि `पापचकः' इत्यत्र वृद्धिप्रतिषेध इति चेत्? शृणु, पापच्यतेर्ण्वुलि ``यस्य हलः (कपाoसूo 6-4-49) इत्यत्र `अहर्यात्' `अमव्यीत्' इत्यादिवारणाय यस्येति संदातग्रहणेऽकपि ``आदेःपरस्य (पाoसूo1-1-54) इति हल्मात्रलोपे कृते ``अतो लोपः (पाoसूo6-4-48) इति पृथगल्लोपे तस्य स्थानिवद्भावेन पापचकादौ न वृद्धिः। न त्विह ``न धातुलोपे (पाoसूo1-1-4) इति सूत्रस्य कश्चिदपि व्यापारः। यङ्लुगन्ताण्ण्वुलि `पापाचकः' इति भवत्येव वृद्दिः `नोनाव' इतिवत्। एतेन ``न दातुलोप (पाoसूo1-1-4) इत्यत्रेक इत्यनुवृत्तेः `पापाचकः' इतिवन्नधातुसूत्रे `बेभिदिता' `मरीमृजिता' इत्युदाहरंश्च कौमुदीकारः परास्तः, पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे च सति वृद्धेरसम्भवात्। अत एव वृत्तिकारादयोऽप्यत्र सूत्रे ऽच्‌प्रत्ययान्तान्येव लोलुवादीन्युदाजर्हुः। भिदिमृज्योस्तु यदि यङ्लुक् तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव, `बेभेदिता' `मरीमार्जिता' इति यथा। यदि तु ``यस्य हलः (पाoसूo 3-4-49) इत्यवयवलोपस्तर्हि स्थानिवद्भावादेव गुणाद्यप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्त्वमित्यवधेयम्। भाष्यकारस्तु ``यस्य (पाoसूo6-4-148) इति लोप इवाचि लुक्यपि पृथगल्लोपमाश्रित्यैतत्सूत्रं प्रत्याचख्यौ। न च येननाप्राप्तिन्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम्, ``यस्य हलः (पाoसूo6-4-49) इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्त्य यशब्दस्यातो लोपविधानेन लुग्बाधनात्। अवशिष्टं व्यञ्कजनमात्रं लुकोऽवकाशः। ततश्चाल्लोपस्य स्थानिवत्त्वादेव `बेभिदिता' `मरीमृजिता' `पापचकः' इत्यादावपि पृथगल्लोपापत्तिः, चकारानुकृष्टबहुलग्रहणाज्जायमानस्यानैमित्तकस्य लुकोऽन्तरङ्गतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तेः। नन्वेवं `चेक्रियः' `लोलुवः' `तोष्टुवः' इत्यादावल्लोपस्य स्थानिवत्त्वाद्यथा गुणो न, एवमियङुवङावपि न स्यातामिति चेत्? सत्यम् अचमाश्रित्य न भवत एव, उक्तयुक्तेः; किन्तु स्थानिवद्भावलब्धमकारमाश्रित्य भविष्यतः। स हि यकारे लुप्ते प्रत्ययसंज्ञकः।
   स्यादेततू, लोलुवादिष्वकारे लुप्ते यलुगिति क्रमः। तत्र यकारावस्तानकाले अकारेण प्रत्ययत्वं न लब्धमेव। लुप्तेऽपि तस्मिन्नकारो नास्त्येव ततः प्रागेव लोपात्। सोयमसत्कयं प्रत्ययतां लभेत? तल्लोपस्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत्? स्थानिनि दृष्टं हि कार्यं तद्वद तिदेशेन लभ्यते, न तु तत्रादृष्टमपि।
   अत्राहुः--तत्र सम्भावितमात्रमतिदिश्यते। यदि हि लोपस्य स्थानिभूतो ऽकार इह लुप्तेऽपि यकारे तिष्ठेत्तर्हि प्रत्ययतां लभेतोवलङादिकं च प्रवर्त्तयेदिति कथं नातिदेशः। वरोनिषेधश्चेह लिङ्गम्। स हि यातेर्यङन्ताद्वरच्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेन ``आतो लोप इटि च (पाoसूo 6-4-64) इत्यालोपो मा भूदित्येतदर्थं क्रियते। स्थानिनिदृष्टस्यैवातिदेशे तु किन्तेन? न हि `या--या--य' इत्यस्यामवस्तायामातो लोपस्य प्राप्तिः अनजादित्वादिति दिक्।
   नन्वेवं `चेक्षियः' `तोष्टुवः' इत्यत्र ``अन्तरह्गानपि (पाoभाo52) इति न्यायेनाकृते एव ``अकृत्सार्वधातुकयोः (पाoसूo7-4-25) इति दीर्घे यङो लुक्। ततोऽल्लोपस्य स्थानिवद्भावे सत्यपि चेक्षि अ अ तोष्टुं अ अ इति स्तान्यकारेण सह लघूपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादेव। सत्यम्, अन्तरङ्गीवियङुवङौ भविष्यतः। यथाह वार्त्तिककारः--``शचङन्तस्यान्तरङ्गलक्षणत्वात् (काoवाo) इति। तताच ``रिपि गतौ (धाoसूo124।125)``धि धारणे (धाoसूo 126) इत्येषां तुदादित्वाच्छे कृते `रियति' `पियति' `धियति' इति भवति। `अशिश्रियत्' `प्रादुद्रुवत्' इति च ``णिश्रि (पाoसूo 3-1-48) इति चङीयङुवङो भवतः। तस्मात्पृथगल्लोपेनैव सकलनिर्वाहात् ``न धातुलोपे (पाoसूo1-1-4) इति सूत्रन्नारम्भणीयम्। न चैवं `मरिमृजः' इत्यत्र ``मजेरजादौ संक्रमः (काoवाo) इति पाक्षिकवृद्धिप्रसङ्गः, हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तेः, निष्कर्षे तु ``यथोत्तरं मुनीनाम्प्रामाण्यात् इष्टापत्तेः। व्यवस्तितविबाषा वाऽस्तु। अत्र वदन्तिगुणोपदालोपयुटां न लोपाल्लोपयोरपि प्रसङ्गात्पृतगल्लोपो लुकि वक्तुं न शक्यते। तथाहि, सर्वक्षत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयङुवङोः कृतयोर्लगूपधलक्षणो गुणः प्राप्नोति। न चेह स्थानिवद्भावः आदिष्टादचः पूर्वत्वात्। किञअच `जङ्गमः' इत्यत्र ``गमहन (पाoसूo6-4-97) इत्युपधालोपः स्यात्। अथात्रानङीति प्रतिषेधस्तर्हि `दरीदृशः' इत्यत्र ``ऋदृशोऽङि (पाoसूo6-4-63) इति युट् स्यात्। किञ्च `सनीस्रंसः' `दनीध्वंसः' ``अनिदिताम् (पाoसू06-4-24) इत्युपधालोपः स्यात्। अपि च `यायाः' `वावाः' इत्यादिष्वाका***** स्यात्। तस्मात्समुदायलुगेवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्बणीयमिति। अत्रोच्यते, लोलुवादिषु गुणस्तावन्न भवति स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वेन स्थानिवद्बावात्। अत एव हि ``न पदान्त (पाoसूo1-1-58) इति सूत्रे सवर्णग्रहणं कृतम्। `शिण्ढि' इत्यादावनुस्वारस्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्त्तव्ये श्नसोरल्लोपस्य स्थानिवद्भावो मम भूदिति। नन्वनादिष्टादचः पूर्वत्वस्य शास्त्रीयकार्यत्वाभावात्कथमतिदेस इति चेत्? अनादिष्टादचः पूर्वत्वापेक्षे ``अचः परस्मिन् (पाoसूo 1-1-57) इत्यतिदेशे कर्त्तव्ये ``स्थानिवदादेश (पाoसूo1-1-56) इत्यस्य प्रवत्तिसम्भवात् सवर्णग्रहणव्याख्यावसरे सर्वैरित्थमेवोपपादितत्वाच्च। ननु योत्रादेश उवङ्सोनादिष्टादचः पूर्वतां स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह किञ्चित्कार्यं विधीयते येनाल्लोपः स्थानिवत्स्यात्। यस्य च कार्यं विधीयते उकारस्य नासावादेशः येन स्थानिद्वाराऽपि पूर्वतां लभेत। सत्यम्, `सर्वे सर्वपदादेशाः' इत्याश्रयणात्स्थान्यादेशिभावस्तावदर्थवति विश्राम्यति। अत एव ``एरु (पाoसूo3-4-86) इत्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योपसङ्ख्यानं नारब्धव्यमिति वक्ष्यते। अत एव च स्थानिवदित्युक्तौ सम्बन्धिशब्दत्वादेवादेश इत्यस्य लाभे सिद्धे पुनरादेशग्रहणमानुमानिकस्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते। एवञ्चेहापि लोलू इत्यस्य लोलुघ् इत्यादेशः, स चानादिष्टादचःक पूर्वः स्थानिवद्भावात्। तस्य च लोलोव इत्यादेशे कार्येऽल्लोपः स्थानिवदिति युक्तमेव। किञ्च, ``ज्ञाजनोर्जा (पाo सूo 7-3-79) इति ``रीङ् ऋतः (पाoसूo7-4-27) इति च सूत्रे दीर्घोच्चारणेन ``अङ्गवृत्ते पुनर्वत्तावविधिर्निष्ठितस्य (पoभाo93) इति परिभाषा ज्ञापयिष्यते। तेनोवङि कृते गुणो न भविष्यति। `दरीदृशः' इत्यत्र गुणो न भवति प्रतिपदोक्तस्याङो ग्रहणात्। `अदर्शत्' इति यता। यङस्त्वकार उपदेशवेलायां न प्रत्त्ययः किन्तु तदवयवः, यकारे लुप्ते तु नासौ ङकारविशिष्टो न वाश्रूयते। किन्तु तर्कैकगोचरत्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः। नन्वेवमनङीति पर्युदासेऽकप्यस्याग्रहणात् `जङ्गमः' इत्यत्राल्लोपः स्यादिति चेत्? न, अनङीति पर्युदासेनाङ्सदृशे औपदेशिके अजादौ श्रूयमाणाजादौ वोपधालोपविधानात्। अर्थवानेवाङ्गुणविधौ गृह्यते इति तु न सम्यक् विकरणानामनर्थकत्वात्। यत्तु `देद्यः' इत्यत्र युट् स्यादिति। तन्न, अनुबन्धनिर्द्देशात्। तदुक्तम्---
श्तिपा शपानुबन्धेन निर्द्दिष्टं यद् गणेन च।
यत्रैकाकज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ।। (पाoभाo131) इति।
