पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
धत्सराजप्रणीतरूपकसद्वहे


 सुवत्सला-जअदु जअदु देवो[१]

( रुक्मिणीविनम्रमुखी तिष्ठति )

 कृष्णः--(प्तोत्कष्ठं प्तानुतापम् )

आयुप्यमिन्दुमुखि ! वैरिनरेश्वराणा-
 मद्यापि किं वहसि भामिनि ! वैमनस्यम् ।
यत्कातरेण तरलाक्षि ! मया प्रियोऽपि
 मुच्तः प्रिये समरकेलिरसोपभोगः ॥ २६ ॥

( रुक्मिणी सहर्योत्कण्ठं सव्रीडमधोमुखी तिष्ठति )

 सुबुद्धि: ( प्ताक्ष्चर्यम् ) कृष्णदेव । पश्य पश्य ---

मिहिरमहसां न क्रूराणामियं रमणीयता
 नहि नहि तडित्पूरोऽपीद्दग्भवेत्क्षणभङ्गुरः ।
अति मृ"""""""""""""""""""कथमीदृशा
 नभसि निकटे ज्योतिः किंचिद्विचित्रमुदोयते ॥ २७ ॥

कृप्णः-(विलोक्यसाश्चर्ये सवेितर्कम्)कोऽपि किमयं माया """"""""""""" भते |

( नेपथ्ये )

 यत्से सुचुद्धे ! शीघ्राऽद्दम् । शीघ्रं सफलीकृता मया तव शिष्याया निजाराधना । त्वं च कृप्ण ! मत्प्रियस्य नीलकण्ठस्य""""""""""""""""""""""""मिव परमं प्रेमपात्रम् । तत्किं तव मयोपकर्त्तव्यम् ?। ब्रूहि । तथापि किं ते भूयः प्रीयतरमस्तु। ( सर्वे सहर्षाश्चर्ये प्रणमन्ति )

 कृष्णः-

देव्या एव प्रसादोऽयं साध्यः सुकृतकोटिभिः
सिद्धेन तेन किं साध्यं ततोऽप्यधिकमस्ति मे ॥ २८ ॥

तथापीदमस्तु-वर्पन्तु वारि रुचि (ताभ्यधिकं पयोदाः )
 वर्पन्तु सूक्त्तममृताभ्यधिकं कवीन्द्राः ।
वर्पन्तु हव्यभुजि साधु हवींपि विप्रा
 वर्पन्तु चार्थिपु धनान्यमितानि भूपाः ॥ २९ ॥

इति श्रीरुक्मिणीोहरणे चूतुर्योऽङ्कः ।

इति महाकविश्रीवत्सराजविरचित इंद्दामृगः समाप्तः ॥



  1. जयतु जयतु देवः ।