सांख्यसूत्राणि
दिखावट
- साङ्ख्यसूत्राणि
विषयाध्यायः
[सम्पाद्यताम्]- अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । सांख्यसूत्र-१.१ ।
- (परमपुरुषार्थस्वरूपं)
- न दृष्टात् तत्सिद्धिः, निवृत्तेऽप्यनुवृत्ति दर्शनात् । सांख्यसूत्र-१.२ ।
- (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
- प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं । सांख्यसूत्र-१.३ ।
- (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
- सर्वासम्भवात्, सम्भवेऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः । सांख्यसूत्र-१.४ ।
- (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
- उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । सांख्यसूत्र-१.५ ।
- (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
- अविशेषश्चोभयोः । सांख्यसूत्र-१.६ ।
- (वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता)
- न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । सांख्यसूत्र-१.७ ।
- (बन्धस्य स्वाभाविकत्वानुपपत्तिः)
- स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । सांख्यसूत्र-१.८ ।
- (बन्धस्य स्वाभाविकत्वानुपपत्तिः)
- नाशक्योपदेशविधिः, उपदिष्टेऽप्यनुपदेशः । सांख्यसूत्र-१.९ ।
- (बन्धस्य स्वाभाविकत्वानुपपत्तिः)
- शुक्लपटवत् बीजवच्चेत् । सांख्यसूत्र-१.१० ।
- (बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू
- शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । सांख्यसूत्र-१.११ ।
- (बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि
- न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । सांख्यसूत्र-१.१२ ।
- (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)
- न देशयोगतोऽप्यस्मात् । सांख्यसूत्र-१.१३ ।
- (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)
- नावस्थातो देहधर्मत्वात्तस्याः । सांख्यसूत्र-१.१४ ।
- (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
- असङ्गो ह्ययं पुरुष इति । सांख्यसूत्र-१.१५ ।
- (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
- न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च । सांख्यसूत्र-१.१६ ।
- (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
- विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.१७ ।
- (बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः)
- प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । सांख्यसूत्र-१.१८ ।
- (बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः)
- न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । सांख्यसूत्र-१.१९ ।
- (बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः)
- नाविद्यातोऽ प्यवस्तुना बन्धायोगात् । सांख्यसूत्र-१.२० ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः)
- वस्तुत्वे सिन्धान्तहानिः । सांख्यसूत्र-१.२१ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः)
- विजातीयद्वैतापत्तिश्च । सांख्यसूत्र-१.२२ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः)
- विरुद्धोभयरूपा चेत् । सांख्यसूत्र-१.२३ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
- न तादृक्पदार्थाप्रतीतेः । सांख्यसूत्र-१.२४ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
- न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । सांख्यसूत्र-१.२५ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
- अनियतत्वेऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । सांख्यसूत्र-१.२६ ।
- (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
- नानादिविषयोपराग निमित्तकोऽप्यस्य । सांख्यसूत्र-१.२७ ।