   ``दीङो युडचि (पाoसूo6-4-63) इति सूत्रे दीङ इत्यनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थ इति त्वयैवोक्तत्वाच्च। अत्र च ज्ञापकम् ``एकाच उपदेशे (पाoसूo1-3-2) इति सूत्रे यङ्लुङ्निवृत्तिमुद्दिश्य क्रियमाणमेकाज्ग्रहणम्। न हि तस्मिन्कृतेऽप्युक्तपरिभाषां विना `बेभेदिता' इत्यादि सिद्ध्यति। `बिभेत्सति' इत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयमेनोपदेशग्रहणस्योभयविशेषणतायाः सिद्धान्तयिष्यमाणत्वात्। न चैवम पिश्तिपाशपेत्याद्यंशान्तरे कथं ज्ञापकमिति वाच्यम्, एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य ``गतिकारकोपपदानाम् (पाoभाo76) इत्यादौ बहुशो दृष्टत्वात्। न चैवमेकाच इति विधीयमानं द्वित्वमपि यङ्लुकि न स्यादिति वाच्यम् ``गुणो यङ्लुकोः (पाoसूo7-4-82) इति ज्ञापकेन तत्प्रवृत्तेः। यङ्लुकि `बेभेदिता' इत्यादाविडागमे तूदाहृतपरिभाषैव शरमम्। ``द्विःप्रयोगो द्विर्वचनं षाष्ठम्(भाoइo) इति वक्ष्यमाणतया धात्त्वन्तरत्वस्य वक्तुमशक्यत्वात् `बेभेदिता' इति यङ्न्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावान्नेण्निषेधः पूर्वस्मादपि विधौ स्थानिवद्भावस्य वक्ष्यमाणत्वात्। किञ्च, ``यस्य (पाoसूo 6-4-148) इति लोपस्य त्वयाऽप्यवयवलोपत्वं स्वीकृतम्। तत्र यद्यपि `देद्यकः' इत्यत्र युट् स्यादिति नापादनार्हम्, हलः परत्वाभावेनेह यलोपाप्रवृत्त्या `देदीयकः ' इति रूपाभ्युपगमात्। `सनीस्रसकः' इत्यादौनलोपोपि सर्वसम्मतत्वादेव नापाद्यः, `यायायकः' `वावायकः' इत्यादावाल्लोपोऽप्यनापाद्यः, यलोपविरहेणाजादिक्ङिदार्द्धधातुकपरत्वाभावा त्; तथापि गमर्यङन्ताण्ण्वुलि `जङ्गमकः' इत्यात्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभाव इवोपधालोपः स्यात्। अथात्रानङीति प्रतिषेधस्तर्हि `दरीदृशकः' इत्यत्र ``ऋदृशोऽङि (पाoसूo7-4-16) इति गुणः स्यात्। अथ यदीहाङ्गवृत्तपरिभाषया ``संज्ञापूर्वको विधिरनित्यः(पाoभाo94) इति वा समाधीयते तर्हि यङ्लुक्यपि `सनीस्रंसः' इत्यत्र नलोपो `यायाः' `वावाः' इत्यालोपश्च न शङ्क्यः, समाधानस्य तुल्यत्वादिति दिक्।

क्ङिति च (पाoसूo1-1-5)। इक इति शब्दमुच्चार्य विहिते गुणवृद्धी। गितं कितं ङितञ्च निमित्तनयाऽऽश्रित्य ये प्राप्नुतस्ते न स्तः। गित् जिष्णुः, ``ग्लाजिस्थश्च ग्स्नुः (पाoसूo3-2-139) चायं किदेवास्त्विति वाच्यम्, `स्थास्नुः' इत्यत्र `घुमास्था (पाoसूo6-4-63) इतीत्वप्रसङ्गात्। न चैवं `भूष्णुः' इत्यत्रेट्प्रसङ्गः ``श्रूयुकः किति (पाoसूo7-4-11) इत्यत्रापि चर्त्त्वेन गकारप्रश्लेषमाश्रित्य तन्निषेधात्। न चैवं चर्त्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्तेतेति वाच्यम्, ``न मुने (पाoसूo8-2-3) इत्यत्र नेति योगविभागात्सौत्रत्वाद्वा। तथाच ``ग्लाजिस्थ (पाoसूo3-2-139) इति सूत्रे श्लोकवार्त्तिकम्----
क्स्नोर्गित्त्वान्न स्थ ईकारः किन्ङितोरीत्वशासनात्।
   गुणाभावस्त्रिषु स्मार्यः श्रुयको ऽनिट्त्वं कगोरितोः ।। इति। जयादित्योऽप्येवम्। वामनस्तु ``ग्लाजिस्थश्च (पाoसूo3-2-139) इत्यत्र स्था आ इत्याकारं प्रश्लिष्य कस्नुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वीत्वमिति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारप्रश्लेषः कार्य इत्याह। नन्वेतेन तन्मते ``दंशेच्छन्दस्युपसंख्यानम्(काoवाo) इति क्स्नौ `दंक्ष्णवः पशवः' इत्यत्र ``अनिदिताम् (पाoसूo 6-4-24) इति नलोपः स्यात्। सत्यम्, छान्दसत्वात्समाधेयः. कित्--`चित' `स्तुतं' `मृष्टम्'। ङित्--`चिनुतः' `सुनुतः' `मृष्टात्'। निमित्तसप्तम्याश्रयणं किम्? व्यवहितेऽपि यथा स्यात्--`छिन्नं' `भिन्नम्'। इक इति किम्? कामयते। शब्दव्यापाराश्रयणं किम्? लैगवायनः। ओर्गुणो हीक एव प्रवर्त्तते न तत्रेक्पदोपस्थितिः ओरितिनिर्द्दिष्टस्थानिकत्वात्। तदुक्तम्--``तद्धितकाम्योरिक्प्रकरणात् इति। ननु क्ङितीति सप्तमीनिर्द्देशात्``तस्मिन्नितिनिर्द्दिष्टे पूर्वस्य (पाoसूo1-1-66) इति परिभाषोपतिष्ठेत, तत्र निः शब्दस्य नैरन्तर्यपरत्वाद्दिशेश्चोच्चारणक्रियत्वादव्यवहितोच्चारितस्य निषेधः स्यान्न तु `छिन्नं' `भिन्नम्' इत्यादेरपीते चेत्? भवेदेवं, यदि क्ङितीत्येतन्निषेध्यया क्रियया साक्षात्सम्बध्येत। इह तु गुणवृद्धिभ्यां सम्बध्यते। ``यस्य च भावेन (पाoसूo2-3-37) इति सप्तमी, क्रियान्तराश्रयणादौत्सर्गिकसत्ताक्षेपः. ततश्च क्ङिति सति प्राप्तेय ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति न त्विह विशिष्यनिमित्ततायां सप्तमीविधानमस्ति। न चात्र निर्द्दिष्टपरिभाषा सम्भवति, विध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्यक्रियान्वयिन्येव प्रवृत्तेः। इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः। अतोऽत्र न परिभाषाप्रवृत्तिः। अन्यथा ``वृद्धिर्यस्याचामादिः (पाoसूo1-1-73) इत्यत्रेक्परिभाषोपस्थाने शालीयादिर्न सिध्येत्। न ह्यत्रेकः स्ताने वृद्धिः। अत एव ``उदीचामातः स्थाने (पाoसूo7-3-46) इति सूत्रे स्थाने ग्रहणं कृतम्। आतः स्थाने योऽकार इत्यनूद्यमानस्य विशेषणे आत इत्यस्मिन् ``षष्ठी स्थाने योगा (पाoसूo1-1-49) इति परिभाषाया अप्रवृत्तेः। ``गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्स्यात् (जैoसूo3।1।22) इति न्यायोप्यत्रानुसन्धेयः। ननु तर्ह्यनेनैव न्यायेन क्ङितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषबूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्य सम्भवतस्त्यागायोगादिति चेत्? न , यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते। यथा पानीयमेलादिसंस्कृतं पुरुषेण। उक्तञ्च----
गुणः कृतत्मसस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ।। इति ।।
   इह गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोः प्रधानस्य महानुपकारो भवति व्यवहितस्यापि प्रतिषेधसिद्धेः। क्नोः कित्करणञ्चात्र ज्ञापकम्। अन्यथा प्रधानेनैवान्वये निर्द्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवहिते निषेधस्याप्रवृत्तौ व्यर्थमेव क्नोः कित्त्वं स्यात्। तस्माद्यथाव्याख्यानमेव साधु। ननु न यदीयं परसप्तमी तर्हि शचङ्न्ते दोषः लघूपधलक्षणगुणप्राप्तेरिति चेत्? न, अन्तरङ्गत्वादियङुवङ्प्रवृत्तेः। `` धि धारण (धाoसूo126) `रि पि गतौ (धाoसूo124।125) तुदादयः, धियति रियति पियति। ``णिश्र(िद्रुस्रु भ्यः कर्त्तरिचङ् (पाoसूo 3-1-48) अशिश्रियत्, अदुद्रुवत् असुस्रुवत् इह तिपमाश्रित्य प्राप्तो गुणोबहिरङ्गः शचङाश्रयावियङुवडावन्तरङ्गौ। तदुक्तम्-``शचङन्तस्यान्तरङ्गलक्षणत्वात् इति। (काoवाo) ``मृजेरजादौ संक्रमे वृद्धिर्वेष्यते इति काशिकायाम्। इदञ्च ``इको गुणवृद्धी (पाoसूo1-1-3) इति सूत्रप्रसङ्गाद्वैयाकरणान्तरमतत्वेनोक्तं भाष्ये। अस्यार्थः-संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्या गुणवृद्धिप्रतिषेधनिमित्तभूतः क्ङित्प्रत्ययोऽत्र संक्रमशब्देनोच्यते, योगरूढेः। तेन `मरीमृजः' इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषेधहेतावप्यच्प्रत्यये नासौ विक्लपः प्रवर्त्तत इत्यवधेयम्। अत एव ``क्ङित्यचि वा इति वचनं तत्र भाष्ये कृतम्। मृजन्ति, मार्जन्ति। अत्र हरदत्तः--अचीत्युच्यमानेऽपि ``यस्मिन्विधिस्तदादावल्ग्रहणे(पoभाo33) इति सिद्धे आदिग्रहणं मुख्याजादिग्रहणार्थम्। व्यपदेशिवद्भावेनाजादौ `यूयं ममृज' `त्वया ममृजे' इत्यादौ न भवतीति। तच्चिन्त्यम्, मुख्याजादिपरिग्रहे प्रमाणाभावात्। न हि भाष्ये आदिग्रहणं कृतं येन त्यदुक्तार्थो लभ्येत, किन्तु ``क्ङित्यचि वा इति वचनं पठितम्। यत्तु ततः प्रागुक्तं भाष्ये``इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते इति, तत्तु तदादिपरिभाषाबललब्धवाक्यार्थानुवादमात्रं न तु परकीयविधिवाक्यशरीरमिदं, येन त्वदुक्तमर्थं ज्ञापयेत्। अत एवात्रेयो `मृजा' इति भिदादिपाठादङ् गणपाठादेव वृध्यभाव इत्याह। अत एव रक्षितेनापि धातुप्रदीपे `तुन्दपरि मृजः' तुन्दपरिमार्जः' इत्युभयं दर्शितम्। दुर्घटवृत्तौ तु `तुन्दपरिमृजः' इत्यत्र व्यवस्थितविभाषया वृद्दिर्नेत्युक्तम्। अत एव धातुवृत्तिषु `यूयं ममृज, ममार्ज' इति रूपद्वयमुदाहृतम्। यत्तु मुख्याजादिग्रहणवादिनोऽपि मते ऽत्र वृद्धिविक्लपो दुर्वार एव। तताहि, मध्यमपुरुषबहुवचनस्य थस्य ``परस्मैपदानाम्(पाoसूo3-4-82) इति सूत्रेण विधीयमानोऽकारादेसोऽलोन्त्यस्य प्राप्नोति। न चैवं विधिवैयर्थ्यम्, णलादीनां यथासंख्यसम्पादनेन चरितार्तत्वादित्याशङ्क्य भाष्यएव द्वेधा समाधास्यति--कारद्वयात्मकोऽयमनेकाल्त्वात्सर्वादेशः। यद्वा ``दातोः (पाoसूo 3-1-91) इत्यधिकारद् ``आदेः परस्य (पाoसूo1-1-54) इति थकारमात्रस्याकार इति। तत्र पक्षद्वयेपि ``अतो गुणे (पाoसूo6-1-97) इति पररूपस्य ``अचः परस्मिन् (पाoसूo1-1-57) इति स्थानिवद्भावान्मुख्याजादित्वमप्यस्त्येवेति कैश्चिद्धरदत्तमिश्रमते दूषणमुक्तम्। तन्न, ``आद्यन्तवद् (पाoसूo1-1-21) इत्यतिदेश इव स्थानिवद्भावेऽपि मुख्यत्वाभावस्य सुवचत्वादिति दिक्।
