पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
रुक्मिणीहरण ईहामृगः ।


यद्वाहुद्वितयं तदाविकलितं चक्षुर्यदस्तं गतं
 तेपामस्ति न दुर्यशःपरिचयः स्तोकोऽपि पुण्यात्मनाम् ।
दोपौ ते दमघोपपांसनमहादोपाविमौ साम्प्रतं
 नेन्नद्वन्द्वमिदं च सङ्गरजयाह्लादो न यैर्लभ्यते ॥ १७ ॥

 तद्लं निमृन्त्रितूायातनिरपराधिनरेद्रवृन्दू॒कद्नक्रौयैवाहुल्येन आगच्छतं युवां शिशुपालरुक्मिणौ समरोपमईक्षमां मेदिनीम् ।

 रुक्मी ---- (अपवार्य ) अयि चेदीन्द्र ! प्रकटसमरकेलिदुःशिक्षितावेतौ वलदेवगोविन्दौ । तदेवं तावत् । ( कर्णे एवभेव प्रकाशं सक्रोधम्) आः ! किमेकेन रामेण । आगच्छतं रामकृष्णौ । यावआवां समरभूमिम् । ( इति तथा कुरुतः )

( नेपथ्ये )

आक्ष्चर्यत्यहह ! काचिदकर्तृकैव
 नाराचवृष्टिरियम्म्बरतः पतन्ती ।
तारुण्य एव तरणेरयमप्युदञ्चन्
 कार्त्तान्तकासरगलच्छविरन्धकारः ॥ १८ ॥

( पुनर्नेपथ्ये )

पश्यत स्यन्दनौ शून्यौ तौ गतौ मुखरौ क्कचित् ।
अधिकं युध्यते चित्रं सैन्यमेतदनायकम् ॥ १९ ॥

 कृष्णः-( श्रुत्वा स्वगतम् ) नृनमम्घरगतौ रुक्मिशिशुपालौ मायायुद्धवैदग्ध्यं दारुणं विस्तारयतस्तदहं पन्नगाशनस्यन्दनमारूढो वियतस्तौ पातयामि । ( प्रकाशम्) भगवति सुघुद्धे ! भद्रे सुवत्सले ! लालनीया तावद्भवतीभ्यां रुक्मिणी यावदहमिममनर्थं निवारयामि ।

( रुक्मिणी सन्वीडं सविपादमधोमुखी तेिष्टाते )

 सुबुद्धिसुवत्सले-~-विजयतां वीरः ।

(कृष्णेो ध्यानं नाटयति)

 अक्रूरः-( ऊर्ध्यमवलोक्य साश्चर्यम् )

किं शातकुम्भगिरिरेप गृहीतपक्षः
 किं पावकः प्रसरदुग्रशिखाजटालः ।
देवः स एव किमयं महसामधीशः
 संहर्त्तुमेति तिमिराण्यतिमेदुराणि ॥ २० ॥