पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
वत्सराजप्रणीतरूपकसङ्गहे


 शिशुपालः-( रथं परावर्त्त्य सक्रोधम् ) रे रे कृप्ण ! परतः परतो भव । न भवानस्मद्विधसदीरोद्योगयोग्यः । तथाहि--

इन्द्राणीचरणार्चनापरिकरव्यापारितां कन्यकां
 विश्वासोपगतं हरे ! यदहरस्त्वं जुन्प॒यात्रागतः ।
धर्मः किं चरितस्तदेप भवता क्षत्रव्रतं किंनु वा
 किं वा वन्धुजनोचिता व्पयहृतिर्लोकस्थितिः कापि वा ॥ १३ ॥

 कृष्णः-( सवाज्ञ विहस्य ) युज्यते युज्यते ।

चैतन्पात्प्रभृति प्रवृत्तपरमप्रेमोदयां सुन्दरीं ।
 संधां देहविसर्जने कृतवर्तीं मद्धिप्रयो॒गे दृढाम् ।
कन्यां स्वङ्गवलोदयेन कलयन्नर्हामि गर्हामहं
 क्ष्लाघ्यस्त्वं शिशुपाल! निस्त्रपमुपालम्भानिमान्व्याहरन् ॥ १४ ॥

 शिशुपालः-( सावज्पज्ञोपहासम्) कृप्णवीर ! एवमेवैतत् । उपालभ्भदानमात्रोद्योगा वयमपर्याप्ताः । त्वमेकः शौर्यशालिपु धुर्यः । तथाहि----

व्यालं निर्जितवान्खरं दलितवनुक्षाणमाजघ्निवा-
 नश्वं खण्डितवानिति व्यवसितिक्ष्रेण्यैव धन्यो भवान् ।
एतद्विक्रमयुग्मतद्भुमतमं कः स्तोतुमीशोऽस्ति ते
 यत्कंसः तो यदपि च व्यापादिता पूतना ॥ १५ ॥

 सात्यकिः-कृप्ण ! कृप्ण ! व्याहरतु व्याहरतु चेदीन्द्रः । सोढव्यमस्यागःशतम् ।

 शिशुपालः-( सक्रोधम्) ऊरेरे ! आगःशतावघेरक्षितोऽहम् ॥ पश्यत पश्यत ।

आगाःशत्तं किमिव तद्विदधेऽद्य घोर-
मागःसहस्रशतजित्वरमेकमागः ।
यत्कृप्णमन्यवनिताकपटापहार-
वीरं विपाटय वितरामि रणे शिवाभ्यः ॥ १६ ॥

 वलभद्रः-(सक्रोधम् ) अयि शिशुपाल ! सङ्गरकर्मकुणे पश्यदन्धदुरक्षरोदाहरणचतुरं मुखमेव तवावयवेपु प्रगल्भम् ।