   स्यादेतत्, `अचिनोत्' `अमार्ट्' इत्यादौ स्तानिवद्भावेन तिपो ङित्त्वात् ``क्ङिति च (पाoसूo 1-1-5) इति गुणवृद्दिनिषेधः स्यात्। न चाल्विधित्वात्स्थानिवद्बावासम्भवः अनुबन्धकार्येष्वनल्विदाविति निषेधस्याप्रवृत्तेः। अन्यथा `अचिनवम्' `अमार्जम्' इत्यादावपित्त्वेन ``सार्वदातुकमपित् (पाoसूo1-2-4) इति ङित्त्वापत्तेः। इह च ज्ञापकं ``न ल्यपि (पाoसूo 6-4-69) इति सूत्रम्। अन्यथा ल्यपः कित्त्वाभावादेवेत्वाप्राप्तौ किन्तन्निषेदार्थेन सूत्रेण? यत्तु ``सेर्ह्यषिच्च (पाoसूo 3-4-27) इत्यपिद्वचनं ज्ञापकमिति। तन्न, ``शृणीहि विश्वतः प्रति इत्यादौ स्थानेन्तरतमपरिभाषया पित्तवादनुदात्तस्य सिपः स्थानेऽनुदात्तस्यैव हेः प्राप्तवुदात्तसम्पादनेन चरितार्थत्वात्। अपित्त्वसामर्थ्याद्धि तत्रान्तरतमपरिभाषा बाध्यते। प्रतिपत्तिलाघवार्थमुदात्त इति वक्तव्ये ऽपिद्वचनं ज्ञापकमिति वाऽस्तु। न्यायसिद्धोऽप्ययमर्थः, अनुबन्धानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्तान्यलाश्रयविधिवि,यकस्य ``अनल्विधौ(पाoसूoएo1-1-56) इति निषेधस्याप्रवृत्तेः,। ``अनुबन्धा एकान्ताः (पाoभाo5)इति **तेऽपि स्थानित्वप्रतीतेः प्रागेवातरङ्गेण लोपेन तेषामपहारात्। तस्माल्लडाद्यादेशानां तिबादीनां स्थानिवद्भावेन ङित्त्वं दुर्वारमिति।
   अत्राहुः--``यासुट् परस्मैपदेषु (पाoसूo 304-103) इति सूत्रे ङिद्वचनं ज्ञापकं-लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति। तथाचवार्त्तिकम्--``लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धम् इति। ननु `स्तुयात्' इत्यादावनिग्लक्षणवृद्धिप्रतिषेधार्थं `चिनुयुः' इत्यादौ ``जुसिच (पाoसूo7-2-83) इत्यस्य प्रतिषेधार्थञ्च यासुटो ङित्त्वमस्तु। ``उतो वृद्धिर्लुकि हलि (पाoसूo 7-3-89) इत्यत्र त्द्युत इति निर्द्दिष्टस्थानिकतयेक्परिभाषा नोपतिष्ठते। ``जुसि च (पाoसूo7-2-83) इति तु ``क्ङिति च (पाoसूo1-1-5) इत्यस्यापवाद एव। तताच स्थानिवद्भावलब्धं ङित्वं `स्तुयात्' `चिनुयुः' इत्यत्र वृद्धिगुणौ निषेद्धुं नालम्। पुनर्ङित्त्वसामर्थ्यात्तु तदुभयनिषेधो भविष्यति। तथाच वृद्धिगुणनिषेधे चरितार्तं यासुटो ङित्त्वङ्कथं लादेशेषु लाश्रयङित्त्वस्य विरहं ज्ञापयेदिति चेत्? उच्यते, ``अत औत्?? इति वक्तव्ये वृद्धिग्रहणं संज्ञापूर्वको विधिरनित्यो यता स्यादित्येव मर्थम्। तेन `स्तुयात्' इत्यत्र न वृद्धिः, तथा `चिनुयुः' इत्यत्र न गुणः ``क्सस्याचि (पाoसूo7-3-82) इत्यतोऽचीत्यनुवर्त्याजादौ जुसि गुणविधानात्। ``मिदेर्गुणोऽकजुसि च इत्यकारं प्रश्लिष्याच्चासावुस् चेति कर्मधारयाश्रयणेनाजादावुसि गुणपिधानाश्रयणे तु `चक्रुः' `जर्हुः' इत्यादावतिप्रसङ्गः।
   गुणेति लुप्तविभक्तिकमुजुसीति च च्छेदः। उकारादौ जुसीति चार्थः। ``जुसि गुणे यासुट्प्रतिषेधः (काoवाo) इति वार्त्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमिति तावद्वार्त्तिककारस्य हृदयम्।
   भाष्यकारमते तु ``सार्वधातुकमपित्(पाoसूo1-2-4) इति सूत्रेऽपिदिति योगं विभज्य ङिदिति चानुवर्त्यावृत्तिञ्चाश्रित्य ङिच्च पिन्न पिच्च ङिन्न भवतीति वाक्यार्थद्वयं वर्ण्यते। इदञ्च ``हलः श्नः (पाoसूo3-1-73) इति सूत्रे भाष्ये स्पष्टम्। तेन `ब्रूतात्' इत्यत्र ब्रुव ईण्न तातङ् औपदेशिकङित्वेनान्तरङ्गेणातिदेशिकस्य बहिरह्गस्य पित्वस्य बाधात्, `आतिदिष्टादुपदिष्टं बलीयः' इति न्यायात्। `अचिनोत्' इत्यादौ त्वौपदेशिकेन तिबादीनां पित्त्वेन लाश्रयमातिदेशिकं ङित्वम्बाध्यते। तेन गुणादिसिद्धिः। अस्मिंश्च पक्षे यासुटो ङित्ववचनं न ज्ञापकं किन्तु `मृज्यात्' इत्यादावप्राप्तङित्वविधायकम्। तेन च पित्त्वस्य `चिनोति' इत्यादौ सावकाशस्य वाधः। अतः `स्तुयात्' इत्यादौ पिति हलीति विधीयमाना वृद्धिर्न प्रवर्त्तते। `चिनुयुः' इति तु प्राग्वदेव समर्थनीयम्। पूर्वोदाहृतवार्त्तिकमते तु `ब्रूतात्' इत्यत्रेट् प्राप्नोति। ``आगमशासनमनित्यम् इति तु कथं चित्समाधेयः। वस्तुतस्तु ``हलः श्नः सानज्ज्ञौ (पाoसूo3-1-83) इति शानचः शित्करणेन ``क्वचिदनुबन्धकार्येप्यनल्विधाविति निषेधः प्रवर्त्तते इति ज्ञाप्यते। तेन `ब्रूतात्' इत्यादौ न कश्चिद्दोष इति। अत एव भाष्यमते `भविषीष्ट' इत्यत्र ङित्वन्न `करिष्यमाणा' इत्यत्रोगिल्लक्षणाटिल्लक्षणश्च ङीब्नेति दिक्।

दीधीवेवीटाम् (पाoसूo1-1-6)
दीधीवेव्योरिटश्व गुण्वृद्धी न स्तः। आदीध्यनम्, आदीध्यकः। आवेव्यनम् आवेव्यकः। अकणिषम्। अरणिषम्। कणिता श्वो रणिता श्वः। इहामं प्रति सिजन्तमङ्गम्। तिपो डादेशं प्रति तु `कणित्' `रणित्' इति तान्तमङ्गं, तस्यामं डादेशं च सार्वधातुकं निमित्तीकृत्य लघधूपधगुणः प्राप्तोऽनेन निषिध्यते। वृद्धिस्त्विटो न सम्भवत्येव। लुडन्ततां स्फोटयितुं श्व इत्यस्य प्रयोगः। न हि तृजन्ते तृन्नन्ते वेटो गुएणप्राप्तिः प्रत्ययावयवत्वात्तस्य। अथ ``दीङ् क्षेये (धाoसूo28) ``धीङ् अनादरे (धाoसूo 30) ``वेञ् तन्तुसन्ताने (धाoसूo38) तेषामिह ग्रहणं कुतो नेति चेत्? न, अवयवप्रसिद्ध्यपेक्षया समुदायप्रसिद्धेर्बलवत्त्वात्। किञ्च चतुर्णां ग्रहणेऽभिप्रेतेऽसन्देहार्थं ``दीवेधीवीटाम्' इत्येव ब्रूयात्। इट् चात्रागम एव गृह्यते न ``इट् गतौ (धाoसूo 319) इति धातुः। ननु दातुसाहचर्याद्धातुरेव गृह्यताम्। मैवम्, साहचर्यस्य सर्वत्रानियामकत्वात्। अन्यथा ``द्विस्त्रिश्चतुरिति कृत्वोर्थे (पाoसूo7।3।43) इति सूत्रे कृत्वोर्थग्रहणं न कुर्यात्, द्विस्त्रिरिति सुजन्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहमसम्भवात्।अत एवागमापेक्षया प्रकृतेरभ्यर्हितत्वाद्दीधीङः पूर्वानिपातः सूत्रे कृतः। इटोऽपि धातुत्वे तु प्रकृतित्वाविशेषेऽप्यल्पाच्तरत्वात्तस्यैव पूर्वनिपातः स्यात्।
   अत्रेदमवधेयम्, `दीध्यकः' `वेव्यकः' इति यदुदाहृतं तद्दीधीवेवीब्यां शुद्धाभ्यमेव ण्वुलि रूपं न तु ण्यन्ताभ्यामपि। यत्तु ``यीवर्णयोः (पाoसूo7-4-53) इति सूत्रे हरदत्तेनोक्तम्--वर्णशब्दो ``वर्ण विस्तारे (धाoसूo406) इतिधातोः पचाद्यजन्तः, श्रूयमाण एव वर्णे यता स्थानिवत्त्वोपि श्रूयमाणत्वाबावाल्लोपाभावे यणि कृते `दीध्यकः' `वेव्यकः' इत्येव शुद्धेन समानाकारं रूपं भवतीति, तदेतत्, ``नाग्लोपिशास्वृदिताम् (पाoसूo 7-4-2) इत्येतस्मिन्सूत्रे भाष्यकारैरेव ण्यन्तस्य `दीधकः' इति रूपं शुद्धस्य तु `दीध्यकः' इति व्युत्पादितत्वात्सिद्धान्तविरोधादुपेक्ष्यम्। तत्र हि वर्णग्रहणं लुप्तेऽपि वर्णे यथा स्यादित्येवमर्थमित्याशङ्क्य स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाण्णिलोपात्प्राग् ``यीवर्णयोः(पाoसूo7-4-53) इति लोपसिद्धेस्व वर्णग्रहणं प्रत्याख्यातम्। ननु वर्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुसृत्यब्रूम इति चेत्? सत्यम्, तथापि ``यथोत्तरं मुनीनां प्रामाण्याद्रूपाशुद्धिस्तदवस्थैवेति दिक्।
