सांख्यसूत्राणि

विकिस्रोतः तः
साङ्ख्यसूत्राणि


विषयाध्यायः[सम्पाद्यताम्]

अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । सांख्यसूत्र-१.१ ।
(परमपुरुषार्थस्वरूपं)
न दृष्टात् तत्सिद्धिः, निवृत्तेऽप्यनुवृत्ति दर्शनात् । सांख्यसूत्र-१.२ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं । सांख्यसूत्र-१.३ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
सर्वासम्भवात्, सम्भवेऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः । सांख्यसूत्र-१.४ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । सांख्यसूत्र-१.५ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
अविशेषश्चोभयोः । सांख्यसूत्र-१.६ ।
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता)
न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । सांख्यसूत्र-१.७ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । सांख्यसूत्र-१.८ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
नाशक्योपदेशविधिः, उपदिष्टेऽप्यनुपदेशः । सांख्यसूत्र-१.९ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
शुक्लपटवत् बीजवच्चेत् । सांख्यसूत्र-१.१० ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू
शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । सांख्यसूत्र-१.११ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । सांख्यसूत्र-१.१२ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)
न देशयोगतोऽप्यस्मात् । सांख्यसूत्र-१.१३ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)
नावस्थातो देहधर्मत्वात्तस्याः । सांख्यसूत्र-१.१४ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
असङ्गो ह्ययं पुरुष इति । सांख्यसूत्र-१.१५ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च । सांख्यसूत्र-१.१६ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.१७ ।
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः)
प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । सांख्यसूत्र-१.१८ ।
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः)
न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । सांख्यसूत्र-१.१९ ।
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः)
नाविद्यातोऽ प्यवस्तुना बन्धायोगात् । सांख्यसूत्र-१.२० ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
वस्तुत्वे सिन्धान्तहानिः । सांख्यसूत्र-१.२१ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
विजातीयद्वैतापत्तिश्च । सांख्यसूत्र-१.२२ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
विरुद्धोभयरूपा चेत् । सांख्यसूत्र-१.२३ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
न तादृक्पदार्थाप्रतीतेः । सांख्यसूत्र-१.२४ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । सांख्यसूत्र-१.२५ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
अनियतत्वेऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । सांख्यसूत्र-१.२६ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
नानादिविषयोपराग निमित्तकोऽप्यस्य । सांख्यसूत्र-१.२७ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावोऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । सांख्यसूत्र-१.२८ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । सांख्यसूत्र-१.२९ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
अदृष्टवशाच्चेत् । सांख्यसूत्र-१.३० ।
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू
न द्वयोरेककालयोगादुपकार्योपकारकभावः । सांख्यसूत्र-१.३१ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि
पुत्रकर्मवदिति चेत् । सांख्यसूत्र-१.३२ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू
नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । सांख्यसूत्र-१.३३ ।
(बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि
स्थिरकार्यासिद्धेः क्षणिकत्वं । सांख्यसूत्र-१.३४ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु
न प्रत्यभिज्ञाबाधात् । सांख्यसूत्र-१.३५ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि
श्रुतिन्यायविरोश्र्वच्च । सांख्यसूत्र-१.३६ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
दृष्टान्तासिद्धेश् च । सांख्यसूत्र-१.३७ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
युगपज्जायमानयोः न कार्यकारणभावः । सांख्यसूत्र-१.३८ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
पूर्वापाये उत्तरायोगात् । सांख्यसूत्र-१.३९ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
तद्भावे तदयोगात् उभयव्यभिचारादपि न । सांख्यसूत्र-१.४० ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
पूर्वभावमात्रे न नियमः । सांख्यसूत्र-१.४१ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
न विज्ञानमात्रं बाह्यप्रतीतेः । सांख्यसूत्र-१.४२ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
तदभावे तदभावात् शून्यं तर्हि । सांख्यसूत्र-१.४३ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य । सांख्यसूत्र-१.४४ ।
(सर्वशून्यतावादखण्डनं), पू
अपवादमात्रं अबुद्धानां । सांख्यसूत्र-१.४५ ।
(सर्वशून्यतावादखण्डनं), सि
उभयपक्षसमानक्षेमत्वादयमपि । सांख्यसूत्र-१.४६ ।
(सर्वशून्यतावादखण्डनं)
अपुरुषार्थत्वमुभयथा । सांख्यसूत्र-१.४७ ।
(सर्वशून्यतावादखण्डनं)
न गतिविशेषात् । सांख्यसूत्र-१.४८ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
निष्क्रियस्य तदसम्भवात् । सांख्यसूत्र-१.४९ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः । सांख्यसूत्र-१.५० ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
गतिश्रुतिरपि उपाधियोगादाकाशवत् । सांख्यसूत्र-१.५१ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
न कर्मणाप्यतद्धर्मत्वात् । सांख्यसूत्र-१.५२ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)
अतिप्रसक्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.५३ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)
निर्गुणादि श्रुतिविरोधश्चेति । सांख्यसूत्र-१.५४ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)
तद्योगोऽप्यविवेकान्न समानत्वं । सांख्यसूत्र-१.५५ ।
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं)
नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । सांख्यसूत्र-१.५६ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)
प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं । सांख्यसूत्र-१.५७ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)
वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । सांख्यसूत्र-१.५८ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
युक्तितोऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । सांख्यसूत्र-१.५९ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । सांख्यसूत्र-१.६० ।
(प्रकृतिपुरुषयोरानुमानिकत्वं)
सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातोऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । सांख्यसूत्र-१.६१ ।
(पञ्चविंशतितत्त्वसिद्धिः)
स्थूलात् पञ्चतन्मात्रस्य । सांख्यसूत्र-१.६२ ।
(पञ्चविंशतितत्त्वसिद्धिः)
बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । सांख्यसूत्र-१.६३ ।
(पञ्चविंशतितत्त्वसिद्धिः)
तेनान्तः करणस्य । सांख्यसूत्र-१.६४ ।
(पञ्चविंशतितत्त्वसिद्धिः)
ततः प्रकृतेः । सांख्यसूत्र-१.६५ ।
(पञ्चविंशतितत्त्वसिद्धिः)
संहतपरार्थत्वात् पुरुषस्य । सांख्यसूत्र-१.६६ ।
(पञ्चविंशतितत्त्वसिद्धिः)
मूले मूलाभावादमूलं मूलं । सांख्यसूत्र-१.६७ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)
पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । सांख्यसूत्र-१.६८ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)
समाजः प्रकृतेर्द्वयोः । सांख्यसूत्र-१.६९ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)
अधिकारित्रैविध्यात् न नियमः । सांख्यसूत्र-१.७० ।
(विवेकमननस्य असार्वत्रिकत्वे हेतुः)
महदाख्यं आद्यं कार्यं तन्मनः । सांख्यसूत्र-१.७१ ।
(महत्तत्वस्वरूपं)
चरमोऽहङ्कारः । सांख्यसूत्र-१.७२ ।
(अहङ्कारतत्वस्वरूपं)
तत्कार्यत्वमुत्तरेषां । सांख्यसूत्र-१.७३ ।
(तन्मात्रादीनां अहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)
आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् । सांख्यसूत्र-१.७४ ।