- (बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
- न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावोऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । सांख्यसूत्र-१.२८ ।
- (बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
- द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । सांख्यसूत्र-१.२९ ।
- (बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
- अदृष्टवशाच्चेत् । सांख्यसूत्र-१.३० ।
- (बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू
- न द्वयोरेककालयोगादुपकार्योपकारकभावः । सांख्यसूत्र-१.३१ ।
- (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि
- पुत्रकर्मवदिति चेत् । सांख्यसूत्र-१.३२ ।
- (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू
- नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । सांख्यसूत्र-१.३३ ।
- (बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि
- स्थिरकार्यासिद्धेः क्षणिकत्वं । सांख्यसूत्र-१.३४ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु
- न प्रत्यभिज्ञाबाधात् । सांख्यसूत्र-१.३५ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि
- श्रुतिन्यायविरोश्र्वच्च । सांख्यसूत्र-१.३६ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- दृष्टान्तासिद्धेश् च । सांख्यसूत्र-१.३७ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- युगपज्जायमानयोः न कार्यकारणभावः । सांख्यसूत्र-१.३८ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- पूर्वापाये उत्तरायोगात् । सांख्यसूत्र-१.३९ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- तद्भावे तदयोगात् उभयव्यभिचारादपि न । सांख्यसूत्र-१.४० ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- पूर्वभावमात्रे न नियमः । सांख्यसूत्र-१.४१ ।
- (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
- न विज्ञानमात्रं बाह्यप्रतीतेः । सांख्यसूत्र-१.४२ ।
- (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
- तदभावे तदभावात् शून्यं तर्हि । सांख्यसूत्र-१.४३ ।
- (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
- शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य । सांख्यसूत्र-१.४४ ।
- (सर्वशून्यतावादखण्डनं), पू
- अपवादमात्रं अबुद्धानां । सांख्यसूत्र-१.४५ ।
- (सर्वशून्यतावादखण्डनं), सि
- उभयपक्षसमानक्षेमत्वादयमपि । सांख्यसूत्र-१.४६ ।
- (सर्वशून्यतावादखण्डनं)
- अपुरुषार्थत्वमुभयथा । सांख्यसूत्र-१.४७ ।
- (सर्वशून्यतावादखण्डनं)
- न गतिविशेषात् । सांख्यसूत्र-१.४८ ।
- (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
- निष्क्रियस्य तदसम्भवात् । सांख्यसूत्र-१.४९ ।
- (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
- मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः । सांख्यसूत्र-१.५० ।
- (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
- गतिश्रुतिरपि उपाधियोगादाकाशवत् । सांख्यसूत्र-१.५१ ।
- (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
- न कर्मणाप्यतद्धर्मत्वात् । सांख्यसूत्र-१.५२ ।
- (कर्मणो बन्धनिमित्तत्वनिरासः)
- अतिप्रसक्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.५३ ।
- (कर्मणो बन्धनिमित्तत्वनिरासः)
- निर्गुणादि श्रुतिविरोधश्चेति । सांख्यसूत्र-१.५४ ।
- (कर्मणो बन्धनिमित्तत्वनिरासः)
- तद्योगोऽप्यविवेकान्न समानत्वं । सांख्यसूत्र-१.५५ ।
- (अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं)
- नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । सांख्यसूत्र-१.५६ ।
- (विवेकस्यैव अविवेक नाशहेतुत्वं)
- प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं । सांख्यसूत्र-१.५७ ।
- (विवेकस्यैव अविवेक नाशहेतुत्वं)
- वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । सांख्यसूत्र-१.५८ ।
- (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
- युक्तितोऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । सांख्यसूत्र-१.५९ ।
- (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
- अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । सांख्यसूत्र-१.६० ।
- (प्रकृतिपुरुषयोरानुमानिकत्वं)
- सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातोऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । सांख्यसूत्र-१.६१ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- स्थूलात् पञ्चतन्मात्रस्य । सांख्यसूत्र-१.६२ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । सांख्यसूत्र-१.६३ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- तेनान्तः करणस्य । सांख्यसूत्र-१.६४ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- ततः प्रकृतेः । सांख्यसूत्र-१.६५ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- संहतपरार्थत्वात् पुरुषस्य । सांख्यसूत्र-१.६६ ।
- (पञ्चविंशतितत्त्वसिद्धिः)
- मूले मूलाभावादमूलं मूलं । सांख्यसूत्र-१.६७ ।
- (प्रकृतेरेव सर्वजगन्मूलत्वं)
- पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । सांख्यसूत्र-१.६८ ।
- (प्रकृतेरेव सर्वजगन्मूलत्वं)
- समाजः प्रकृतेर्द्वयोः । सांख्यसूत्र-१.६९ ।
- (प्रकृतेरेव सर्वजगन्मूलत्वं)
- अधिकारित्रैविध्यात् न नियमः । सांख्यसूत्र-१.७० ।
- (विवेकमननस्य असार्वत्रिकत्वे हेतुः)
- महदाख्यं आद्यं कार्यं तन्मनः । सांख्यसूत्र-१.७१ ।
- (महत्तत्वस्वरूपं)
- चरमोऽहङ्कारः । सांख्यसूत्र-१.७२ ।
- (अहङ्कारतत्वस्वरूपं)
- तत्कार्यत्वमुत्तरेषां । सांख्यसूत्र-१.७३ ।
- (तन्मात्रादीनां अहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)
- आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् । सांख्यसूत्र-१.७४ ।
- (तन्मात्रादीनां अहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)
- पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । सांख्यसूत्र-१.७५ ।
- (प्रकृतेरेव सर्वकारणत्ते नियामकं)
- न परिच्छिन्नं सर्वोपादानं । सांख्यसूत्र-१.७६ ।
- (प्रकृतेरेव सर्वकारणत्वे नियामकं)
- तदुत्पात्तिश्रुतेश्च । सांख्यसूत्र-१.७७ ।
- (प्रकृतेरेव सर्वकारणत्वे नियामकं)
- नावस्तुनो वस्तुसिद्धिः । सांख्यसूत्र-१.७८ ।
- (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
- अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । सांख्यसूत्र-१.७९ ।
- (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
- भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः । सांख्यसूत्र-१.८० ।
- (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
- न कर्मण उपादानत्वायोगात् । सांख्यसूत्र-१.८१ ।
- (कर्मणां जगदपादानाता निरासः)
- नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । सांख्यसूत्र-१.८२ ।
- (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
- तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । सांख्यसूत्र-१.८३ ।
- (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
- दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । सांख्यसूत्र-१.८४ ।
- (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
- काम्येऽकाम्येपि साध्यत्वाविशेषात् । सांख्यसूत्र-१.८५ ।
- (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
- विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । सांख्यसूत्र-१.८६ ।
- (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
- द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । सांख्यसूत्र-१.८७ ।