   स्यादेतत्, दीधीवेव्योर्ङित्वात् ``ङ्किति च(पाoसूo1-1-5) इति सूत्रेणैव निषेधोऽस्तु किमिह दीर्घीवेवीग्रहणेन ? मैवम्, इग्लक्षणयोर्हि स निषेध इत्युक्तमअ। न च ``अचो ञ्णिति (पाoसूo 7-2-115) इति वृद्धिरिग्लक्षणा। किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि। न च कार्यी निमित्ततयाऽऽश्रीयते `च्यवते' `प्लवते' इत्यादावपि गुणनिषेधापत्तेः। अत्र च लिङ्गं कुटादिमध्ये ``कूङ् शब्दे (धाoसूo121) इत्यस्य पाठः ``स्थाण्डिलाच्छयितरि (पाoसूo4-2-15) इति निर्द्देशश्च। यत्तु प्रकृतसूत्रे दीधीवेव्योर्ग्रहणमेवैतत्परिभाषाज्ञापकमिति। तन्न, अनिग्लक्षणवृद्धिनिषेधेन चरितार्थत्वात् भाष्यमते एतत्सूत्रस्य प्रत्यक्या स्यमाननयोक्तपरिभाषायां लिङ्गान्तरस्यैवानुसर्त्तव्यत्वाच्च।
   स्यादेतत्, यदि कार्यी निमित्तत्वेन नाश्रीयते कथं तर्हि `ऊर्णुनविषति' इत्यत्र ``द्विर्वचनेऽचि (पाoसूo1-1-59) इति नुशब्दस्य द्वित्वम्, इष इत्यस्य अजादित्वेऽपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया निमित्तत्वासम्भवात् ``सन्यहो (पाoसूo 6-1-9) इति षष्ठीमाश्रित्य सन्नन्तस्य द्वित्वविधानात्। अन्यथा `प्रतीषिषति' इति सनो द्वित्वं न स्यात्। यत्तु ``सन्यङोः (पाoसूo6-1-9) इति सप्तम्याश्रयणोऽपिसन्यङोरकारोच्चारणसामर्थ्याद् द्वित्वं भविष्यतीति, तन्न दित्सधित्सादिभ्यो यङुत्पत्तिप्रतिबन्धेन ``अचो यद् (पाoसूo3-1-97) इति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात्। अन्यथ `अरिरिषति' इत्याद्यसिद्धेश्च। यदि हि तत्रापि स्थानिवत्स्यादि सो द्विर्वचने कृते `अरिषति' इति स्यात्।
   अत्रोच्यते---कार्यमनुभवन्नेव कार्यी निमित्ततया नाश्रीयत इति परिभाषार्थः। `अरिरिषति' इत्यत्र हि ``अजादेर्द्वितीयस्य (पाoसूo6-1-2) इती रिस्शब्दे द्वित्त्वप्रवृत्तिः। तदन्तर्गतश्चेसूशब्द इति नासौ द्वित्वं प्रति निमित्तं कार्यभाक्त्वात्। `ऊर्णुनविषति' इत्यत्र तु नव्‌शब्दस्य द्वित्वं प्राप्तं तदनन्तर्गतश्चेस्शब्द इति भवत्येव निमित्तं तद्भावभावितामात्रेणेह निमित्ततेति ``सन्यङोः (पाoसूo6-1-9) इति सूत्रे भाष्यकारैरेव स्फुटीकृतत्वात्। तथा च ``द्विर्वचनेऽचि (पाoसूo1-1-59) इति स्थानिवद्भावान्नुशब्दस्य द्वित्त्वमुचितमेव। यत्तु ``द्विर्वचनेऽचि (पाoसूo1-159) इति सूत्रे `अचि किं'? जेघ्रीयते `देध्मीयते' इति प्राचां प्रत्युदाहरणं, तदापाततः, घ्रीय् ध्मीय् इत्यस्य द्वितत्वभाक्तया ``ई घ्राध्यमोः (पाoसूo7-4-31) इतीत्वं प्रति निमित्तभूतस्य यङो द्वित्त्वम्प्रत्यनिमित्तत्वात्। तस्मात्तत्राचीत्यस्य `अधिजगे' इत्येतदेव व्यावर्त्त्यं बोध्यम्, ``गाङ्लिटि (पाoसूo 2-4-49) इति द्विलकारकनिर्द्देशमाश्रित्यलावस्तायामेव गाङादेशविधानात्। अज्ग्रहणन्तु ज्ञापकं रूपस्थानिवद्भावस्येति तत्रत्यवार्त्तिकमपि `अधिजगे' इत्येतस्मिन्नुदाहरणे कार्यातिदेशाश्रयणेऽज्ग्रहणवैयर्थ्यं स्यादित्येव योज्यमिति दिक्‌।
   यत्त्वसिद्धव्त्सूत्रे वक्ष्यते--`अत्र ग्रहणं समानाश्रयप्रतिपत्त्यर्थम्' तन्न, आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु निमित्ततयैवेत्याग्रहः। तेन ``शा हौ (पाoसूo6-4-35) इति शाभावो हेर्धित्वे कर्त्तव्ये ऽसिद्धो भवति। अन्यथा धित्वे हेः कार्यितया निमित्तत्वाभावादसिद्धत्वं न स्यात्। अत एव समानाश्रयमाभीयमाभीयेऽसिद्धमित्येवाहुर्न तु समाननिमित्तमिति।
   इदञ्च सूत्रं भाष्यवार्त्तिकयोः प्रत्याख्यातम्। तथाहि, दीधीवेव्यौछान्दसौ धात् न तु लोके प्रयोगार्हौ। छन्दसि चानयोर्गुणोदृश्यते--`होत्राय वृतः कृपयन्नदीधेत्' `अदीधयुर्द्दीशरज्ञे वृतासः' इत्यादौ। न चा यम्बाहुलकेन समाधेयः, तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनोचितत्वात्। तथेटो।़पि ग्रहणं व्यर्थम् ``आर्द्धदातुकस्येट् (पाoसूo7-2-35) इत्यत्र हि ``नेड् वशइ कृति(पाoसूo7-2-8) इति सूत्रादिड्ग्रहणमनुवर्त्तते। तच्चेटो विकारभावार्थम् इट् इडेव न तु विकृत इति व्याक्यानात्। ततो लघूपधगुणाबावात्सिद्धं `कणिता श्वः' `रणिता श्वः' इत्यादि। न चैवं `पिपठीः' इत्यत्र दीर्घो न स्यादिति वाच्यम्, तस्य नि यमं प्रत्यसिद्धत्वात्। `अपाठीत्' इत्यत्र सवर्णदीर्घस्तु न वार्यते ``सिज्लोप एकादेशे सिद्धो वक्तव्यः (काoवाo) इति ज्ञापकात्। यद्वा, अङ्गाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावर्त्तयति। तेन ``र्वोः (पाoसूo8-2-76) इति ``अकः सवर्णे (पाoसूo6-1-101) इति च दीर्घो भवत्येव। `ग्रहीता' इत्यत्रतु ``ग्रहोऽलिटि (पाoसूo 7-2-37) इत्यारम्भसामर्थ्याद्दीर्घो भवत्येव।
   इदं न्त्ववशिष्यते--`पिपठींषि ब्राह्मणकुलानि' इत्यत्रं ``सान्तमहतः संयोगस्य (पाoसूo6-4-10) इति दीर्घत्वं न स्यात्। सिद्धत्वादाङ्गत्वात् `तेजांसि' इत्यादौ चरितार्थत्वाच्च `पिठठीः' `अपाठीत्' `ग्रहीता' इत्यादिपूर्वोदाहृतेभ्योऽस्य वैलक्षण्यादिति। अत्राहुः--`पिपठींषि' इति प्रयोगोऽसाधुरेव। न ह्यत्र नुमागमो लभ्यते अल्लोपस्य स्थानिवद्भावेनाझलन्तत्वात्। न चैवमजन्तत्वप्रयुक्तो नुम् स्योदेविते वाच्यम्, तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः, सान्तसंयोगाभावात्। वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव स्थानिवद्बावासंभवात्। अनादिष्टादचः पूर्वस्य विधौ हिसः। न चाजन्तमनादिष्टादचः पूर्वं, येन तस्य नुमि कर्त्तव्येऽल्लोपः स्थानिवत्स्यात्। ननु झलन्तत्वप्रयुक्तो नुम् दुर्वारः। न च तस्मिन्कर्त्तव्ये स्थानिवद्भावः शङ्क्यः, ``क्वौ लुप्तं न स्तानिवित् (काoवाo) इति निषेधात्। अन्तथा सखीयतेः क्विपि सखीः सुतीयतेः सुतीरित्यादि न स्यात्, अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात्।
   अत्रोच्यते, ``क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसंख्यानम्(काoवाo) इति तावद्वार्त्तिकशरिरम्। तत्रक्वीत्यंशो यद्यपि द्वेधा व्याख्यास्यतेक्वौ लुप्तं न स्थानिवदिति, `क्वौ विधिम्प्रति न स्थानिवदिति च। देवयतेः क्विपि `दयूः' इत्यादेरन्यतरव्याख्यानाश्रयणेन सिद्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना असिद्धेः, लवमाचक्षाणो `लौः' इत्यस्य द्वितीयव्याख्यानं विनाऽसिद्धेश्च, ततापि `क्वौ विधिं प्रति' इति द्वितीयव्याख्यानमेव सार्वत्रिकम्। ``क्वौलुप्तम् इति तुक्वाचित्कं ``ख्यत्यात्(पाoसूo6-1-112) इत्यत्र ``मपर्यन्तस्य(पाoसूo7-2-91) इत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम्। अत्र चेड्ग्रहणप्रत्याख्यानपरमत्रत्यभाष्यमेव प्रमाणम्। कथमन्यथा `पिपठींषि' इत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत। तस्मात् `पिपठिषि ब्राह्मणकुलानि' इत्येव रूपं भवतीति स्थितम्।

७लोनन्तराः संयोगः (पाoसूo1-1-7)
अज्भिरव्यवहिता हलः संयोगसंज्ञा स्युः। संज्ञाप्रदेशाः ``संयोगान्तस्य (पाoसूo8-2-23) इत्येवमादयः। इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्रा इत्यर्थलाभादवग्रहे संज्ञया न भाव्यम्। आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुव्रीहौ त्त्वादेयनिषेधप्रतीतेरवग्रहेऽपि भाव्यमेव संज्ञाया। न हि तत्रान्तरा मध्ये किञ्चिदस्ति किन्तु मध्यमात्रं वर्त्तते `` मात्रा हस्वस्तावदवग्रहन्तरम् (ऋoप्राo 1-6) इति प्रातिशाख्यबलेन तत्र मात्राकालावसानाभ्युपगमात्। यत्तु प्रातिशाख्यान्तरम्--``अद्धर्मत्रौऽवग्रह इति, तत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्त्वात्ततोऽतिरिकोऽर्द्धबात्राकालोऽवग्रहेऽस्तीत्येवंपरम्। अतः प्रातिशाक्ययोरविरोधः। तदिह कतरः पक्षो ग्राह्य इति चेत्? उभयथाऽप्यदोष इति भाष्यकाराः। ननु `अप्सु' इत्यादौ सत्यां संयोगसंज्ञायां ``संयोगे गुरु (पाoसूo 1-4-10) इति गुरुत्वाद् ``गुरोरनृतः (पाoसूo8-2-86) इति प्लुतेन भाव्यं न त्वन्यथेति महान्फले विशेषः। तत्कयं पक्षद्वयाभ्युपगम इति चेत्? न, `अप्सु' इत्यस्याधिकरणवृर्त्तेर्दूराद्धूतसम्बन्धाभावात्। ``विचार्यमाणानाम् (पाoसूo8-2-97) इत्यादौ तु ``वाक्यस्य टे (पाoसूo 8-2-82) इत्यनुवर्त्तते न तु ``गुरोरनृतः (पाo सूo8-2-86) इति। ननु `अप्सु भवोऽप्सव्यः', दिगादिषु पाठाद्यत् पाठाद्यत् ``अपो योनियन्मतुषु च (काoवाo) इत सप्तम्या अलुक्। ततः सम्बुद्धौ सम्बुद्धौ `हे अप्सव्य' इत्यत्र स्यादेव फलभेद इति चेत्?