(तन्मात्रादीनां अहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)
पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । सांख्यसूत्र-१.७५ ।
(प्रकृतेरेव सर्वकारणत्ते नियामकं)
न परिच्छिन्नं सर्वोपादानं । सांख्यसूत्र-१.७६ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)
तदुत्पात्तिश्रुतेश्च । सांख्यसूत्र-१.७७ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)
नावस्तुनो वस्तुसिद्धिः । सांख्यसूत्र-१.७८ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । सांख्यसूत्र-१.७९ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः । सांख्यसूत्र-१.८० ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
न कर्मण उपादानत्वायोगात् । सांख्यसूत्र-१.८१ ।
(कर्मणां जगदपादानाता निरासः)
नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । सांख्यसूत्र-१.८२ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । सांख्यसूत्र-१.८३ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । सांख्यसूत्र-१.८४ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
काम्येऽकाम्येपि साध्यत्वाविशेषात् । सांख्यसूत्र-१.८५ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । सांख्यसूत्र-१.८६ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । सांख्यसूत्र-१.८७ ।
(प्रमा स्वरूपं, प्रमाणेयत्ता च)
तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । सांख्यसूत्र-१.८८ ।
(प्रमा स्वरूपं, प्रमार्णयत्ताच)
यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं । सांख्यसूत्र-१.८९ ।
(प्रत्यक्षलक्षणं)
योगिनामबाह्यप्रत्यक्षत्वात् न दोषः । सांख्यसूत्र-१.९० ।
(प्रत्यक्षलक्षणं)
लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । सांख्यसूत्र-१.९१ ।
(प्रत्यक्षलक्षणं)
ईश्वरासिद्धेः । सांख्यसूत्र-१.९२ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । सांख्यसूत्र-१.९३ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
उभयथाप्यसत्करत्वं । सांख्यसूत्र-१.९४ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । सांख्यसूत्र-१.९५ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् । सांख्यसूत्र-१.९६ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
विशेषकार्येष्वपि जीवानां । सांख्यसूत्र-१.९७ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः । सांख्यसूत्र-१.९८ ।
(तदङ्गतया ईश्वरसत्ता निरासः)
अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं । सांख्यसूत्र-१.९९ ।
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं)
प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । सांख्यसूत्र-१.१०० ।
(अनुमान लक्षणं)
आप्तोपदेशः शब्दः । सांख्यसूत्र-१.१०१ ।
(शब्द लक्षणं)
उभयसिद्धिः प्रमाणात्तदुपदेशः । सांख्यसूत्र-१.१०२ ।
(प्रमाणस्वरूपविवेचन फलं)
सामान्यतो दृष्टादुभयसिद्धिः । सांख्यसूत्र-१.१०३ ।
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं)
चिदवसानो भोगः । सांख्यसूत्र-१.१०४ ।
(निर्दुष्टं प्रमास्वरूपं)
अकर्तुरपि फलोपभोगोऽन्नाद्यवत् । सांख्यसूत्र-१.१०५ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । सांख्यसूत्र-१.१०६ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
नोभयं च तत्वाख्याने । सांख्यसूत्र-१.१०७ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । सांख्यसूत्र-१.१०८ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
सौक्ष्म्यात्तदनुपलरुब्धिः । सांख्यसूत्र-१.१०९ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
कार्यदर्शनात्तदुपलब्धेः । सांख्यसूत्र-१.११० ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । सांख्यसूत्र-१.१११ ।
(सत्कार्यवाद निरूपणं), पू
तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । सांख्यसूत्र-१.११२ ।
(सत्कार्यवाद निरूपणं), सि
त्रिविधविरोधापत्तेश्च । सांख्यसूत्र-१.११३ ।
(सत्कार्यवाद निरूपणं)
नासदुत्पादो नृशृङ्गवत् । सांख्यसूत्र-१.११४ ।
(असत्कार्यवादनिराकरणं)
उपादाननियमात् । सांख्यसूत्र-१.११५ ।
(असत्कार्यवादनिराकरणं)
सर्वत्र सर्वदा सर्वासम्भवात् । सांख्यसूत्र-१.११६ ।
(असत्कार्यवादनिराकरणं)
शक्तस्य शक्यकरणात् । सांख्यसूत्र-१.११७ ।
(असत्कार्यवादनिराकरणं)
कारणभावाच्च । सांख्यसूत्र-१.११८ ।
(असत्कार्यवादनिराकरणं)
न भावे भावयोगश्चेत् । सांख्यसूत्र-१.११९ ।
(सतः कार्यत्वोपपत्तिः), पू
नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । सांख्यसूत्र-१.१२० ।
(सतः कार्यत्वोपपत्तिः), सि
नाशः कारणलयः । सांख्यसूत्र-१.१२१ ।
(नाशस्वरूपं)
पारम्पर्यतोऽन्वेषणा बीजाङ्कुरवत् । सांख्यसूत्र-१.१२२ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)
उत्पत्तिवददोषः । सांख्यसूत्र-१.१२३ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । सांख्यसूत्र-१.१२४ ।
(कार्यस्वरूपं)
आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । सांख्यसूत्र-१.१२५ ।
(कार्यस्वरूपं)
त्रिगुणाचेतनत्वादि द्वयोः । सांख्यसूत्र-१.१२६ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं । सांख्यसूत्र-१.१२७ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
लध्वैदि धर्मैः साधर्म्यं च गुणानां । सांख्यसूत्र-१.१२८ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । सांख्यसूत्र-१.१२९ ।
(महदादेः कार्यत्वोपपत्तिः)
परिमाणात् । सांख्यसूत्र-१.१३० ।
(महदादेः कार्यत्वोपपत्तिः)
समन्वयात् । सांख्यसूत्र-१.१३१ ।
(महदादेः कार्यत्वोपपत्तिः)
शक्तितश्चेति । सांख्यसूत्र-१.१३२ ।
(महदादेः कार्यत्वोपपत्तिः)
तद्धाने प्रकृतिः पुरुषो वा । सांख्यसूत्र-१.१३३ ।
(महदादेः कार्यत्वोपपत्तिः)
तयोरन्यत्वे तुच्छत्वं । सांख्यसूत्र-१.१३४ ।
(महदादेः कार्यत्वोपपत्तिः)
कार्यात्कारणानुमानं तत्साहित्यात् । सांख्यसूत्र-१.१३५ ।
(कार्यैः कारणानुमानविधिः)
अव्यक्तं त्रिगुणाल्लिङ्गात् । सांख्यसूत्र-१.१३६ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)
तत्कार्यतस्तत्सिद्धेर्नापलापः । सांख्यसूत्र-१.१३७ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)
सामान्येन विवादाभावात् धर्मवन्न साधनं । सांख्यसूत्र-१.१३८ ।
(पुरुषास्तित्व साधनं)
शरीरादिव्यतिरिक्तः पुमान् । सांख्यसूत्र-१.१३९ ।
(पुरुषास्तित्व साधनं)
संहतपरार्थत्वात् । सांख्यसूत्र-१.१४० ।
(पुरुषास्तित्व साधनं)
त्रिगुणादिविपर्ययात् । सांख्यसूत्र-१.१४१ ।
(पुरुषास्तित्व साधनं)
अधिष्ठानाच्चेति । सांख्यसूत्र-१.१४२ ।
(पुरुषास्तित्व साधनं)
भोतृभावात् । सांख्यसूत्र-१.१४३ ।
(पुरुषास्तित्व साधनं)
कैवल्यार्थं प्रवृत्तेश्च । सांख्यसूत्र-१.१४४ ।
(पुरुषास्तित्व साधनं)
जडप्रकाशायोगात्प्रकाशः । सांख्यसूत्र-१.१४५ ।
(पुरुषस्य प्रकाशस्वरूपत्वं)
निर्गुणत्वान्नचिद्धर्मा । सांख्यसूत्र-१.१४६ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । सांख्यसूत्र-१.१४७ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
सुषुप्त्याद्यसाक्षित्वं । सांख्यसूत्र-१.१४८ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
जन्मादुव्यवस्थातः पुरुषबहुत्वं । सांख्यसूत्र-१.१४९ ।
(पुरुषबहुत्व साधनं)
उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । सांख्यसूत्र-१.१५० ।
(पुरुषबहुत्व साधनं)
उपाधिर्भिद्यते न तु तद्वान् । सांख्यसूत्र-१.१५१ ।
(पुरुषबहुत्व साधनं)
एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । सांख्यसूत्र-१.१५२ ।
(पुरुषबहुत्व साधनं)
अन्यधर्मत्वेऽपि नारोपात्तत्सिद्धिरेकत्वात् । सांख्यसूत्र-१.१५३ ।
(पुरुषबहुत्व साधनं)
नाद्वैतश्रुतिविरोधो जातिपरत्वात् । सांख्यसूत्र-१.१५४ ।
(आत्मैक्यवादोपपत्तिः)
विदितबन्धकारणस्य दृष्ट्यातद्रूपं । सांख्यसूत्र-१.१५५ ।
(आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । सांख्यसूत्र-१.१५६ ।
(आत्मैक्यवादोपपत्तिः)
वामदेवादिर्मुक्तो नाद्वैतं । सांख्यसूत्र-१.१५७ ।
(आत्मैक्यवादोपपत्तिः)
अनादावद्यावदभावाद्भविष्यदप्येवं । सांख्यसूत्र-१.१५८ ।
(आत्मैक्यवादोपपत्तिः)
इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । सांख्यसूत्र-१.१५९ ।
(आत्मैक्यवादोपपत्तिः)
व्यावृत्तोभयरूपः । सांख्यसूत्र-१.१६० ।
(आत्मनां सदैकरूपत्वं)
साक्षात्सम्बन्धात्साक्षित्वं । सांख्यसूत्र-१.१६१ ।
(आत्मनां सदैकरूपत्वं)
नित्यमुक्तत्वं । सांख्यसूत्र-१.१६२ ।
(आत्मनां सदैकरूपत्वं)
औदासीन्यं चेति । सांख्यसूत्र-१.१६३ ।
(आत्मनां सदैकरूपत्वं)
उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् । सांख्यसूत्र-१.१६४ ।
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः),