- (प्रमा स्वरूपं, प्रमाणेयत्ता च)
- तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । सांख्यसूत्र-१.८८ ।
- (प्रमा स्वरूपं, प्रमार्णयत्ताच)
- यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं । सांख्यसूत्र-१.८९ ।
- (प्रत्यक्षलक्षणं)
- योगिनामबाह्यप्रत्यक्षत्वात् न दोषः । सांख्यसूत्र-१.९० ।
- (प्रत्यक्षलक्षणं)
- लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । सांख्यसूत्र-१.९१ ।
- (प्रत्यक्षलक्षणं)
- ईश्वरासिद्धेः । सांख्यसूत्र-१.९२ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । सांख्यसूत्र-१.९३ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- उभयथाप्यसत्करत्वं । सांख्यसूत्र-१.९४ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । सांख्यसूत्र-१.९५ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् । सांख्यसूत्र-१.९६ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- विशेषकार्येष्वपि जीवानां । सांख्यसूत्र-१.९७ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः । सांख्यसूत्र-१.९८ ।
- (तदङ्गतया ईश्वरसत्ता निरासः)
- अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं । सांख्यसूत्र-१.९९ ।
- (अन्तः करणस्यैव मुख्यमधिष्ठानत्वं)
- प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । सांख्यसूत्र-१.१०० ।
- (अनुमान लक्षणं)
- आप्तोपदेशः शब्दः । सांख्यसूत्र-१.१०१ ।
- (शब्द लक्षणं)
- उभयसिद्धिः प्रमाणात्तदुपदेशः । सांख्यसूत्र-१.१०२ ।
- (प्रमाणस्वरूपविवेचन फलं)
- सामान्यतो दृष्टादुभयसिद्धिः । सांख्यसूत्र-१.१०३ ।
- (सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं)
- चिदवसानो भोगः । सांख्यसूत्र-१.१०४ ।
- (निर्दुष्टं प्रमास्वरूपं)
- अकर्तुरपि फलोपभोगोऽन्नाद्यवत् । सांख्यसूत्र-१.१०५ ।
- (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
- अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । सांख्यसूत्र-१.१०६ ।
- (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
- नोभयं च तत्वाख्याने । सांख्यसूत्र-१.१०७ ।
- (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
- विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । सांख्यसूत्र-१.१०८ ।
- (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
- सौक्ष्म्यात्तदनुपलरुब्धिः । सांख्यसूत्र-१.१०९ ।
- (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
- कार्यदर्शनात्तदुपलब्धेः । सांख्यसूत्र-१.११० ।
- (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
- वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । सांख्यसूत्र-१.१११ ।
- (सत्कार्यवाद निरूपणं), पू
- तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । सांख्यसूत्र-१.११२ ।
- (सत्कार्यवाद निरूपणं), सि
- त्रिविधविरोधापत्तेश्च । सांख्यसूत्र-१.११३ ।
- (सत्कार्यवाद निरूपणं)
- नासदुत्पादो नृशृङ्गवत् । सांख्यसूत्र-१.११४ ।
- (असत्कार्यवादनिराकरणं)
- उपादाननियमात् । सांख्यसूत्र-१.११५ ।
- (असत्कार्यवादनिराकरणं)
- सर्वत्र सर्वदा सर्वासम्भवात् । सांख्यसूत्र-१.११६ ।
- (असत्कार्यवादनिराकरणं)
- शक्तस्य शक्यकरणात् । सांख्यसूत्र-१.११७ ।
- (असत्कार्यवादनिराकरणं)
- कारणभावाच्च । सांख्यसूत्र-१.११८ ।
- (असत्कार्यवादनिराकरणं)
- न भावे भावयोगश्चेत् । सांख्यसूत्र-१.११९ ।
- (सतः कार्यत्वोपपत्तिः), पू
- नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । सांख्यसूत्र-१.१२० ।
- (सतः कार्यत्वोपपत्तिः), सि
- नाशः कारणलयः । सांख्यसूत्र-१.१२१ ।
- (नाशस्वरूपं)
- पारम्पर्यतोऽन्वेषणा बीजाङ्कुरवत् । सांख्यसूत्र-१.१२२ ।
- (अभिव्यक्तिपक्षे अनवस्थापरिहारः)
- उत्पत्तिवददोषः । सांख्यसूत्र-१.१२३ ।
- (अभिव्यक्तिपक्षे अनवस्थापरिहारः)
- हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । सांख्यसूत्र-१.१२४ ।
- (कार्यस्वरूपं)
- आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । सांख्यसूत्र-१.१२५ ।
- (कार्यस्वरूपं)
- त्रिगुणाचेतनत्वादि द्वयोः । सांख्यसूत्र-१.१२६ ।
- (कार्यकारणयोः साधर्म्यवैधर्म्ये)
- प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं । सांख्यसूत्र-१.१२७ ।
- (कार्यकारणयोः साधर्म्यवैधर्म्ये)
- लध्वैदि धर्मैः साधर्म्यं च गुणानां । सांख्यसूत्र-१.१२८ ।
- (कार्यकारणयोः साधर्म्यवैधर्म्ये)
- उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । सांख्यसूत्र-१.१२९ ।
- (महदादेः कार्यत्वोपपत्तिः)
- परिमाणात् । सांख्यसूत्र-१.१३० ।
- (महदादेः कार्यत्वोपपत्तिः)
- समन्वयात् । सांख्यसूत्र-१.१३१ ।
- (महदादेः कार्यत्वोपपत्तिः)
- शक्तितश्चेति । सांख्यसूत्र-१.१३२ ।
- (महदादेः कार्यत्वोपपत्तिः)
- तद्धाने प्रकृतिः पुरुषो वा । सांख्यसूत्र-१.१३३ ।
- (महदादेः कार्यत्वोपपत्तिः)
- तयोरन्यत्वे तुच्छत्वं । सांख्यसूत्र-१.१३४ ।
- (महदादेः कार्यत्वोपपत्तिः)
- कार्यात्कारणानुमानं तत्साहित्यात् । सांख्यसूत्र-१.१३५ ।
- (कार्यैः कारणानुमानविधिः)
- अव्यक्तं त्रिगुणाल्लिङ्गात् । सांख्यसूत्र-१.१३६ ।
- (कार्येभ्यः प्रकृतेः वैधर्म्यं)
- तत्कार्यतस्तत्सिद्धेर्नापलापः । सांख्यसूत्र-१.१३७ ।
- (कार्येभ्यः प्रकृतेः वैधर्म्यं)
- सामान्येन विवादाभावात् धर्मवन्न साधनं । सांख्यसूत्र-१.१३८ ।
- (पुरुषास्तित्व साधनं)
- शरीरादिव्यतिरिक्तः पुमान् । सांख्यसूत्र-१.१३९ ।
- (पुरुषास्तित्व साधनं)
- संहतपरार्थत्वात् । सांख्यसूत्र-१.१४० ।
- (पुरुषास्तित्व साधनं)
- त्रिगुणादिविपर्ययात् । सांख्यसूत्र-१.१४१ ।
- (पुरुषास्तित्व साधनं)
- अधिष्ठानाच्चेति । सांख्यसूत्र-१.१४२ ।
- (पुरुषास्तित्व साधनं)
- भोतृभावात् । सांख्यसूत्र-१.१४३ ।
- (पुरुषास्तित्व साधनं)
- कैवल्यार्थं प्रवृत्तेश्च । सांख्यसूत्र-१.१४४ ।
- (पुरुषास्तित्व साधनं)
- जडप्रकाशायोगात्प्रकाशः । सांख्यसूत्र-१.१४५ ।
- (पुरुषस्य प्रकाशस्वरूपत्वं)
- निर्गुणत्वान्नचिद्धर्मा । सांख्यसूत्र-१.१४६ ।
- (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
- श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । सांख्यसूत्र-१.१४७ ।
- (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
- सुषुप्त्याद्यसाक्षित्वं । सांख्यसूत्र-१.१४८ ।
- (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
- जन्मादुव्यवस्थातः पुरुषबहुत्वं । सांख्यसूत्र-१.१४९ ।
- (पुरुषबहुत्व साधनं)
- उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । सांख्यसूत्र-१.१५० ।
- (पुरुषबहुत्व साधनं)
- उपाधिर्भिद्यते न तु तद्वान् । सांख्यसूत्र-१.१५१ ।
- (पुरुषबहुत्व साधनं)
- एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । सांख्यसूत्र-१.१५२ ।
- (पुरुषबहुत्व साधनं)
- अन्यधर्मत्वेऽपि नारोपात्तत्सिद्धिरेकत्वात् । सांख्यसूत्र-१.१५३ ।
- (पुरुषबहुत्व साधनं)
- नाद्वैतश्रुतिविरोधो जातिपरत्वात् । सांख्यसूत्र-१.१५४ ।
- (आत्मैक्यवादोपपत्तिः)
- विदितबन्धकारणस्य दृष्ट्यातद्रूपं । सांख्यसूत्र-१.१५५ ।
- (आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । सांख्यसूत्र-१.१५६ ।
- (आत्मैक्यवादोपपत्तिः)
- वामदेवादिर्मुक्तो नाद्वैतं । सांख्यसूत्र-१.१५७ ।
- (आत्मैक्यवादोपपत्तिः)
- अनादावद्यावदभावाद्भविष्यदप्येवं । सांख्यसूत्र-१.१५८ ।
- (आत्मैक्यवादोपपत्तिः)
- इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । सांख्यसूत्र-१.१५९ ।
- (आत्मैक्यवादोपपत्तिः)
- व्यावृत्तोभयरूपः । सांख्यसूत्र-१.१६० ।
- (आत्मनां सदैकरूपत्वं)
- साक्षात्सम्बन्धात्साक्षित्वं । सांख्यसूत्र-१.१६१ ।
- (आत्मनां सदैकरूपत्वं)
- नित्यमुक्तत्वं । सांख्यसूत्र-१.१६२ ।