   अत्राहुः नैवं विधे विषयेऽवग्रहं पदकाराः कुर्वन्तीति। अत्र च सम्प्रदाय एव शरणमिति बोध्यम्। उक्तञ्चैतत्--`गोभ्यो गातुं' `गोभिर्मदाय' `चित्रइद्राजा राजका इदन्यके' इत्यादौ गोभ्यो गोभिः राजका इत्यादीनां सत्यपि पदन्वेऽवग्रहाकर्णात्। ``ईयिवांसमतिस्रिधः इत्यादावीयिवांसमिति विनापि पदसंज्ञां क्वसोः पूर्वमिडागमान्तेऽवग्र हकराणाच्च। एतेन `सिसासन्' `उक्थशसः' `रिरिषः' इत्यादौ पदकाले सत्त्वह्रस्वत्वादयोपि व्याख्याताः। यत्तु ``मानो महान्तम्(ऋoसंo) इति मन्त्रे वेदभाष्यकारैरुक्तम्--``छान्दसः पदकालीनो ह्रस्वः इति, तदपि संप्रदायमात्रपरतया कथं चिन्नेयम्। `न लक्षणेन पदकाराः' इति भाष्ये, ``पदविभागः पौरुषेयः इति कैयटादिभिरुक्तत्वादिति दिक्।
   कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यते इति चेत्? अवान्तरपदत्वे सत्यवग्रहः क्रियते इत्युत्सर्गमभिप्रेत्येति गृहाण। ``अप्सुयोनिर्वा अश्वः इत्यादावपि सुशब्दात्पूर्वं नास्त्यवग्रहः, अवान्तरपदसंज्ञानेकत्वे उत्तरकालप्रवृत्तिकयाऽवग्रह इति वैदिकसम्प्रदायात्। अत एव `मयूररोमभिः' इत्यत्र भिसः पूर्वमवग्रहः। `नमउक्तिभिः' इत्यत्राप्येवम्। ``इन्द्रप्राणः पुरएतेव इत्यत्र चेवशब्दात्प्रागिति दिक्।
   महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्। संयुज्यन्ते ऽस्मिन्समुदाये वर्ण इति। तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृद्ध्यादिसंज्ञावत्प्रत्येकम्। तता हिसति `निर्यायात्' इत्यादौ यकारः संयोग इति ``वाऽन्यस्य संयोगादोः (पाoसूo6-4-68) इत्येत्वं ********। सिद्धान्ते तु ``अचो रहाभ्याम् (पाoसूo8-4-46) इति द्वित्वे सत्यपि तस्यासिद्धतया `निर्यायात्' इत्यादावेत्वं न भवति। किञ्च, प्रत्येकं संज्ञेति पक्षे `संदृषीष्ट' इत्यत्र ``ऋतश्च संयोगादेः (पाoसूo7-2-43) इतीट्स्यात्। `संह्रियते' इत्यत्र ``गुणोर्त्तिसंयोगाद्योः (पाoसूo7-4-29) इति गुणः `संह्रियते'। `दृषत्करोति' इत्यत्र ककारसन्निधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात्। `शक्ता' `वस्ता' इत्यत्र झाले तकारे परतः ``स्कोः (पाoसूo8-2-29) इति लोपः स्यात्। `निर्यातः' इत्यादै। ``संयोगादेरातो दातोर्यण्वतः (पाoसूo 8-2-43) इति निष्ठानत्वं स्यात्।
   जातौ चेदं बहुवचनं हल इति ``जात्याख्यायामेकस्मिन्(पाoसूo 1-2-58) इति वचनात्। तेन द्वयोरपि संयोगसंज्ञा भवति। अतः `शिक्षा' इत्यादौ ``गुरोश्च हलः (पाoसूo3-3-103) इत्यप्रत्ययः सिध्यति। यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां वा विशेषेणसंज्ञा। न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्, वैषम्यात्। तथाहि, द्विर्वचनं समुदायावयवैकाचोर्युगपत्कर्त्तुमशक्यम्। संज्ञा तु शक्या। तथा समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति ``वृक्षः प्रचलन्सहावयवैः प्रचलति इति न्यायात्। इह तु समुदाये प्रवृत्तया सयोगसंज्ञया नावयवानां तत्कार्यसिद्धिः। अतोऽविशेषेण द्वयोर्बहूनां च संज्ञेति स्थितम्। यदि तु बहूनामेव स्यात्तर्हि `संस्वर्यते' इत्यत्र ``गुणोर्ति (पाoसूo7-4-29) इति गुणो न स्यात्। `गोमान्करोति' इत्यत्र संयोगान्तलोपो न स्यात्। `निर्ग्लानः' इत्यादौ निष्ठानत्वं न स्यादिति दिक्।
ननु यदि द्वयोरपि संज्ञा तर्हीनद्रीयतेः सनि `इन्दिद्रियिषति' इति न स्यात्। इह हि संयोगौ द्वौ नदौ दरौ च। तत्र नकारस्येव दकारस्यापि ``नन्द्राः (पाoसूo6-1-2) इति द्वित्वनिषेधः प्राप्नोति। नैष दोषः। तत्र ह्यजादेरित्यनुवर्त्तते। सा च कर्म्मदारयात्पञ्चमी। तेनादेरचः परे नदाराः संयोगादयो न द्विरुच्यन्ते इति सूत्रार्थः। एवञ्च पूर्वसूत्रे द्वितीयस्येति न कर्त्तव्यमेवेति वक्ष्यते। हलः किम्? तितउभ्याम्। अत्र ``तनोतेर्डउसन्वच्च (उoसूo) इति इउप्रत्ययः, सन्वद्भावाद् द्वित्वं, ``सन्यतः (पाoसूo7-4-89) इतीत्वंच। व्यस्तोच्चारणसामर्थ्याद् गुणाभावः. यदि ह्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यात्तर्हीह ``संयोगान्तस्य (पाoसूo7-3-23) इत्युकारलोपः स्यात्। अनन्तरा इति किम्? पनसम्। यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि ``स्कोः(पाoसूo7-2-29) इति सूत्रेण सकारलोपः स्यादिति दिक्।

मुखनासिकावचनोऽनुनासिकः (पाoसूo1-1-8)।
मुखसहिता नासिका मुखनासिका तयोच्चार्य्यमाणोऽनुनासिकसंज्ञः स्यात्। संज्ञाप्रदेशा ``आङोऽनुनासिकश्छन्दसि (पाoसूo6-1-126) इत्यादयः। अभ्रआँ अपो वृणाना,गभीरआँ उग्रपुत्रे।
इहोच्यत इति वचनः, ``कृत्यल्युटो बहुलम् (पाoसूo3-3-113) इति बाहुलकात्कर्मणि ल्युट्। `राजभोजनाः शालय' इतिवदिति वृत्त्यंनुसारिणः।
भाष्यकैयटयोस्तु उच्यतेऽनेनेति वचनम्। करणे ल्युट्, सामान्ये नपुंसकम् `शक्यंच क्षुदपहन्तुम्' इतिवत्, ``तेन तुल्यं क्रिया चेत् (पाoसूo5-1-115) ``संस्कृतं भक्षाः (पाoसूo4-2-16) इतिवच्च। इदञ्च ``विशेषणानाञ्चाजातेः (पाoसूo1-2-16) इत्यत्र वक्ष्यमाणेन पदसंस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न विरुध्यते, तथा तत्रैव वक्ष्यामः। ततो मुखनासिका वचनं यस्येति बहुव्रीहिः। मुखेति किम्? यमानुस्वाराणामेवमा भूदिति भाष्यम्। तत्र वर्गेष्वादितश्चतुर्णां पञ्चमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्येष्वागमत्वेन विहितं तद्यमसंज्ञम्। यम इव यमः, यमौ हि लोके प्रायेण समानाकारौ भवतः। यथा`पलिक्रक्रीः' `चख्खनतुः' `अग्रग्निः' `अघ्रघ्नन्' इत्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः। यक्तुक्तं विवरणे ``वर्गपञ्चमयुक्ताः प्रथमादयो यमाः इति। तच्चिन्त्यम्, अयोगवाहत्वप्रतिपादकेन हयवरट्सूत्रस्थभाष्येण सह विरोधात्, केवलनासिक्यत्वपरेण यमानुस्वाराणामेवेति भाष्येण सह विरोधाच्च। यथेदं भाष्यं न केवलनासिक्यत्वपरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं, यमानुस्वाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेन नासिक्यत्वमप्यस्ति, न तु तदीयं भागमात्रं तथेत्येवंपरं; तथाप्यादितश्चतुर्णां तदसम्भव एव। किञ्चैवं ``नैव दोषो नैव प्रयोजनम् इति त दुत्तरभाष्यग्रन्थविरोधः `यद् घ्नन्ति' इत्यादौ ``यरोनुनासिके (पाoसूo8-4-45) इत्यस्य प्रवृत्त्यापत्त्या त्वत्पक्षे दोषस्योद्भटत्वात्। अत एव प्रातिशाख्ये ``स्पर्शा यमानननुनासिकाः स्वान्परेषु स्वर्शेष्वनुनासिकेषु (ऋoप्राo6-29) इत्युपक्रम्भ `प्रदोधुवच्छ्मश्रुषु' इत्यत्र यमं निषेद्धुमारब्धे ``न स्पर्शस्योष्मप्रकृतेः प(1)रस्ताद्यमापत्तिम् (ऋoप्राo 6-30) इति सूत्रे परस्ताच्छब्दः प्रयुक्तः। ``यमः प्रकृत्यैव सदृक् ``श्रुतिर्वा य मेन मुख्यास्ति समानकाले (ऋoप्राo 6-33) इत्यादिसूत्रान्तरेष्वपि स्पष्ठमेव यमस्य वर्णान्तरत्वम्। तथा नारदियशिक्षायामपि---
अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि।
तत्र मध्ये यमस्तिष्ठेत्सवर्ण पूर्ववर्णयोः ।। इति ।।
सवर्ण सदृशः। अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम्। `यज्झः' इत्यादौ जकारद्वयसत्त्वेपि `ज्मया अत्र वसवोरन्तदेवाः' इत्यादौ जकारद्वयाभावादिति तद्व्याख्यातारः। तथा ऋक्तन्त्रव्याकरणाख्यास्य छान्दौग्यलक्षणस्य प्रणेता औदव्रजिरप्यसूत्रयत् ``अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः इति। पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः। मध्ये यमः पूर्वस्य गुणः इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः. ेतेनागमत्वं स्फुटीकरोति। तथा संयोगशृङ्कलाख्याया औतमशिक्षायामपि ``अथ चतुरक्षराणामुदाहरणं `सयमायमाभ्याम्'। सयमास्तावद्यथा `अग्निः' इति द्वौ गकारौ यमनकारौ, `यज्ज्ञः' इति द्वो जकारौ यमञकारौ इतियादि। तथाऽत्रैव ग्रन्थारम्भे--``अयस्पिणअडो दारुपिण्ड ऊर्णापिण्डश्चेति त्रेधा संयोगं विभज्य यमसहितमयस्पिण्डम् इत्युक्त्तवा,
``अन्तस्थ यमसंयोगे विशेषो नोपलभ्यते।
अशरीरं यम प्राहुरन्तस्थः पिण्डनायकः ।।
इत्युक्तम्। अन्तस्थोऽत्र वर्गपञ्चमः। अशरीरमिति स्वरभक्त्यादिवद्व्यञ्जकलिपिविशेषशून्यमित्यर्थः। लक्षणवशेनैव तदीयस्थलविशेषनिश्चयसंभवाल्लिपिसंप्रदायप्रवर्त्तकाचार्य्यैः स्वग्भक्तेरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेत्यर्थः। `रलयोरूष्मणि परे मध्ये स्वरभक्तिः' इति हि प्रसिद्धं शिक्षादौ। यत्र तु नैवंविधेन लक्षणेन स्थलावधारणं कर्त्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्त्तितम्। यथा विसर्गादौ।
पाणिनीयशिक्षायामपि।
त्रिषष्ठिश्चतुःषष्ठिर्वा वर्णाः सम्भवतो मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ।।
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ।।
अनुस्वारो विसर्गश्च*क*पौ चापि पराश्रयौ।
दुःस्पृष्टश्चेति विज्ञेया लृकारः प्लुत एव च ।।
(पाoशिo3।4।5) इति।