प्रधानकार्य[सम्पाद्यताम्]

विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । सांख्यसूत्र-२.१ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
विरक्तस्य तत्सिद्धेः । सांख्यसूत्र-२.२ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । सांख्यसूत्र-२.३ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
बहुभृत्यवद्वा प्रत्येकं । सांख्यसूत्र-२.४ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । सांख्यसूत्र-२.५ ।
(पुरुषे स्रष्टृत्वनिराकरणं)
कार्यतस्तत्सिद्धेः । सांख्यसूत्र-२.६ ।
(पुरुषे स्रष्टृत्वनिराकरणं)
चेतनोद्देशान्नियमः कण्टकमोक्षवत् । सांख्यसूत्र-२.७ ।
(पुरुषे स्रष्टृत्वनिराकरणं)
अन्ययोगेऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । सांख्यसूत्र-२.८ ।
(पुरुषे स्रष्टृत्वनिराकरणं)
रागविरागयोः योगः सृष्टिश्च । सांख्यसूत्र-२.९ ।
(सृष्टिं प्रति मुख्यं निमित्तकारणं)
महदादिक्रमेण पञ्चभूतानां । सांख्यसूत्र-२.१० ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । सांख्यसूत्र-२.११ ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
दिक्कालावाकाशादिभ्यः । सांख्यसूत्र-२.१२ ।
(दिक्कालयोः सृष्टिः)
अध्यवसायो बुद्धिः । सांख्यसूत्र-२.१३ ।
(महत्तत्व स्वरूप कार्यादिः)
तत्कार्यं धर्मादि । सांख्यसूत्र-२.१४ ।
(महत्तत्व स्वरूप कार्यादिः)
महदुपरागाद्विपरीतं । सांख्यसूत्र-२.१५ ।
(महत्तत्व स्वरूप कार्यादिः)
अभिमानोऽहङ्कारः । सांख्यसूत्र-२.१६ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)
एकादश पञ्चतन्मात्रं तत्कार्यं । सांख्यसूत्र-२.१७ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)
सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् । सांख्यसूत्र-२.१८ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)
कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । सांख्यसूत्र-२.१९ ।
(इन्द्रियाणां स्वरूपं)
आहङ्कारिकत्वश्रुतेः न भौतिकानि । सांख्यसूत्र-२.२० ।
(इन्द्रियाणां स्वरूपं)
देवतालयश्रुतिर्नारम्भकस्य । सांख्यसूत्र-२.२१ ।
(इन्द्रियाणां स्वरूपं)
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । सांख्यसूत्र-२.२२ ।
(इन्द्रियाणां अनित्यता)
अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने । सांख्यसूत्र-२.२३ ।
(गोलकानामेवेन्द्रियत्व निराकरणं)
शक्तिभेदेऽपि भेदसिद्धौ नैकत्वं । सांख्यसूत्र-२.२४ ।
(एकेन्द्रियवादनिरासः)
न कल्पनाविरोधः प्रमाणदृष्टस्य । सांख्यसूत्र-२.२५ ।
(एकेन्द्रियवादनिरासः)
उभयात्मकं च मनः । सांख्यसूत्र-२.२६ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)
गुणपरिणामभेदान्नानात्वमवस्थावत् । सांख्यसूत्र-२.२७ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)
रूपादिरसमलान्त उभयोः । सांख्यसूत्र-२.२८ ।
(इन्द्रियाणां विषयाः)
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । सांख्यसूत्र-२.२९ ।
(इन्द्रियाणां आत्मोकारकत्वं)
त्रयाणां स्वालक्षण्यं । सांख्यसूत्र-२.३० ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । सांख्यसूत्र-२.३१ ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)
क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः । सांख्यसूत्र-२.३२ ।
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । सांख्यसूत्र-२.३३ ।
(पञ्चविधाः धीवृत्तयः)
तन्निवृत्तावुपशान्तोपरागः स्वस्थः । सांख्यसूत्र-२.३४ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)
कुसुमवच्च मणिः । सांख्यसूत्र-२.३५ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)
पुरुषार्थं करणोद्भवोऽप्यदृष्टोल्लासात् । सांख्यसूत्र-२.३६ ।
(इन्द्रियप्रवृत्त्युपाधिः)
धेनुवद्वत्साय । सांख्यसूत्र-२.३७ ।
(इन्द्रियप्रवृत्त्युपाधिः)
करणं त्रयोदशाविधं अवान्तरभेदात् । सांख्यसूत्र-२.३८ ।
(करणानां त्रयोदशत्वं)
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् । सांख्यसूत्र-२.३९ ।
(करणानां त्रयोदशत्वं)
द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु । सांख्यसूत्र-२.४० ।
(करणेषु गौणमुख्यभावव्यवस्था)
अव्यभिचारात् । सांख्यसूत्र-२.४१ ।
(करणेषु गौणमुख्यभावव्यवस्था)
तथाशेषसंस्काराधारत्वात् । सांख्यसूत्र-२.४२ ।
(करणेषु गौणमुख्यभावव्यवस्था)
स्मृत्यानुमानाच्च । सांख्यसूत्र-२.४३ ।
(करणेषु गौणमुख्यभावव्यवस्था)
सम्भवेन्न स्वतः । सांख्यसूत्र-२.४४ ।
(करणेषु गौणमुख्यभावव्यवस्था)
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । सांख्यसूत्र-२.४५ ।
(करणेषु गौणमुख्यभावव्यवस्था)
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् । सांख्यसूत्र-२.४६ ।
(करणेषु गौणमुख्यभावव्यवस्था)
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । सांख्यसूत्र-२.४७ ।
(करणेषु गौणमुख्यभावव्यवस्था)


