पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
वत्सराजप्रणीतरूपफसङ्गहे



 वलभद्रः-( ससम्भ्रमम्) नृनमयं दुर्वृत्तविद्विपां प्रपञ्चस्तदेनमन्तरिक्ष एव निकृन्तामि निशितेपुणा । ( इति चापमारोपयति )

 कृष्णः-(.सHम्धप्रम्) आर्यबलदेव !तिष्ठ तिष्ठ तिष्टतार्क्ष्योऽयं मयाऽनुस्मृतः समायाति । एनमारुह्य व्योमचरौ निगृह्वामि परिपन्थिनौ ।

( ततः प्रविशति तार्क्ष्य: )

 तार्क्ष्य:-( सप्रगामम्) अनुग्रह्णातु मामादेशदानेन देवकीनन्दनः ।

पक्षानिलैः प्रसभमम्युनिधीन्धुनोमि
 त्वं चेदधोभुवनजिप्णुतयोत्सुकोऽसि ।
उत्कण्ठितोऽसि यदि तेपु तदानयामि
 तानिन्दुशेखरविरिञ्चिपुरन्दरादीन् ॥ २१ ॥

 कृप्णः-( सहर्पे सस्मितम्) एहि तावत्त्वया **न तावम्बरसमराङ्गणचारिणौ मायामहारथौ विचिनोमि तौ प्रत्यर्थिनौ ।

 तार्क्ष्यः--ंकुरु यथाकामम् । ( इति कृप्णं ष्टष्वमारोप्य गगनारोहणं नाटयति ) (सर्वेप्ताश्चर्यमालोकयन्ते )

 अक्रूरः-अहह ! पश्यत पश्यत ।

एप प्रतीच्छन्निशितेयुधाराः
 स्घर्णातपत्रीयति पक्षिराजः ।
अस्योपरिष्टात्स्फुरदिन्द्रनील-
 कुम्भायतेऽसौ मधुकैटभारिः ॥ २२ ॥

 वलभद्रः--( विलोक्य सप्तम्भ्रमम् ) आः ! किं पुनरारूढविप्णुर्विष्णुरथोऽयं द्रागायतरति । किं दुष्प्रवेशमम्वरं शरासरैः? । ( साट्टहासं विहस्य ) किमलसं मुशलं यलदेवस्य गगनाग्रारोहणे? (इति मुशलमास्फालयति )

 सात्यकिः--व्रलदेच ! आकर्णय आकर्णय तावत् । किमपि श्रूयत एव ।

( सर्वे आकर्णनाभिनयं नाटयन्ति )

( नेपथ्ये )

मा मुश्च मा पीडय गाढभङ्गया
 त्वं तार्क्ष्य ! दाक्ष्पात्सुतवद्गृहीत्या ।