अत्र हि यमानां पृथग्गणनात्स्पष्टमेव वर्णान्तरत्वम्। गणना त्वित्थम्--अइउऋ इति चतुर्णां ह्रस्वदीर्घप्लुतभेदात्त्रैविध्ये द्वादश, लृकार एकः एचां दीर्घप्सुतभेदादष्टौ, इत्थं स्वरा एकविंशतिः। स्पर्शाः पञ्चविंशतिः। यरलवशषसहेत्यष्टौ। यमाश्चत्वारः प्रथमयमद्वितीययमादिभेदेन विभजनात्। अत एव कुं खुं गुं घुं इति यमचतुष्टयं न्यासादावुदाहृतम्। `कचटतपाः कः' `खछठथफाः खुः' इत्यादिपरिभाषामाश्रित्य तत्तदुत्तरस्याशरीरस्यापि कथञ्चित्प्रदर्शनतात्परर्यकं चेदमिति ध्येयम्। अनुस्वारविसर्ग* क* पाश्चात्वारः, दुस्पृष्टश्च बह्वृचानां प्रसिद्धः ईळे वोळेहेति। इत्थं त्रिषष्टिः। लृकारस्य प्लुतसम्भवात्तेन सह चतुःषष्टिः। तदेतदुक्तं `सम्भवतः' इति।
हयवरट्सूत्रे क्षीरोदकारोऽप्याह--``वर्गान्त्येनन्त्यात्परे तयोर्मध्यवर्त्ती नासिकास्थानो यम इति। यत्तु कश्चिदाह--यमा आदेशाः। न च तेषामानुनासिक्यपक्षे `तज्ज्ञः' `तद् घ्नन्ति' इत्यादौ ``यरोऽनुनासिके(पाoसूo8-4-45) इत्यनुनासिकादेशापत्त्या ``नैव दोषो नैव प्रयोजनम् इति भाष्यं विरुध्येतेति वाच्यम्, व्यवस्थितविभाषाश्रयणादिति। तत्तुच्छम्, प्रागुक्तप्रातिशाख्यनारदीयशिक्षादिसकलग्रन्थविरोधेन आदेशपक्षस्य गर्भस्रावेणैव गतत्वात्, व्यवस्तितविभाषाकल्पनस्य निर्मूलत्वाच्च। एतेन एतदीयलेखनप्रामाण्यभ्रमेण ``अनुपसर्गात् ज्ञः (पाoसूo1-3-76) इत्यादौ चवर्गाभाव दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोऽपि परस्ता, नारदेन `यज्ञः' इत्यत्र जकारद्वयस्य स्फुटमभिदानात् ``नस्यैतस्य त्रयस्यास्थ्नामज्ञां पर्वणामिति इत्यारण्यकप्रयोग इव सजातीयसमभिव्याहारान्न स्पष्टो भेद इति तु प्रसिद्धं शास्त्र। अत एव ``न व्यञ्जनपरस्यैकस्यानेकस्य वा विशेषोस्ति इति भाष्यम्। व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवम्भूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवम्परतया तत्रतत्र कैयटेन व्याख्यातम्। अत एव च बहुषु पुस्तकेषु ``तज्ज्ञापयत्याचार्यः इति भाष्यग्रन्थः। ``अनुपसर्गात् (पाoसूo1-3-76) इति सूत्रेऽपि केषाञ्चित् श्चुत्वपाठः सम्मत एव। पाठान्तरं तु ``अल्पाच्तरम्(पाoसूo2-2-34) `आलुच्' `तदसहने' इतिवत्सौत्रत्वादसंहितया वा समाधेयामिति दिक्।
तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम्--``तज्ज्ञानमित्यादौ तु श्युत्वं भवत्येव। यमश्च मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् ``नासिक्या नासिकास्थानाः मुखनासिक्या वा इति तैत्तिरीयप्रातिशाख्यात्। अनुनासिकविषये तु दर्शनत्रयम्--कृत्स्नो वर्णो मुखेन नासिकया चोच्चार्यत इत्येकम्, पूर्वो भागो मुखेन परोनासिकयेति द्वितीयं, तद्वैपरीत्यात्तृतीयम्। द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेऽपि तदुपरागाद्भागान्तरमपि तद्वदवभासते। तता च नासिकान्वयस्य भागमात्रविषयतया नासिकावचनग्रहणेन मुखनासिक्यो वर्णौ न गृत्द्येत। किन्तु भतविशेषे केवलनासिकास्तानतया यमादय एव गृह्येरन्। ततश्च विधिप्रदेशे ``अङोऽनुनासिकः (पाoसूo6-1-126) इत्यादौ यमानुस्वारा एव विधीयेरन्। ``विड्वनोरनुनासिकस्यात् (पाoसूo6-4-42) इत्यादौ त्वनुवादे अप्रतिपत्तिरेव स्यादित्युदाहृतभाष्यशयः। तस्माद्दर्शनद्वये मुखपदोपादानं सार्थकमिति स्थितम्। प्रथछमदर्शने तु प्रासादवसिन्यायाश्रयणेनो भयवचनानामपि स्थितम्। प्रथमदर्शने तु प्रासादवासिन्यायाश्रयणेनोभयवचनानामपि सिद्धासंज्ञा। आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः। तथाच मुखशब्दोपादानं चन कर्त्तव्यमिति भाष्ये स्थितम्। मुखवचन इत्येवोक्ते तु कचटतपादीनामपि स्यात्। ततश्च `शक्तः' इत्यत्र कलोपः स्यात्। `पक्कः' इत्यत्र चकारलोपः स्यात्। `तप्तम्' इत्यत्र पलोपः स्यात्। `ओदनपग्' इत्यादौ ``अनुनासिकस्य क्विझलोः (पाoसूo6-4-15) इति दीर्घः स्यात्। अनु पश्चान्नासिका व्याप्रियते यस्मिन्नासिकायाः पश्चान्मुखं व्याप्रियते यस्मिन्नति वाऽन्वर्थसंज्ञेयम्। तेन नासिकाव्या पारस्थ भागविषयकत्वसूचनात्प्रासादवासिन्यायस्याविषयोऽयमिति ध्वनितम्। एतच्च सूत्रं प्रत्याख्यातुं शक्यम्। प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलेष्टसिद्दिरिति दिक्।

लुल्यास्यप्रयत्नं सवर्णम् (पाoसूo1-1-9)। ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चत्युभयं यस्य वर्णस्य येन वर्णेन सह समानं स तस्य सवर्णो बोध्यः। संज्ञाप्रदेशाः ``अकः सव्रणे दीर्घः (पाoसूo6-1-101) इत्यादयः। यद्यपि तुलया सम्मिनं तुल्यमित्यवयवार्थः ``नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेष (पाoसूo4-4-7) इति सूत्रेण तुलाशब्दात्सम्मिते यद्विधानात्, तथाप्ययं सदृशमात्रे रूढः शब्दः। अस्यन्ति उच्चारयन्ति अनेन वर्णानित्यास्यम्। ``असु क्षेपणे (दिo पाo1210) बाहुलकात्करणं ण्यत्। यद्वा, आस्यन्दते अन्नं प्राप्य द्रवीभवतीत्यास्यम्। ``अन्येष्वपि(पाoसूo3-2-101) इति डप्रत्ययः। अथवा `अन्नेन द्रवीक्रियते इत्यास्यम्' अन्तर्बावितण्यर्तात्कर्मणि डः `परितः खाता परिखा' इतिवत्। तत्र भवमास्यं ताल्वादिस्तानम्। ``शरीरावयवाद्यत् (पाoसूo5-1-6)। ``यस्य (पाoसूo 6-4-148) इतिलोपे ``हलो यमाम् (पाoसूo8-4-6) इति यलोपः न चाल्लोपस्य स्थानिवद्भावः शङ्क्यः, यलोपे कर्त्तव्ये तन्निषेधात्। प्रकृष्टो यत्नः प्रयत्नः। प्रकर्षश्चाभ्यन्तरत्वम्। प्रारम्भे यत्नो वा प्रयत्नः। आभ्यन्तरप्रयत्ना हि वर्णप्रारम्भकाल एव व्याप्रियन्ते। तता च तुल्यौ स्थानप्रयत्नौ यस्येति द्वन्द्वगर्भौ बहुव्रीहिः। यद्वा, तुल्यः आस्ये प्रयत्नो येषामिति त्रिपदो बहुव्रीहिः। आस्ये इति विशेषणाद्बाह्यप्रयत्नव्युदासः। आस्य इत्येकत्वं विवक्षितं, तद्वितान्तास्यशब्दोपादानसामर्थ्यात्। तेन भिन्नस्थानानामर्थाद् व्युदासः। यद्वा, तुल्यः आस्ये तुल्यास्यः, मयूरव्यंसकादित्वात्साधुः. तुल्यास्यः प्रयत्ना यस्येति विग्रहः।यद्वा, आस्ये प्रयत्नः आस्यप्रयत्नः, स तुल्यो यस्येति। एकत्वविवक्षादिकं प्राग्वत्। तदेवं समासचतुष्टयमपि भाष्ये स्थइतम्--``द्वन्द्वगर्भो बहुव्रीहिः, त्रिपदो वा, पूर्वभागे तत्पुरुषगर्भः तदुत्तरभागे वा इति।
तुल्यशब्दस्य सम्बन्धइशब्दत्वाच्च येन सह तुल्यस्थानप्रयत्नं तेन सह सवर्णमिति लभ्यते। नहि माता पूज्येत्युक्तं स्वसुतमाता भार्या पूज्यते किन्तु पूजकस्यैव मातेति दिक्।
तुल्यस्थानमिति किम्? तुल्यप्रयत्नानामपि कचटतपानां मा भूत।
तेन `तर्प्ता' इत्यत्र ``झरो झरि (पाoसूo8-4-65) इति पकारलोपो न भवति। यत्नग्रहणं किम्? चकारशकारयोर्मा भूत्। सति हि सावर्ण्ये `वाक् श्च्योतति' इत्यत्र चकारशकारयोर्मा भूत्। सति हि सावर्ण्ये `वाक् श्च्योतति' इत्यत्र शकारलोपः स्यात्। आभ्यन्तरत्वविशेषणमप्येतदर्थमेव। अस्ति हि श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्यं चशयोरपि। ननु अल्पप्राणत्वमहाप्राणत्वकृतो भेदोऽस्तीति चेत्? किं ततः। नहि सर्वप्रयत्नसाम्यं विवक्षितुं शक्यम् `अङ्कितः' इत्याद्यसिद्धइप्रसङ्गात्, कङयोरपि बाह्यप्रयत्नभेदात्। सर्वप्रयत्नसाम्यं हिस्वस्य स्वेनैवायाति न तु परेण। तथा च सवर्णसंज्ञाप्रणयनमपि व्यर्थं स्यात्, ``अणुदित्तुल्यास्यप्रयत्नस्य इत्युक्तौ सर्वसामञ्जस्यात्। ``झरो झरि (पाoसूo 8-4-65) इत्युक्तं ``हलो यमां यमि (पाoसूo8-4-64) इत्यत्रेव यथासंख्यप्रवृत्त्या `माहात्म्यम्' इत्यादौ मकारस्येव `शिण्ढि' इत्यादौ ढकारस्यापि लोपो न स्यादिति हि सिद्धान्ते सवर्णग्रहणं कृतम्। स चाव्याप्तिदोषो यावत्प्रयत्नसाम्यविवक्षायां तदवस्थ एव स्यात्। अथ यावद्बाह्यसाम्यं यावदाभ्यन्तरसाम्यं वाविवक्ष्येत एवमपि `मधुलिट्स्तानम्' इत्यत्र ``झरोझरि (पाoसूo8-4-65) इति सलोपः स्यात्, सकारथकारयोः श्वासाघोषविवारमहाप्राणत्वरूपबाह्यप्रयत्नचतुष्टयेनापि साम्यात्।
  अथ स्थानप्रयत्नविवेकः--अकुहविसर्जनीयाः कण्ठ्याः। इचुवशास्तालव्याः। ऋटुरषा सूर्द्धन्याः। लृतुलसा दन्त्याः। उपूषध्मानीया ओष्ठ्याः। एऐ कण्ठ्यतालव्यौ। ओऔ कण्ठ्योष्ठ्यौ। वकारो दन्त्योष्ठ्य। जिव्हामूलीयो जिव्हामूलस्थानः। अनुस्वारो नासिक्यः।
यत्नो द्विधा---आभ्यन्तरो ववाह्यश्च। तत्राभ्यन्तरश्चतुर्द्धा--स्पृष्टात ईषत्स्पृष्टता विवृतता संवृतता चेति। तत्र स्पपृती स्पर्शानाम्। ईषत्स्पृष्टता अन्तस्थानाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतता। शास्त्रीये कार्ये तु विवृतता प्रतिज्ञायते इति अइउण्सूत्रे प्रतिपादितम्। ``य्वृतः संवृताः इतितु प्रातिशाख्योक्तत्वान्न सर्वसाधारणम्। ऊष्मणां स्वराणाञ्च विवृतता। एषां चतुर्णामप्याभ्यन्तरत्वं वर्णोत्पत्तिप्राग्भावित्वात्। तथा हि नाभिप्रदेशात्प्रयत्नप्रेरितां वायुः प्राणो नाम ऊर्ध्वमाक्रामन्नुरः प्रभृतीनि स्थानान्याहा**। ततो वर्णस्य तदभिव्यञ्जकध्वनर्वा उत्पत्तिः। तत्रेत्पत्तेः प्राग्यदा जिव्हाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पात्तिस्तानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता। ईषद्यदा स्पूशन्ति तदा ईषत्स्पृष्टता। समीपावस्तानमात्रे संवृतता। दूरत्वे विवृतता। अत एव इचुयशानां तालव्यत्वाविशेषेऽपि तालुस्थानेन सहजिव्हाग्रादीनां चवर्गौच्चारणे कर्त्तव्ये सम्यक् स्पर्शः, यकारे ईषत् स्वर्शः, शकारेकारयोस्तु दूरेवस्थितिरित्याद्यनुभवं शिक्षाकारोक्तिं चानुसृत्य विवेचनीयम्।