वैराग्याध्यायः[सम्पाद्यताम्]

अविशेषात् विशेषारम्भः । सांख्यसूत्र-३.१ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
तस्माच्छरीरस्य । सांख्यसूत्र-३.२ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
तदीजात् संसृतिः । सांख्यसूत्र-३.३ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
आविवेकाच्च प्रवर्तनमविशेषाणां । सांख्यसूत्र-३.४ ।
(संसृतेः विवेकपर्यन्तत्वं)
उपभोगादितरस्य । सांख्यसूत्र-३.५ ।
(संसृतेः विवेकपर्यन्तत्वं)
सम्प्रति परिमुक्तो द्वाभ्यां । सांख्यसूत्र-३.६ ।
(संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । सांख्यसूत्र-३.७ ।
(स्थूलनदिनर शरीरयोः भेदः)
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । सांख्यसूत्र-३.८ ।
(स्थूलनदिनर शरीरयोः भेदाः)
सप्तदशैकं लिङ्गं । सांख्यसूत्र-३.९ ।
(लिङ्गशरीरं तत्कार्यं च)
व्यक्तिभेदः कर्मविशेषात् । सांख्यसूत्र-३.१० ।
(लिङ्गशरीरं तत्कार्यं च)
तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । सांख्यसूत्र-३.११ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)
न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । सांख्यसूत्र-३.१२ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
मूर्तत्वेऽपि न सङ्घातयोगात् तरणिवत् । सांख्यसूत्र-३.१३ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
अणुपरिमाणं तत्कृतिश्रुतेः । सांख्यसूत्र-३.१४ ।
(लिङ्गशरीरपरिमाणं)
तदन्नमयत्वश्रुतेश्च । सांख्यसूत्र-३.१५ ।
(लिङ्गशरीरपरिमाणं)
पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । सांख्यसूत्र-३.१६ ।
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)
पाञ्चभौतिको देहः । सांख्यसूत्र-३.१७ ।
(स्थूलशरीरस्वरुपविषये मत भेदाः)
चातुर्भौतिकमित्येके । सांख्यसूत्र-३.१८ ।
(चैतन्यस्य भूतधर्मत्वा भावः)
ऐकभौतिकमित्यपरे । सांख्यसूत्र-३.१९ ।
(चैतन्यस्य भूतधर्मत्वा भावः)
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । सांख्यसूत्र-३.२० ।
(चैतन्यस्य भूतधर्मत्वा भावः)
प्रपञ्चमरणाद्यभावश्च । सांख्यसूत्र-३.२१ ।
(चैतन्यस्य भूतधर्मत्वा भावः)
मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । सांख्यसूत्र-३.२२ ।
(चैतन्यस्य भूतधर्मत्वा भावः)
ज्ञानान्मुक्तिः । सांख्यसूत्र-३.२३ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
बन्धो विपर्ययात् । सांख्यसूत्र-३.२४ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
नियतकारणत्वान्न समुच्चयविकल्पौ । सांख्यसूत्र-३.२५ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । सांख्यसूत्र-३.२६ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
इतरस्यापि नात्यन्तिकं । सांख्यसूत्र-३.२७ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
सङ्कल्पितेऽप्येवं । सांख्यसूत्र-३.२८ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् । सांख्यसूत्र-३.२९ ।
(उपासनाफलं)
रागोपहतिः ध्यानं । सांख्यसूत्र-३.३० ।
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)
वृत्तिनिरोधात् तत्सिद्धिः । सांख्यसूत्र-३.३१ ।
(ध्यानसिद्ध्युपायः)
धारणासनस्वकर्मणा तत्सिद्धिः । सांख्यसूत्र-३.३२ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)
निरोधः छर्दिविधारणाभ्यां । सांख्यसूत्र-३.३३ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)
स्थिरसुखमासनं । सांख्यसूत्र-३.३४ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । सांख्यसूत्र-३.३५ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)
वैराग्यात् अभ्यासाच्च । सांख्यसूत्र-३.३६ ।
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)
विपर्ययभेदाः पञ्च । सांख्यसूत्र-३.३७ ।
(बन्धहेतुविपर्ययविभागः)
अशक्तिरष्टविशतिधा तु । सांख्यसूत्र-३.३८ ।
(विपर्ययहेतूनां अशक्तीनां भेदाः)
तुष्टिर्नवधा । सांख्यसूत्र-३.३९ ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
सिद्धिरष्टधा । सांख्यसूत्र-३.४० ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
अवान्तरभेदाः पूर्ववत् । सांख्यसूत्र-३.४१ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
एवमितरस्याः । सांख्यसूत्र-३.४२ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
आध्यत्मिकादि भेदात् नवधा तुष्टिः । सांख्यसूत्र-३.४३ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
ऊहादिभिः सिद्धिरष्टधा । सांख्यसूत्र-३.४४ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
नेतरादितरहानेन विना । सांख्यसूत्र-३.४५ ।
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)
दैवादिप्रभेदा । सांख्यसूत्र-३.४६ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । सांख्यसूत्र-३.४७ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
ऊर्ध्वं सत्वविशाला । सांख्यसूत्र-३.४८ ।
(गुणप्रभेदेन सृष्टिभेदाः)
तमोविशालामूलतः । सांख्यसूत्र-३.४९ ।
(गुणप्रभेदेन सृष्टिभेदाः)
मध्ये रजोविशाला । सांख्यसूत्र-३.५० ।
(गुणप्रभेदेन सृष्टिभेदाः)
कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । सांख्यसूत्र-३.५१ ।
(विचित्रसृष्टीनां निमित्तं)
आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । सांख्यसूत्र-३.५२ ।
(आमुक्ति सृष्टीनां हेयत्वं)
समानं जरामरणादिनं दुःखं । सांख्यसूत्र-३.५३ ।
(आमुक्ति सृष्टीनां हेयत्वं)
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । सांख्यसूत्र-३.५४ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
अकार्यत्वेऽपि तद्योगः पारवश्यात् । सांख्यसूत्र-३.५५ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
स हि सर्ववित् सर्वकर्ता । सांख्यसूत्र-३.५६ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
ईदृशेश्वरसिद्धिः सिद्धा । सांख्यसूत्र-३.५७ ।
(प्रकृतिलीनस्यैव जन्येश्वरत्वं)
प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वात् । सांख्यसूत्र-३.५८ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
उष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-३.५९ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य । सांख्यसूत्र-३.६० ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
कर्मवत् दृष्टेर्वा कालादेः । सांख्यसूत्र-३.६१ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् । सांख्यसूत्र-३.६२ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
कर्माकृष्टेर्वानादितः । सांख्यसूत्र-३.६३ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । सांख्यसूत्र-३.६४ ।
(सृष्टिनिवृत्तिहेतुः)
इतरैतरवत्तद्दोषात् । सांख्यसूत्र-३.६५ ।
(सृष्टिनिवृत्तिहेतुः)
द्वयोरेकतस्य वौदासीन्यमपवर्गः । सांख्यसूत्र-३.६६ ।
(सृष्टिनिवृत्तिहेतुः)
अन्यसृष्ट्युपरागेऽपि न विरज्य
(म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । सांख्यसूत्र-३.६७ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)
कर्मनिमित्तयोगाच्च । सांख्यसूत्र-३.६८ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)
नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तं । सांख्यसूत्र-३.६९ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । सांख्यसूत्र-३.७० ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । सांख्यसूत्र-३.७१ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । सांख्यसूत्र-३.७२ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)
प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । सांख्यसूत्र-३.७३ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)
रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । सांख्यसूत्र-३.७४ ।
(बन्धमोक्षनिमित्तानि)
निमित्तत्वमविवेकस्य न दृष्टहानिः । सांख्यसूत्र-३.७५ ।
(बन्धमोक्षनिमित्तानि)
तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः । सांख्यसूत्र-३.७६ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
अधिकारिप्रभेदान्न नियमः । सांख्यसूत्र-३.७७ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः । सांख्यसूत्र-३.७८ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)
जीवन्मुक्तश्च । सांख्यसूत्र-३.७९ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)
उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । सांख्यसूत्र-३.८० ।
(जीवन्मुक्तिसाधनं)
श्रुतिश्च । सांख्यसूत्र-३.८१ ।
(जीवन्मुक्तिसाधनं)
इतरथा अन्धपरम्परा । सांख्यसूत्र-३.८२ ।
(जीवन्मुक्तिसाधनं)
चक्रभ्रमणवत् धृतशरीरः । सांख्यसूत्र-३.८३ ।
(जीवन्मुक्तिसाधनं)
संस्कारलेशतः तत्सिद्धिः । सांख्यसूत्र-३.८४ ।
(जीवन्मुक्तिसाधनं)
विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । सांख्यसूत्र-३.८५ ।
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)