- (आत्मनां सदैकरूपत्वं)
- औदासीन्यं चेति । सांख्यसूत्र-१.१६३ ।
- (आत्मनां सदैकरूपत्वं)
- उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् । सांख्यसूत्र-१.१६४ ।
- (वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः),
प्रधानकार्य
[सम्पाद्यताम्]- विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । सांख्यसूत्र-२.१ ।
- (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
- विरक्तस्य तत्सिद्धेः । सांख्यसूत्र-२.२ ।
- (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
- न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । सांख्यसूत्र-२.३ ।
- (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
- बहुभृत्यवद्वा प्रत्येकं । सांख्यसूत्र-२.४ ।
- (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
- प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । सांख्यसूत्र-२.५ ।
- (पुरुषे स्रष्टृत्वनिराकरणं)
- कार्यतस्तत्सिद्धेः । सांख्यसूत्र-२.६ ।
- (पुरुषे स्रष्टृत्वनिराकरणं)
- चेतनोद्देशान्नियमः कण्टकमोक्षवत् । सांख्यसूत्र-२.७ ।
- (पुरुषे स्रष्टृत्वनिराकरणं)
- अन्ययोगेऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । सांख्यसूत्र-२.८ ।
- (पुरुषे स्रष्टृत्वनिराकरणं)
- रागविरागयोः योगः सृष्टिश्च । सांख्यसूत्र-२.९ ।
- (सृष्टिं प्रति मुख्यं निमित्तकारणं)
- महदादिक्रमेण पञ्चभूतानां । सांख्यसूत्र-२.१० ।
- (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
- आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । सांख्यसूत्र-२.११ ।
- (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
- दिक्कालावाकाशादिभ्यः । सांख्यसूत्र-२.१२ ।
- (दिक्कालयोः सृष्टिः)
- अध्यवसायो बुद्धिः । सांख्यसूत्र-२.१३ ।
- (महत्तत्व स्वरूप कार्यादिः)
- तत्कार्यं धर्मादि । सांख्यसूत्र-२.१४ ।
- (महत्तत्व स्वरूप कार्यादिः)
- महदुपरागाद्विपरीतं । सांख्यसूत्र-२.१५ ।
- (महत्तत्व स्वरूप कार्यादिः)
- अभिमानोऽहङ्कारः । सांख्यसूत्र-२.१६ ।
- (अहङ्कारतत्वस्वरूपकार्यादिः)
- एकादश पञ्चतन्मात्रं तत्कार्यं । सांख्यसूत्र-२.१७ ।
- (अहङ्कारतत्वस्वरूपकार्यादिः)
- सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् । सांख्यसूत्र-२.१८ ।
- (अहङ्कारतत्वस्वरूपकार्यादिः)
- कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । सांख्यसूत्र-२.१९ ।
- (इन्द्रियाणां स्वरूपं)
- आहङ्कारिकत्वश्रुतेः न भौतिकानि । सांख्यसूत्र-२.२० ।
- (इन्द्रियाणां स्वरूपं)
- देवतालयश्रुतिर्नारम्भकस्य । सांख्यसूत्र-२.२१ ।
- (इन्द्रियाणां स्वरूपं)
- तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । सांख्यसूत्र-२.२२ ।
- (इन्द्रियाणां अनित्यता)
- अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने । सांख्यसूत्र-२.२३ ।
- (गोलकानामेवेन्द्रियत्व निराकरणं)
- शक्तिभेदेऽपि भेदसिद्धौ नैकत्वं । सांख्यसूत्र-२.२४ ।
- (एकेन्द्रियवादनिरासः)
- न कल्पनाविरोधः प्रमाणदृष्टस्य । सांख्यसूत्र-२.२५ ।
- (एकेन्द्रियवादनिरासः)
- उभयात्मकं च मनः । सांख्यसूत्र-२.२६ ।
- (मनसः ज्ञानकर्मोभयात्मकत्वं)
- गुणपरिणामभेदान्नानात्वमवस्थावत् । सांख्यसूत्र-२.२७ ।
- (मनसः ज्ञानकर्मोभयात्मकत्वं)
- रूपादिरसमलान्त उभयोः । सांख्यसूत्र-२.२८ ।
- (इन्द्रियाणां विषयाः)
- द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । सांख्यसूत्र-२.२९ ।
- (इन्द्रियाणां आत्मोकारकत्वं)
- त्रयाणां स्वालक्षण्यं । सांख्यसूत्र-२.३० ।
- (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)
- सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । सांख्यसूत्र-२.३१ ।
- (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)