भाष्यकारास्तु ``नाज्ज्ञलौ (पाoसूo1-1-20) इत्यस्य प्रत्याक्यानावसरे ऊष्मणां स्वराणां च ईषद्विवृतत्वं विवृतत्वं चेति वैलक्षण्यं वक्ष्यन्ति। तदप्यनुभवानुसार्येवेति सहृदयैराकलनीयम्।
बाह्याः प्रयत्नाः पुनरेकादश--विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति। एते न वर्णोत्पत्तेः पश्चान्मूर्ध्नि प्रतिहते निवृत्ते प्राणाख्ये वायौ उत्पद्यन्ते। अत एकबाह्य इत्युच्यन्ते। गलबिलस्य सङ्कोचात्संवारः। तस्यैव विकासाद्विवारः। एतौ च संवृतविवृतत्त्वरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव। तयोः समीपदुरावस्तानात्मकत्वादित्त्यवधेयम्। तत्र ``वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयजिव्हामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठ
ाः श्वासानुप्रदानां अघोषाः, वर्णयमानां प्रथमे अल्पप्राणाः, इतरे सर्वे महाप्राणाः, वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठानादानुप्रदाना धोषवन्तो वर्गाणां तृतीया अन्तस्थाश्चाल्पप्राणाः, यथातृतीयास्तथा पञ्चमा आनुनासिक्यमेषामपरो गुणः इति शिक्षासु स्थित्म्। संग्रहश्व---
खयां यमाः शय*क* विसर्गः शर एव च।
एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ।।
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ।।
यद्यप्येते बाह्याः प्रयत्नाः सवर्णसंज्ञायाप्रनुपयुक्तास्तथाप्यन्तरतमत्वपरीक्षायामुपयोक्ष्यन्ते इतीह आभ्यन्तरत्वविशेषणव्यावर्त्त्यतया व्युत्पादिताः।
नन्विह सूत्रे पयत्नग्रहणं व्यर्थ, तद्धितान्तास्यशब्दबलादेव ताल्वादिस्थानस्य प्रयत्नस्य च लाभादिति चेत्? न, प्रत्येकं व्यापारनिरासार्थमुभयोरूपादानात्। तेन स्थानप्परयत्नोभयसाम्ये सत्येव संज्ञा न त्वन्यतरसाम्येऽपि। एवं स्थिते यत्फलितं तत्स्पष्टत्वार्थमुपन्यस्यते। अष्टादश अवर्णाः परस्परं सवर्णाः, एवमिवर्णोवर्णौ। ऋकारा अष्टादश, लृवर्णास्तु द्वादशेति त्रिशन्मिथः सवर्णाः, लृवर्णस्य दीर्घी न सन्तीत्युक्तत्वात् ऋलृवर्णयोर्मिथः सावर्ण्यस्योपसंख्यानाच्च। एचस्तु द्वादश मिथः सवर्णाः, न तु एकारैकारौ ओकारौकारौ वा मिथःसवर्णौ। यथा चैतत्तथा``अइउण् (माoसूo1) इत्यत्रैव प्रतिपादितम्। अकारेणाप्येचां न सावर्ण्यं प्रयत्नभेदादिति इहैव सूत्रे भाष्ये स्पष्टम्। अतएव एदैतोरपि शकारेण न सावर्ण्यमितितेषां``नाज्ज्ञलौ (पाoसूo1-1-110) इति सूत्रे उदाहरणत्वं नास्ति। न चात्र स्थानभेदेन निर्वाहः एचामकारेण सह कण्ठस्थानसाम्यात्, एदैतौः शकारेण सह तालुस्थानसाम्यात्। नहि यातत्स्थानसाम्यं विवक्षितम्, ञमङपानानं स्ववर्ग्यैः सह असावर्ण्यापत्तेः यवलानां सानुनासिकनिरनुनासिकानामसावर्ण्यापत्तेश्च। नहि निरनुनासिकानामपि नासिकास्थानम्, येन सर्वसामयं स्यात्। ननु तद्धितान्तास्यशब्दबलात्ताल्वादिसाम्यमात्रं लभ्यते। ओष्ठात्प्रभृति प्राक्काकलकाद्धि आस्यमअ। काकलकं च ग्रीवाया उन्नततप्रदेशः यं कण्ठमणिरित्याचक्षते। तत्कथं नासिकास्तानभेदेनासवर्णत्वमापाद्यते इति चेत्? नासिका हि न बाहाया वर्णोत्पत्तौ निमित्तम्, तत्र जिह्वाग्रादिव्यापारविरहात् किन्तु अन्तरास्ये विततं चर्मास्ति पणवचर्मवत्, तत्संबद्धोरेखाविशेषो नासिका, सवै वर्णोत्पत्तौ निमित्तमिति सिद्धान्तात्। तस्याश्च ओष्ठादिभ्योऽविशेषात् वर्ग्योवर्ग्योण सवर्णः तुल्यास्यप्रयत्नत्वात्। रेफस्य रेफ एव सवर्णः, एवमूष्मणामपि ऊष्माण एव सवर्णा न त्वन्ये, तुल्यास्यप्रयत्नत्वाभावात्। शषसहानांयथाक्रमम् इकारऋकारलृकाराकाराः सूत्रकारमते यद्यपि तुल्यास्यप्रयत्नास्तथापि न सवर्णाः ``नाज्ज्ञलौ' (पाoसूo1-1-110) इति निषेधात्। भाष्यकारमते तु प्रयत्नभेद एवेति वक्ष्यते। इह स्थानभेदादप्राप्तां सवर्णसंज्ञां विधातुं वार्त्तिक्मारभ्यते---``ऋकारलृकारयोः सवर्णविधिः(काoवाo)इति। होतृलृकारः होतॄकारः। उभयान्तरतमश्च दीर्घो न सम्भवतीति परिशेषादृकारः।
   स्यादेतत्, ``अकः सवर्णेदीर्घः (पाoसूo6-1-101) इत्यत्र ``ऋति ऋवा वचनं ``लृति लृ वा वचनमिति वक्ष्यति। तस्यायमर्थः--अकः सवर्णे ऋति परे पूर्वपरयोऋः स्थाने वा ऋ कअयमादेशो भवति। द्विमात्रोऽयम्। मध्ये द्वौ रेफौ, तयोरका मात्रा, अभितोऽज्भक्तंरपरा। ईषत्स्पृष्टश्चायम्। तत्र प्रयत्नभेदादृकारेणाग्रहणादनच्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते ``लृति लृ वा (काoवाo) इति। अयमपि द्विमात्रः, ईषत्स्पृष्टश्च। मध्ये द्वौ लकारौ तयोरेका मात्रा, अभितोज्भक्तेरपरा। पूर्ववदप्राप्तो विधीयते। तत्र वावचनमिति वाशब्दो दीर्घसमुच्चयार्थो भविष्यति।
वा स्याद्विकल्पोपमयोरेवार्थेऽवि समुच्चये।
इत्यभिधानात् तेनाप्राप्तएव दीर्घो भविष्यति। तत्किं सवर्णसंज्ञया? ननु``लृति लृवा इत्यत्र सवर्णे इत्यनुवर्त्तते न वा? आद्ये `होतृलृकार' इत्यत्र ऋलृवर्णयोः सवर्णसंज्ञाविधानां विना नेष्टसिद्धिः, अन्त्ये`दध्लृकारो' `मध्लृकार' इत्यादावतिप्रसङ्ग इति चेत्? न , प्रथमवार्त्तिके ``ऋति इत्यपनीय `ऋतः' इति पञ्चम्यन्तपाठेनैव सर्वसामञ्जस्यात्। सवर्ण इति च पूर्ववार्त्तिकेऽनुवर्त्तते। तेन `धात्त्रंशः' इत्यादौ नातिप्रसङ्गः। द्वितीयवार्त्तिके तु सवर्ण इति निवृत्तम्। ऋत इत्यनुवर्त्तते। तस्माद् ``अकः सवर्णे (पाoसूo6-1-101) इत्यत्रावश्यकर्त्तव्येन वचनद्वयेनैव सकलनिर्वाहादृकारलृकारयोः सवर्णविधइरितीहत्यं वार्तिकं व्यर्थमिति।
मैवम्, इहत्यमेकं वार्त्तिकमाश्रित्य षाष्ठवचनद्वयप्रत्याख्यानस्यैव न्याय्यत्वात्। तथाहि, तद्वचनद्वयं कुर्वताऽपि रेफद्वयलकारद्वयगर्भयो स्तद्विदेययोरच्त्वं तावदेष्टव्यम्। तन्निर्वाहार्थं वर्णसमाम्नाये तौ पठनीयौ। अन्यथा हि विधानमात्रमनयोः स्यान्न त्वच्कार्यं प्लुतः। तद्विधाने हि ``अचश्च (पाoसूo1-2-28) इति परिभाषया `अचः' इत्युपतिष्ठते। ननु ईषत्स्पृष्टस्यानच्त्वान्मा भूत् प्लुतः विवृतस्य तु ऋकारस्याच्त्वेन प्लुतः सिद्ध एवेति चेत्? सत्यम्। विवृतःप्लुतः सिद्धः, ईषत्स्पृष्टौ तु प्लुतौ रेफद्वयलकारद्वयगर्भौ न सिध्यतः। अत एवाच्संज्ञामात्रेणापि न निस्तारः, ग्रहणकशास्त्रप्रवृत्तेस्तावन्मात्रेणानिर्वाहात् किन्त्त्वण्सु पाठ एव कर्त्तव्य इत्युक्तम्। सति त्वण्सु पाठं नाभ्यां त्रिमात्रयोरपि ग्रहणत्प्लुतसंज्ञायां सत्यां पक्षे ईषत्स्पृष्टौ प्लुतौ भवतः। एवं स्तिते षाष्ठं वचनद्वयं माऽस्तु, तद्विधेययोरपि दीर्घतया ``अकः सवर्णे (पाoसूo 6-1-101) इत्यनेनैव सिद्धेः। ननु `स्थानेन्तरतमपरिभाषया विवृतस्य स्थानिनोविवृतावेव दीर्घौ स्यातां न त्वीषत्स्पृष्टाविति चेत्? न, रेफद्वययुक्त एवादेशः `सुसद्दशः' इत्यपि हि सम्भवति। तथा च किं रेफद्वययुक्तत्वमादर्त्तव्यं, किं वा विवृतत्वमित्यत्र विनिगमकाभावेन पर्यायेणाभयप्रवृत्तौ सिषाधयिषितस्य रूपद्वयस्य निर्वाहात्। लृकारेऽपि कदाचिदृकारान्तरतमो विवृतदीर्घः कदाचिद् लृकारान्तरतमो लकारद्वयगर्भ ईषत्स्पृष्ट इति सकलेष्टसिद्धेः। तदेवं षाष्ठं वचनद्वयं न कर्त्तव्यमिति स्थितम्।
   ननु तदेवास्तु संज्ञाविधानं तु मास्त्विति चेत्? न, वचनद्वयारम्बे गोरवस्य स्पष्टत्वात्। किञ्च, संज्ञाभावे ``ऋत्यकः (पाoसूo6-2-128) ``उपसर्गादृति (पाoसूo6-1-92) ``उरण्रपरः (पाoसूo1-1-51) इत्यादिषु ऋकारेण लृकारग्रहणं न स्यात्। न चैवं सिद्धान्तेऽपि `तवल्कारः' इत्यादौ रपरत्वप्रसङ्गः रप्रत्याहारपरत्वस्य वक्ष्यमाणतया लपरत्वसिद्धेः। ऋदिताम्लृदितां च धातूनामनुबन्धकार्येषु सङ्करस्तु न भवति धातूपदेशे पृथगनुबन्धकरणसामर्थ्यात्, विधिवाक्योष्वपि पृथगनुवादसामर्थ्यात्। अन्यथा हि सर्वान् ऋदित एव लृदित एव वा पठित्वा विदावपि तेनैव रूपेणानुवदत्। सम्भवत्यैकरूप्ये वेरूप्याश्रयणायोगात्।