आख्यायिका[सम्पाद्यताम्]

राजपुत्रवत् तत्वोपदेशात् । सांख्यसूत्र-४.१ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
पिशाचवदन्यार्थोपदेशेऽपि । सांख्यसूत्र-४.२ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
आवृत्तिरसकृदुपदेशात् । सांख्यसूत्र-४.३ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
पितापुत्रवदुभयोर्दृष्टत्वात् । सांख्यसूत्र-४.४ ।
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः)
श्येनवत् सुखदुःखी त्याग वियोगाभ्यां । सांख्यसूत्र-४.५ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
अहिनिर्ल्वयिनीवत् । सांख्यसूत्र-४.६ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः)
छिन्नहस्तवद्वा । सांख्यसूत्र-४.७ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
असाधनानुचिन्तनं बन्धाय भरतवत् । सांख्यसूत्र-४.८ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण
(शङ्ख) वत् । सांख्यसूत्र-४.९ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
द्वाभ्यामपि तथैव । सांख्यसूत्र-४.१० ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
निराशः सुखी पिङ्गलावत् । सांख्यसूत्र-४.११ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
अनारम्भेऽपि परगृहे सुखी सर्पवत् । सांख्यसूत्र-४.१२ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
बहुशास्त्र गुरूपासनेऽपि सारादानं षट्पदवत् । सांख्यसूत्र-४.१३ ।
(सारग्रहणावश्यकता)
इषुकारवन्नैकचित्तस्य समाधिहानिः । सांख्यसूत्र-४.१४ ।
(एकाग्रतावश्यकता)
कृतनियमलङ्घनादानर्थक्यं लोकवत् । सांख्यसूत्र-४.१५ ।
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता)
तद्विस्मरणेऽपि भेकीवत् । सांख्यसूत्र-४.१६ ।
(शास्त्रविहितनियमस्मरणावश्यकता)
नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । सांख्यसूत्र-४.१७ ।
(श्रुतार्थमननावश्यकता)
दृष्टस्तयोरिन्द्रस्य । सांख्यसूत्र-४.१८ ।
(श्रुतार्थमननावश्यकता)
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् । सांख्यसूत्र-४.१९ ।
(गुरुसेवा)
न कालनियमो वामदेववत् । सांख्यसूत्र-४.२० ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । सांख्यसूत्र-४.२१ ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । सांख्यसूत्र-४.२२ ।
(पुनरावृत्तिहेतुभूतान्युपासनानि)
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । सांख्यसूत्र-४.२३ ।
(ज्ञाननिष्पत्त्यधिकारः)
लब्धातिशययोगाद्वा तद्वत् । सांख्यसूत्र-४.२४ ।
(ज्ञाननिष्पत्त्यधिकारः)
न कामचारित्वं रागोपहते शुकवत् । सांख्यसूत्र-४.२५ ।
(रागदोषाः तच्छमनोपायाश्च)
गुणयोगात् बद्धः शुकवत् । सांख्यसूत्र-४.२६ ।
(रागदोषाः तच्छमनोपायाश्च)
न भोगाद्रागशान्तिः मुनिवत् । सांख्यसूत्र-४.२७ ।
(रागदोषाः तच्छमनोपायाश्च)
दोषदर्शनादुभयोः । सांख्यसूत्र-४.२८ ।
(रागदोषाः तच्छमनोपायाश्च)
न मलिनचेतस्युपदेश बीजप्ररोहोऽजवत् । सांख्यसूत्र-४.२९ ।
(रागदोषाः तच्छमनोपायाश्च)
नाभासमात्रमपि मलिनदर्पणवत् । सांख्यसूत्र-४.३० ।
(रागदोषाः तच्छमनोपायाश्च)
न तज्जस्यापि तद्रपता पङ्कजवत् । सांख्यसूत्र-४.३१ ।
(रागदोषाः तच्छमनोपायाश्च)
न भूतियोगेऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् । सांख्यसूत्र-४.३२ ।
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)


परमतनिर्जयः[सम्पाद्यताम्]

मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । सांख्यसूत्र-५.१ ।
(मङ्गलाचरणप्रयोजनं)
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । सांख्यसूत्र-५.२ ।
(ईश्वरस्य फलदातृत्वाभवः)
स्वोपकारादधिष्ठानं लोकवत् । सांख्यसूत्र-५.३ ।
(ईश्वरस्य फलदातृत्वाभवः)
लौकिकेश्वरवदितरथा । सांख्यसूत्र-५.४ ।
(ईश्वरस्य फलदातृत्वाभवः)
पारिभाषिको वा । सांख्यसूत्र-५.५ ।
(ईश्वरस्य फलदातृत्वाभवः)
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । सांख्यसूत्र-५.६ ।
(ईश्वरस्य फलदातृत्वाभवः)
तद्योगेऽपि न नित्यमुक्तः । सांख्यसूत्र-५.७ ।
(ईश्वरस्य फलदातृत्वाभवः)
प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः । सांख्यसूत्र-५.८ ।
(ईश्वरस्य फलदातृवाभवः)
सत्तामात्राच्चेत्सर्वैश्वर्यं । सांख्यसूत्र-५.९ ।
(ईश्वरस्य फलदातृत्वाभवः)
प्रमाणाभावान्न तत्सिद्धिः । सांख्यसूत्र-५.१० ।
(ईश्वरे प्रमाणाभावः)
सम्बन्धाभावान्नानुमानं । सांख्यसूत्र-५.११ ।
(ईश्वरे प्रमाणाभावः)
श्रुतिरपि प्रधानकार्यत्वस्य । सांख्यसूत्र-५.१२ ।
(ईश्वरे प्रमाणाभावः)
नाविद्याशक्तियोगो निस्सङ्गस्य । सांख्यसूत्र-५.१३ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । सांख्यसूत्र-५.१४ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
न बीजाङ्कुरवत् सादिसंसारश्रुतेः । सांख्यसूत्र-५.१५ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः । सांख्यसूत्र-५.१६ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
अबाधे नैष्फल्यं । सांख्यसूत्र-५.१७ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
विद्याबाध्यत्वे जगतोऽप्येवं । सांख्यसूत्र-५.१८ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
तद्रूपत्वे सादित्वं । सांख्यसूत्र-५.१९ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । सांख्यसूत्र-५.२० ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
श्रुतिलिङ्गादिभिः तत्सिद्धिः । सांख्यसूत्र-५.२१ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
न नियमः प्रमाणान्तरावकाशात् । सांख्यसूत्र-५.२२ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
उभयत्राप्येवं । सांख्यसूत्र-५.२३ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
अर्थात् सिद्धिश्चेत्समानमुभयोः । सांख्यसूत्र-५.२४ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
अन्तः करणधर्मत्वं धर्मादीनां । सांख्यसूत्र-५.२५ ।
(धर्माधर्मयोः अन्तः करणधर्मत्वं)
गुणादीनां च नात्यन्तबाधः । सांख्यसूत्र-५.२६ ।
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
पञ्चावयवयोगात् सुखसंवित्तिः । सांख्यसूत्र-५.२७ ।
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । सांख्यसूत्र-५.२८ ।
(व्याप्तिस्वरूपं तत्साधनं च), पू
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । सांख्यसूत्र-५.२९ ।
(व्याप्तिस्वरूपं तत्साधनं च), सि
न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.३० ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
निजशक्त्युद्भवमित्याचार्याः । सांख्यसूत्र-५.३१ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
आधेयशक्तियोग इति पञ्चशिखः । सांख्यसूत्र-५.३२ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । सांख्यसूत्र-५.३३ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
विशेषेणानर्थक्य प्रसक्तेः । सांख्यसूत्र-५.३४ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
पल्लवादिष्वनुपपत्तेश्च । सांख्यसूत्र-५.३५ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । सांख्यसूत्र-५.३६ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । सांख्यसूत्र-५.३७ ।
(शब्दप्रामाण्यसाधनं)
त्रिभिस्साम्बन्धसिद्धिः । सांख्यसूत्र-५.३८ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)
न कार्ये नियमः उभयथा दर्शनात् । सांख्यसूत्र-५.३९ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । सांख्यसूत्र-५.४० ।
(लोकवेदयोः शक्तिग्रहणोपायाः)
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । सांख्यसूत्र-५.४१ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । सांख्यसूत्र-५.४२ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि
निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । सांख्यसूत्र-५.४३ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)
योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । सांख्यसूत्र-५.४४ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)
न नित्यत्वं वेदानां कार्यत्वश्रुतेः । सांख्यसूत्र-५.४५ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । सांख्यसूत्र-५.४६ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
मुक्तामुक्तयोरयोग्यत्वात् । सांख्यसूत्र-५.४७ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । सांख्यसूत्र-५.४८ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । सांख्यसूत्र-५.४९ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
यस्मिन् अदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । सांख्यसूत्र-५.५० ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । सांख्यसूत्र-५.५१ ।
(वेदानां स्वतः प्रामाण्यं)
नासतः ख्यानं नृशृङ्गवत् । सांख्यसूत्र-५.५२ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
न सतो बाधदर्नात् । सांख्यसूत्र-५.५३ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
नानिर्वचनीयस्य तदभावात् । सांख्यसूत्र-५.५४ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
नान्यथाख्यातिः स्ववचोव्याघातात् । सांख्यसूत्र-५.५५ ।
(अन्यथाख्यातिनिरासः)
सदसत्ख्यातिः बाधाबाधात् । सांख्यसूत्र-५.५६ ।
(सदसत्ख्याति निरासः)
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । सांख्यसूत्र-५.५७ ।
(स्फोटनिरासः)
न शब्दनित्यत्वं कार्यताप्रतीतेः । सांख्यसूत्र-५.५८ ।
(वर्णनित्यत्वनिरासः)
पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । सांख्यसूत्र-५.५९ ।
(वर्णनित्यत्वनिरासः), पू
सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं । सांख्यसूत्र-५.६० ।
(वर्णनित्यत्वनिरासः), सि
नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । सांख्यसूत्र-५.६१ ।
(आत्माद्वैत निरासः)
नानात्मापि प्रत्यक्षबाधात् । सांख्यसूत्र-५.६२ ।
(आत्माद्वैत निरासः)
नोभाभ्यां तेनैव । सांख्यसूत्र-५.६३ ।
(आत्माद्वैत निरासः)
अन्यपरत्वमविवेकानां तत्र । सांख्यसूत्र-५.६४ ।
(आत्माद्वैतनिरासः)
नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । सांख्यसूत्र-५.६५ ।
(आत्माद्वैतनिरासः)
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । सांख्यसूत्र-५.६६ ।
(आत्माद्वैतनिरासः)
दुःखनिवृत्तेर्गौणः । सांख्यसूत्र-५.६७ ।
(आत्माद्वैतनिरासः)
विमुक्तिप्रशंसा मन्दानां । सांख्यसूत्र-५.६८ ।
(आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । सांख्यसूत्र-५.६९ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
सक्रियत्वात् गतिश्रुतेः । सांख्यसूत्र-५.७० ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
न निर्भागत्वं तद्योगात् घटवत् । सांख्यसूत्र-५.७१ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । सांख्यसूत्र-५.७२ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
न भागलाभो भागिनो निर्भागत्वश्रुतेः । सांख्यसूत्र-५.७३ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । सांख्यसूत्र-५.७४ ।
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)
न विशेषगुणोच्छित्तिस्तद्वत् । सांख्यसूत्र-५.७५ ।
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)
न विशेषगतिः निष्क्रियस्य । सांख्यसूत्र-५.७६ ।
(मुक्तेः लोकान्तरगतिरूपत्वाभावः)
नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । सांख्यसूत्र-५.७७ ।
(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)
न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । सांख्यसूत्र-५.७८ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
एवं शून्यमपि । सांख्यसूत्र-५.७९ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
संयोगाश्च विभागान्ता इति न देशादिलाभोऽपि । सांख्यसूत्र-५.८० ।
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)
न भागियोगो भागस्य । सांख्यसूत्र-५.८१ ।
(मुक्तेः लयरूपत्वाभावः)
नाणिमादियोगोऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् । सांख्यसूत्र-५.८२ ।
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)
नेन्द्रादिपदयोगोऽपि तद्वत् । सांख्यसूत्र-५.८३ ।
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)
न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । सांख्यसूत्र-५.८४ ।
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)
न षट् पदार्थनियमस्तद्बोधान्मुक्तिः । सांख्यसूत्र-५.८५ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
षोडशादिष्वप्येवं । सांख्यसूत्र-५.८६ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
नाणुनित्यता तत्कार्यत्वश्रुतेः । सांख्यसूत्र-५.८७ ।
(अणूनां नित्यत्वनिरासः)
न निर्भागत्वं कार्यत्वात् । सांख्यसूत्र-५.८८ ।
(अणूनां नित्यत्वनिरासः)
न रूपनिबन्धनात् प्रत्यक्षनियमः । सांख्यसूत्र-५.८९ ।
(परिमाणस्वरूपादि निर्णयः)
न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । सांख्यसूत्र-५.९० ।
(सामान्यसाधनं, तत्स्वरूपं च)
अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । सांख्यसूत्र-५.९१ ।
(सामान्यसाधनं, तत्स्वरूपं च)
न तदपलापस्तस्मात् । सांख्यसूत्र-५.९२ ।
(सामान्यसाधनं, तत्स्वरूपं च)
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । सांख्यसूत्र-५.९३ ।
(साहश्यस्य तत्त्वान्तरता निराकरणं)
न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । सांख्यसूत्र-५.९४ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । सांख्यसूत्र-५.९५ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न संज्ञासंज्ञि सम्बन्धोऽपि । सांख्यसूत्र-५.९६ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न सम्बन्धनित्यतोभयानित्यत्वात् । सांख्यसूत्र-५.९७ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । सांख्यसूत्र-५.९८ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न समवायोऽस्ति प्रमाणाभावात् । सांख्यसूत्र-५.९९ ।
(समवाय निरासः)
उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । सांख्यसूत्र-५.१०० ।
(समवायनिरासः)
नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । सांख्यसूत्र-५.१०१ ।
(क्रियायाः अनुमेयतानैयत्यनिरासः)
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । सांख्यसूत्र-५.१०२ ।
(शरीरस्य पाञ्चभौतिकत्वनिरासः)
न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । सांख्यसूत्र-५.१०३ ।
(शरीरसामान्यस्य स्थूलत्वनिरासः)
नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा । सांख्यसूत्र-५.१०४ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
न तेजोऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः । सांख्यसूत्र-५.१०५ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः । सांख्यसूत्र-५.१०६ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । सांख्यसूत्र-५.१०७ ।
(वृत्तेः स्वरूपं)
न द्रव्यनियमस्तद्योगात् । सांख्यसूत्र-५.१०८ ।
(वृत्तेः स्वरूपं)
न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः । सांख्यसूत्र-५.१०९ ।
(इन्द्रियाणां अभौतिकत्वं)
निमित्तव्यपदेशात् तदव्यपदेशः । सांख्यसूत्र-५.११० ।
(इन्द्रियाणां अभौतिकत्वं)
ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । सांख्यसूत्र-५.१११ ।
(स्थूलशरीरविशेषाः)
सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् । सांख्यसूत्र-५.११२ ।
(स्थूलशरीरविशेषाः)
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । सांख्यसूत्र-५.११३ ।
(प्रणस्य देहारम्भकत्वाभावः)
भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् । सांख्यसूत्र-५.११४ ।
(देहाधिष्ठातृ निर्णयः)
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । सांख्यसूत्र-५.११५ ।
(देहाधिष्ठातृ निर्णयः)
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । सांख्यसूत्र-५.११६ ।
(आत्मनो नित्यमुक्तत्वोपपादनं)
द्वयोः सबीजमन्यत्र तद्धतिः । सांख्यसूत्र-५.११७ ।
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)
द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ । सांख्यसूत्र-५.११८ ।
(मोक्षे प्रमाणं)
वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वं । सांख्यसूत्र-५.११९ ।
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)
एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.१२० ।
(जीवन्मुक्तेऽपि संस्कारानुवृत्तिः)
न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । सांख्यसूत्र-५.१२१ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
स्मृतेश्च । सांख्यसूत्र-५.१२२ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । सांख्यसूत्र-५.१२३ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । सांख्यसूत्र-५.१२४ ।
(देहेषु चातुर्विध्यं)
न किञ्चिदप्यनुशयिनः । सांख्यसूत्र-५.१२५ ।
(देहेषु चातुर्विध्यं)
न बुद्ध्यादिनित्यत्वं आश्रयाविशेषेऽपि वह्निवत् । सांख्यसूत्र-५.१२६ ।
(बुद्धीच्छादीनां नित्यतानिरासः)
आश्रयासिद्धेश्च । सांख्यसूत्र-५.१२७ ।
(बुद्धीच्छादीनां नित्यतानिरासः)
योगसिद्धयोऽप्यौषधादिसिद्विवन्नापलापनीयाः । सांख्यसूत्र-५.१२८ ।
(सिद्धीनां सत्यता)
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च । सांख्यसूत्र-५.१२९ ।
(भूतचैतन्यवाद निरासः)


