अभङ्गमेवाङ्गमिमौ वहुन्तौ |
वलभद्रः-कथं मुक्त्तौ दुर्वृत्तौ मुरारिणा ? ।
अक्रूरः-राम ! समरविजपादेप समधिको विजयः ।
सात्यकिः-आकर्णयत पुनः किमपि श्रूपते।
(संर्वे आर्क्णनाभिनय कुर्वन्ति )
( नेपथ्ये )
रुफम्पसौ रुक्मिणीभ्राता चेदीन्द्र त्वं च मामकः । |
सुबुद्धिः ---( श्रुस्वा सहर्पम् ) वत्से रुक्मिणि ! द्विगुणमिदानीं दिप्टवा वद्धेसे, यत्त्चया ह्यदयदयितो दैत्यारिरासादितः । यच करुणारसपूराप्लावनिर्वाणरोपानलेन न तेन ल्वद्वाता दग्धः ।
( रुक्मिणी सहर्पमात्ते )
बलभद्रः-( पुरोऽपलोक्य सहर्षम् ) कथमयं वैरिविसर्जनाय वैनतेयं समादिश्य पदातिरेव दामोदरोऽभ्युपैति ! ।
प्रमुदितसुरघृन्दोन्मुक्तमन्दारमाला- |
( तत प्रविशति यथानिर्द्दिष्टो वासुदेव )
वासुदेवः-( साफूतस्मितम् ) आर्यराम ! असह्यसमरोपमर्द्दौ तौ वीरौ सन्धाय मया प्रहितौ ।
वलभद्रः-- ( साकृतं वेिहस्य ) एवमेय वलीयसा सह युज्यते । तदिदानीं निर्व्यूढानि समीहितानि । समारोहतु भवान्द्वारकोपगमनाप स्यन्दनम् ।
(कृष्ण उपसृत्य रयावरोहण नाटयति)
दारुकः-- (सप्रणामम्) विजयतां विजपतां देवः ।
सुबुद्धिः---- अयि कृष्णवीर ! न तावदाशीभिः पयप्यते पायत्त्वया निव्र्यूढम्। तत्त्वयि प्रणाम एवु श्रेयान् ।
कृष्णः--( सप्रश्रयम्) भगवति ! त्वदनुग्रहोऽर्य विजृम्भते ।