नाज्ज्ञलौ (पाoसूo1-1-10)। अज्ज्ञलौ मिथः सवर्णौ न स्तः. अकारहकारयोरिकारशकारयो ऋकारषकारयोर्लृकारसकारयोश्चेति स्थलचतुष्टये पूर्वसूत्रेण प्राप्तं सावर्ण्यमनेन निषिद्यते। तेन `आनडुहं चर्म' `वैपाशो मत्स्यः' इत्यत्र ``अन्यथा हि `यस्य' इत्यनेन दीर्घाणामिव इकारशकारयोरपि ग्रहणं स्यात्। तथा `दण्डहस्तः' `दधिशीतं' `कर्तृषट्कम्' इत्यादौ सवर्णदीर्घः स्यात्। तथा `दण्डहस्तः' `दण्डहस्तः' `कर्तृषट्कम्' इत्यादौ सवर्णदीर्घः स्यात्। `दधिसान्द्रम्' इत्यौदौ यणादेशश्च स्यात्। इहाज्झलौ कस्यापि न सवर्णौ स्त इति वाक्यार्थो न ग्राह्यः संज्ञारम्भवैयर्थ्यापत्तेः। विहितप्रतिषिद्धत्वेन विक्लपे तु लाघवात् ``तुल्यास्यप्रयत्नं वा इत्येव सूत्रयेत्। नाप्यचामज्भिर्हलां हल्भिः सावर्ण्यं निषिध्यते। ``नाज्ज्ञलौ (पाoसूo2-2-20) इत्यत्रैव सूत्रे सवर्णदीर्घस्य ``झयो हः (पाoसूo8-4-62) इति पूर्वसवर्णादेशस्य च निर्द्देशात्। ननु झलवात्र निर्द्दिष्टो न तु हल्, तावतैवेष्टसिद्धोरिति चेत्तर्हि दीर्गार्निर्द्देश एव ज्ञापकोऽस्तु। तेन ह्यचामज्भिः सावर्ण्यमनिषिद्धमिति ज्ञापिते परिशेषादज्ज्ञलोर्मिथो निषेध एव पर्यवस्यति,। ``झरो झरि सवर्णो (पाoसूo8-4-65) इति ज्ञापकाच्च। यत्तु नाण्शलावित्येव कुतो न सूत्रितमिति। तन्न, `कर्तृषट्कं' `दधिसान्द्रम्' इत्याद्यसिद्ध्यापत्तेः, ऋलृका*********; ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युक्तत्वात्। अस्तु ********, तथाप्यजपेक्षया व्यक्तिगौरवमेव स्यादित्यज्ग्रहणमपनीयाण्ग्रहणं क्रियतामिति शङ्काया गर्भाया गर्भस्रावेणैव गतार्थत्वात्। शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम्। वस्तुतस्तु ``नाक्शलौ इत्येव सूत्रयितुमुचितम्।
स्यादेतत् शारां शर्भिरपि सावर्ण्यं निषिद्ध्येत। ते हीकारादिभिर्गृहीतत्वादच्संज्ञकाः हल्पूपदेशाद्धलश्च। न चास्मादेव निषेधादिकारादयो न सवर्णा इति वाच्यम्, एतद्बाक्यार्थबोधात्प्राक् पदार्थोपस्तितेरावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात्। ततश्च `परश्शताः' `रामष्षष्ठः' `यशस्सारम्' इत्यादौ ``झरो झरि (पाoसूo8-4-65) इत्यस्य प्रवृत्तिर्न स्यात्। ततश्चैकेकत्र शर्त्रयं श्रूयेत। इष्यते तु द्वयम्। तथा च पूर्वपक्षवार्त्तिकम्--``अज्झलोः प्रतिषेधे षकारप्रतिषेधोऽज्झल्त्वात् इति। अत्र शकारग्रहणं शरामुपलक्षण्म्। किञ्चावर्णस्याष्टादशधा भिन्नस्य परस्परं सावर्ण्यं न स्यात्। ततश्च `दण्कडाग्रम्' इत्यादौ दीर्घो न स्यात्। तथाहि, हकारेण ग्रहणादकारो हल् अक्षु पाठाच्चाच्। न चास्मिन्नेव सूत्रे एतस्य प्रवृत्तिः येन ग्रहणकशास्त्रमसावर्ण्यान्न प्रवर्त्तेतेति। अत्र सिद्धान्तं वार्त्तिककार एवाह---``सिद्धमनच्त्वाद्वाक्यापरिसमाप्तेर्वा इति। तत्र सूत्रप्रत्याख्यानेनोत्तरं प्रथमवार्त्तिकेऽभिप्रेतम्। तथाहि, शिक्षावाक्ये विवृतमूष्मणामिति योगो विभज्यते। तत्र चेषदित्यनुवर्त्तते। स्वराणाञ्चेति विवृतमित्यनुवर्त्तते। ईषदिति निवृत्तम्। तथाच प्रयत्नभेदादूष्मस्वरयोः सावर्ण्याप्राप्तौ किं सूत्रेण? तथाच शरामनच्त्वादेव सिद्धमित्यर्थः। उपलक्षणञ्चेदमकारस्याहल्त्वादित्यपि बोध्यम्। सूत्रारम्भमभ्युपेत्येदम्। वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः।
ईषदित्यस्याननुवृत्तिं समानप्रयत्नताञ्च स्वीकृत्य सूत्रारम्भपक्षेऽप्याह--वाक्यापरिसमाप्तेर्वेति। अयमाशयः--इह पूर्वं वर्णानामुपदेशः। तत इत्संज्ञा। तत ``आदिरन्त्येन सहेता(पाoसूo1-1-71) इति प्रत्याहारसिद्धिः। ततो ``नाज्झलौ (पाoसूo1-1-10) इत्येतद्वाक्यार्थबोधः। ततोऽपवादविषयपरिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणकशास्त्रप्रवृत्तिः, नत्वेतत्सूत्रनिष्पत्तिसमये। अन्यथा तत्सूत्रेणैवेकारशकारादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हेतोरसिद्ध्या त्वदीयः पूर्वपक्षोऽसम्भवदुक्तिक् एव स्यात्। अथ पदर्थज्ञानस्य वाक्यार्थबोधहेतुनयैतद्वाक्यस्थापदार्थबोधकालं एतद्वाक्यर्थग्रहाभावादिह सूत्रे इकारेण शकारग्रहः स्यादेवेतः पूर्वं सावर्ण्यनिषेधाग्रहादिति ब्रूषे तर्हीतः पूर्वं ग्रहणकशास्त्रमेव न निष्पन्नमिति कथं न पर्यालोचयेः? नन्वेवं ``तुल्यास्यप्रयत्नं (पाoसूo1-1-9) ``नाज्ज्ञलौ (पाoसू01-1-10) इत्यादौ ``अकः सवर्णे दीर्घः (पाoसूo6-1-101) इति दीर्घोऽपि न प्रवर्त्तेतेति चेत्? न, सवर्णसंज्ञाद्युत्तरकाले प्रवर्त्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवेहाप्यप्रतिबद्धप्रवृत्तिकत्वात्, उद्देश्यतावच्छेदकरूपाक्रान्तत्वाविशेषात्। न च सवर्णदीर्घविदानात्प्रागेतत्सूत्रार्थबोधानुपपत्तिरिति वाच्यम्, पदार्थोपस्थितिप्रभृतिसामग्रीसम्पत्तौ सत्यां साधुत्वबोधकवक्यार्थज्ञानविलम्बेन शाब्दबोधे विलम्बादर्शनात्। अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां क्वापि शाब्दबोधो न स्यात्। तथा वैयाकरणानामपि व्याकरणसूत्रघटकशब्देषु व्याकरणादेव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावात्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक्।
साधुत्वज्ञानं तु न शाब्दबोधहेतुः। अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमितिः, ततः शब्दबोधे जाते लक्ष्यान्तरेष्विव लक्षणवाक्यान्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक्।
वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यपि न क्षतिः। परः शतादिषु हि रूपद्वयं सिद्धान्तेऽपिष्यते। शतात्पराणीति विग्रहे ``कर्तृकरणे कृता बहुलम् (पाoसूo2-1-32) इति बहुलवचनाद्वा ``सुप्सुपा (पाoसूo2-1-4) इति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम्। ततः ``अनचि च (पाoसूo7-4-47) इति द्विर्वचनम्। ननु ``शरोऽचि (पाoसूo7-4-49) इति ``अनचि (पाoसूo7-4-47) इति वा द्वित्वनिषेधोऽस्त्विति चेत्? न, तत्र ``नाज्झलौ (पाoसूo1-1-10) इति निषेधादिकारेण शकाराग्रहणात्। ततो ``झरो झरि (पाoसूo 7-4-65) इति लोपविकल्पाद् द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेऽपि सिद्ध्यत्येवेदं रूपद्वयम्, ``अनचि च (पाoसूo8-4-47) इति द्वित्वस्यापि वैकल्पिकत्वात्। तत्र द्वित्वस्य वैकल्पिकत्वं ``यरोनुनासिकेऽनुनासिको वा (पाoसूo8-4-45) इत्यतो वेत्यनुवर्तनात् ``सर्वत्र शाकल्यस्य (पाoसूo8-4-51) इति पाक्षिकनिषेधाद्वा। लोपस्य वैकल्पिकत्वं तु ``झयो होऽन्यतरस्याम् (पाoसूo8-4-62) इत्यतोऽन्यतरस्यांग्रहणानुवृत्तेरित्यवधेयम्। तस्मात्सावर्ण्ये सत्यसति वा `परश्शताः' इति द्विशकारकत्रिशकारकरूपयोरविशेषः.
परशशताद्यास्ते येषां परा संख्या शतादिकात्। (अoकोo3-1-64)
इत्यमरः। एवं `रामष्षष्ठः' `यशस्सारम्' इत्यादावपि। अत एव भाष्ये--``अपर आह इत्युपक्रम्य वार्त्तिकद्वयमप्येकहेतुतया व्याख्याय ``अस्तु वा ग्रहणमिकारादिभिः शकारादीनाम् इति वाक्यशेषाध्याहारेण प्रतिज्ञविकल्पार्थो वाशब्द इति व्याख्यातम्। तत्र अपर आहेत्यपरितोषोद्भावनम्। तद्बीजन्तूक्तरीत्या शर्षु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेऽपि प्रागुक्तरीत्या `दण्डाग्रम्' इत्यादि न सिद्ध्येत्। तदर्थं च सूत्रप्रत्याख्यानस्य वाक्यापरिसमाप्तिन्यायस्य वाऽऽश्रयणे आवश्यके शरां शर्भिः सावर्ण्याभावाभ्युपगमो निर्मूल एवेति।
स्यादेतत्, अगृहीतसवर्णानामेव ``नाज्ज्ञलौ (पाoसूo1-1-10) इति निषेध इति तावत्स्थितम्। तथा चेकारादीनां शकरादिभिः सावर्ण्यानिषेधात् `कुमारी शेते' इत्यादौ सवर्णदीर्घः स्यादित्याशङ्क्याचीत्यनुवृत्त्या समाहितम्। एवं स्थिते `मालासु' इत्यादौ षत्वं स्यात्। हकारेणाकारग्रहणे सति `गोरीषु' इत्यादिवदिणः परत्वानपायात्। किञ्च `विश्वपाभिः' इत्यत्र ``हो ढः' (पाoसूo7-2-31) इति ढत्वं स्यात्, `वागाशीः' इत्यत्र ``झयो होन्यतरस्याम् (पाoसूo7-4-62) इत्याकारस्य घकारः स्यात्, `गासीध्वम्' इत्यत्र ``इणः षीध्वम् (पाoसूo8-3-78) इति मूर्द्धन्यादेशः स्यात्, `दासीष्ट' इत्यादौ ``दादेर्धातोर्घः (पाoसूo8-2-32) इति घत्वं स्यात्, `राम आयाति' इत्यादौ ``हसिच (पाoसूo6-1-114) इत्युत्वं स्यात्, `देवा आयान्ति' इत्यादौ ``हलि सर्वेषाम् (पाoसूo8-3-22) इति नित्यो यलोपः स्यात्, `चाखायिता' इत्यादौ ``यस्य हलः (पाoसूo6-4-49) इति यलोपः स्यात्, `श्येना यिता' इत्यादौ ``क्यस्य विभाषा(पाoसूo6-4-50) इति लोपः स्यात्, `निचाय्य' इत्यादौ ``हलो यमाम्(पाoसूo8-4-64) इति यलोपश्च भ्यादिति बहूपप्लवप्रसङ्गः।
अत्रोच्यते, आकारो न हकारस्य सवर्मः ``ततोऽप्याकारः इति अइउण्सुत्रोदाहृतशिक्षारीत्या भिन्नप्रयत्नत्वात्। ``सवर्णेणग्रहणमपरिभाष्यमाकृतिग्रहणात् इति वार्त्तिकमते तु हकाराकारयोरेकजात्यनाक्रान्तत्वादेव नातिप्रसङ्गः। यद्वा, आकारसहितोऽच् आच् स च हल्च आज्ज्ञलाविति सूत्रे आकारप्रश्लेषो व्याक्येयः। तेनाकारस्याचां च हल्भिः सह सावर्ण्यं निषिध्यते। आकारप्रश्लेषे लिङ्गं तु ``कालसमयवेलासु तुमुन् (पाoसूo3-3-164) इत्यादिनिर्द्देशाः। अत्र पक्षे आश्च आश्चेति द्वन्द्वेन सवर्णदीर्घण च ``नाज्झलौ (पाoसूo1-1-10) इति सूत्रे दीर्घात् परः प्लुतोऽपि निर्द्दिष्ट इति व्याख्येयम्। तेन `यियासो' इत्यादौ ``गुरोरनृतः(पाoसूo8-2-83) इति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेत्यवधेयम्। भाष्यमते तूष्मणार्मीषद्विवृतताभ्युपगमेन सावर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम्।।
इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ।। 4 ।।
-------***-------