तन्त्राध्यायः[सम्पाद्यताम्]

अस्त्यात्मा नास्तित्वसाधनाभावात् । सांख्यसूत्र-६.१ ।
(आत्मास्तित्व निरूपणं)
देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् । सांख्यसूत्र-६.२ ।
(आत्मास्तित्व निरूपणं)
षष्ठीव्यपदेशादपि । सांख्यसूत्र-६.३ ।
(आत्मास्तित्व निरूपणं)
न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । सांख्यसूत्र-६.४ ।
(आत्मास्तित्व निरूपणं)
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । सांख्यसूत्र-६.५ ।
(आत्मनः कृतकृत्यतानिमित्तं)
यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । सांख्यसूत्र-६.६ ।
(आत्मनः कृतकृत्यतानिमित्तं)
कुत्रापि कोऽपि सुखीति । सांख्यसूत्र-६.७ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । सांख्यसूत्र-६.८ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । सांख्यसूत्र-६.९ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः । सांख्यसूत्र-६.१० ।
(गुणबन्धस्यैव अविवेकमूलत्वं), पू
परमधर्मत्वेऽपि तत्सिद्धिरविवेकात् । सांख्यसूत्र-६.११ ।
(गुणबन्धस्यैव अविवेकमूलत्वं), सि
अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । सांख्यसूत्र-६.१२ ।
(अविवेकस्यानादित्वं)
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । सांख्यसूत्र-६.१३ ।
(अविवेकस्यानादित्वं)
प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । सांख्यसूत्र-६.१४ ।
(मुक्तिकारणविवरणं)
अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् । सांख्यसूत्र-६.१५ ।
(मुक्तिकारणविवरणं)
प्रकारान्तरासम्भवादविवेक एव बन्धः । सांख्यसूत्र-६.१६ ।
(बन्धस्वरूपं)
न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्ति श्रुतेः । सांख्यसूत्र-६.१७ ।
(मुक्तेर्नित्यत्वं)
अपुरुषार्थत्वमन्यथा । सांख्यसूत्र-६.१८ ।
(मुक्तेर्नित्यत्वं)
अविशेषापत्तिरुभयोः । सांख्यसूत्र-६.१९ ।
(मुक्तेर्नित्यत्वं)
मुक्तिरन्तराय ध्वस्तेर्न परः । सांख्यसूत्र-६.२० ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
तत्राप्यविरोधः । सांख्यसूत्र-६.२१ ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
अधिकारित्रैविध्यान्न नियमः । सांख्यसूत्र-६.२२ ।
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)
दार्ढ्यार्थमुत्तरेषां । सांख्यसूत्र-६.२३ ।
(नियमानां आवश्यकता)
स्थिरसुखमासनमिति न नियमः । सांख्यसूत्र-६.२४ ।
(नियमानां आवश्यकता)
ध्यानं निर्विषयं मनः । सांख्यसूत्र-६.२५ ।
(ध्यानस्वरूपं)
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । सांख्यसूत्र-६.२६ ।
(योगस्यावश्कता)
निस्सङ्गेऽप्युपरागोऽविवेकात् । सांख्यसूत्र-६.२७ ।
(उपरागहेतुः)
जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । सांख्यसूत्र-६.२८ ।
(उपरागहेतुः)
ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । सांख्यसूत्र-६.२९ ।
(उपराग निरोधहेतुः)
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । सांख्यसूत्र-६.३० ।
(उपराग निरोधहेतुः)
न स्थाननियमः चित्तप्रसादात् । सांख्यसूत्र-६.३१ ।
(उपराग निरोधहेतुः)
प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । सांख्यसूत्र-६.३२ ।
(प्रकृतेरेव जगन्मूलता)
नित्यत्वेऽपि नात्मनो योग्यत्वाभावात् । सांख्यसूत्र-६.३३ ।
(प्रकृतेरेव जगन्मूलता)
श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । सांख्यसूत्र-६.३४ ।
(प्रकृतेरेव जगन्मूलता)
पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् । सांख्यसूत्र-६.३५ ।
(प्रकृतेरेव जगन्मूलता)
सर्वत्र कार्यदर्शनात् विभुत्वं । सांख्यसूत्र-६.३६ ।
(प्रकृतेरेव जगन्मूलता)
गतियोगेऽप्याद्यकारणताहानिरणुवत् । सांख्यसूत्र-६.३७ ।
(प्रकृतेरेव जगन्मूलता)
प्रसिद्धाधिक्यं प्रधानस्य न नियमः । सांख्यसूत्र-६.३८ ।
(प्रकृतेरेव जगन्मूलता)
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । सांख्यसूत्र-६.३९ ।
(प्रकृतेः गुणरूपतासाधनं)
अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-६.४० ।
(प्रधानप्रवृत्तिहेतुः)
कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । सांख्यसूत्र-६.४१ ।
(प्रधानप्रवृत्तिहेतुः)
साम्यवैषम्याभ्यां कार्यद्वयं । सांख्यसूत्र-६.४२ ।
(सृष्टिप्रलनिमित्ते)
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । सांख्यसूत्र-६.४३ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
नान्योपसर्पणेऽपि मुक्तोपभोगः निमित्ताभावात् । सांख्यसूत्र-६.४४ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
पुरुषबहुत्वं व्यवस्थातः । सांख्यसूत्र-६.४५ ।
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं । सांख्यसूत्र-६.४६ ।
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः)
द्वाभ्यामपि प्रमाणविरोधः । सांख्यसूत्र-६.४७ ।
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)
द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । सांख्यसूत्र-६.४८ ।
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । सांख्यसूत्र-६.४९ ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । सांख्यसूत्र-६.५० ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । सांख्यसूत्र-६.५१ ।
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं)
जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् । सांख्यसूत्र-६.५२ ।
(जगत्सत्यत्वसाधनं)
प्रकारान्तरासंभवात्सदुत्पत्तिः । सांख्यसूत्र-६.५३ ।
(सत्कार्यवादस्यैव साधुता)
अहङ्कारः कर्ता न पुरुषः । सांख्यसूत्र-६.५४ ।
(अहङ्कारस्यैव कर्तृत्वं)
चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । सांख्यसूत्र-६.५५ ।
(भोगोपाधिः)
चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । सांख्यसूत्र-६.५६ ।
(पुनरावृत्तिहेतुः)
लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । सांख्यसूत्र-६.५७ ।
(पुनरावृत्तिहेतुः)
पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । सांख्यसूत्र-६.५८ ।
(पुनरावृत्तिहेतुः)
गतिश्रुतेश्च व्यापकत्वेऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् । सांख्यसूत्र-६.५९ ।
(आत्मनो गतिश्रुत्युपपत्तिः)
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । सांख्यसूत्र-६.६० ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । सांख्यसूत्र-६.६१ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । सांख्यसूत्र-६.६२ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । सांख्यसूत्र-६.६३ ।
(जीवत्वोपाधिः)
अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । सांख्यसूत्र-६.६४ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
अदृष्टोद्भूतिवत्समानत्वं । सांख्यसूत्र-६.६५ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
महतोऽन्यत् । सांख्यसूत्र-६.६६ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिः बीजाङ्कुरवत् । सांख्यसूत्र-६.६७ ।
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)
अविवेकनिमित्तो वा पञ्चशिखः । सांख्यसूत्र-६.६८ ।
(तत्रैव मतभेदः)
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । सांख्यसूत्र-६.६९ ।
(पुरुषार्थस्वरूपनिगमनं)
तत्त्व समाससूत्राणि । सांख्यसूत्र-६.७० ।
(कपिलमहर्षिप्रणीतानि)


तत्त्वपादः
अथातस्तत्त्वसमासः । सांख्यसूत्र_संयुक्त-२.१.१ ।
अष्टौ प्रकृतयः । सांख्यसूत्र_संयुक्त-२.१.२ ।
षोडश विकाराः । सांख्यसूत्र_संयुक्त-२.१.३ ।
पुरुषः । सांख्यसूत्र_संयुक्त-२.१.४ ।
त्रैगुण्यं । सांख्यसूत्र_संयुक्त-२.१.५ ।
सञ्चरः । सांख्यसूत्र_संयुक्त-२.१.६ ।
प्रतिसञ्चरः । सांख्यसूत्र_संयुक्त-२.१.७ ।
अध्यात्मं । सांख्यसूत्र_संयुक्त-२.१.८ ।
अधिभूतं । सांख्यसूत्र_संयुक्त-२.१.९ ।
अधिदैवतं । सांख्यसूत्र_संयुक्त-२.१.१० ।


प्रकीर्णपादः
पञ्चाभिबुद्धयः । सांख्यसूत्र_संयुक्त-२.२.१ ।
पञ्च कर्मयोनयः । सांख्यसूत्र_संयुक्त-२.२.२ ।
अञ्च वायवः । सांख्यसूत्र_संयुक्त-२.२.३ ।
पञ्च कर्मात्मानः । सांख्यसूत्र_संयुक्त-२.२.४ ।
पञ्चपर्वाविद्या । सांख्यसूत्र_संयुक्त-२.२.५ ।
अष्टाविंशतिधाशक्तिः । सांख्यसूत्र_संयुक्त-२.२.६ ।
नवधा तुष्टिः । सांख्यसूत्र_संयुक्त-२.२.७ ।
अष्टधा सिद्धिः । सांख्यसूत्र_संयुक्त-२.२.८ ।
दशमूलिकार्थाः । सांख्यसूत्र_संयुक्त-२.२.९ ।
अनुग्रहः सर्गः । सांख्यसूत्र_संयुक्त-२.२.१० ।
चतुर्दशविधो भूतसर्गः । सांख्यसूत्र_संयुक्त-२.२.११ ।
त्रिविधो बन्धः । सांख्यसूत्र_संयुक्त-२.२.१२ ।
त्रिविधो मोक्षः । सांख्यसूत्र_संयुक्त-२.२.१३ ।
त्रिविधं प्रमाणं । सांख्यसूत्र_संयुक्त-२.२.१४ ।
त्रिविधं दुःखं । सांख्यसूत्र_संयुक्त-२.२.१५ ।
एतत्परं याथातथ्यं । सांख्यसूत्र_संयुक्त-२.२.१६ ।
एतत्ज्ञात्वा कृतकृत्यः स्यात् । सांख्यसूत्र_संयुक्त-२.२.१७ ।
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । सांख्यसूत्र_संयुक्त-२.२.१८ ।
"https://sa.wikisource.org/w/index.php?title=सांख्यसूत्राणि&oldid=337961" इत्यस्माद् प्रतिप्राप्तम्