- क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः । सांख्यसूत्र-२.३२ ।
- (इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)
- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । सांख्यसूत्र-२.३३ ।
- (पञ्चविधाः धीवृत्तयः)
- तन्निवृत्तावुपशान्तोपरागः स्वस्थः । सांख्यसूत्र-२.३४ ।
- (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)
- कुसुमवच्च मणिः । सांख्यसूत्र-२.३५ ।
- (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)
- पुरुषार्थं करणोद्भवोऽप्यदृष्टोल्लासात् । सांख्यसूत्र-२.३६ ।
- (इन्द्रियप्रवृत्त्युपाधिः)
- धेनुवद्वत्साय । सांख्यसूत्र-२.३७ ।
- (इन्द्रियप्रवृत्त्युपाधिः)
- करणं त्रयोदशाविधं अवान्तरभेदात् । सांख्यसूत्र-२.३८ ।
- (करणानां त्रयोदशत्वं)
- इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् । सांख्यसूत्र-२.३९ ।
- (करणानां त्रयोदशत्वं)
- द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु । सांख्यसूत्र-२.४० ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- अव्यभिचारात् । सांख्यसूत्र-२.४१ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- तथाशेषसंस्काराधारत्वात् । सांख्यसूत्र-२.४२ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- स्मृत्यानुमानाच्च । सांख्यसूत्र-२.४३ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- सम्भवेन्न स्वतः । सांख्यसूत्र-२.४४ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । सांख्यसूत्र-२.४५ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् । सांख्यसूत्र-२.४६ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
- समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । सांख्यसूत्र-२.४७ ।
- (करणेषु गौणमुख्यभावव्यवस्था)
वैराग्याध्यायः
[सम्पाद्यताम्]- अविशेषात् विशेषारम्भः । सांख्यसूत्र-३.१ ।
- (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
- तस्माच्छरीरस्य । सांख्यसूत्र-३.२ ।
- (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
- तदीजात् संसृतिः । सांख्यसूत्र-३.३ ।
- (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
- आविवेकाच्च प्रवर्तनमविशेषाणां । सांख्यसूत्र-३.४ ।
- (संसृतेः विवेकपर्यन्तत्वं)
- उपभोगादितरस्य । सांख्यसूत्र-३.५ ।
- (संसृतेः विवेकपर्यन्तत्वं)
- सम्प्रति परिमुक्तो द्वाभ्यां । सांख्यसूत्र-३.६ ।
- (संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । सांख्यसूत्र-३.७ ।
- (स्थूलनदिनर शरीरयोः भेदः)
- पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । सांख्यसूत्र-३.८ ।
- (स्थूलनदिनर शरीरयोः भेदाः)
- सप्तदशैकं लिङ्गं । सांख्यसूत्र-३.९ ।
- (लिङ्गशरीरं तत्कार्यं च)
- व्यक्तिभेदः कर्मविशेषात् । सांख्यसूत्र-३.१० ।
- (लिङ्गशरीरं तत्कार्यं च)
- तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । सांख्यसूत्र-३.११ ।
- (लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)
- न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । सांख्यसूत्र-३.१२ ।
- (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
- मूर्तत्वेऽपि न सङ्घातयोगात् तरणिवत् । सांख्यसूत्र-३.१३ ।
- (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
- अणुपरिमाणं तत्कृतिश्रुतेः । सांख्यसूत्र-३.१४ ।
- (लिङ्गशरीरपरिमाणं)
- तदन्नमयत्वश्रुतेश्च । सांख्यसूत्र-३.१५ ।
- (लिङ्गशरीरपरिमाणं)
- पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । सांख्यसूत्र-३.१६ ।
- (लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)
- पाञ्चभौतिको देहः । सांख्यसूत्र-३.१७ ।
- (स्थूलशरीरस्वरुपविषये मत भेदाः)
- चातुर्भौतिकमित्येके । सांख्यसूत्र-३.१८ ।
- (चैतन्यस्य भूतधर्मत्वा भावः)
- ऐकभौतिकमित्यपरे । सांख्यसूत्र-३.१९ ।
- (चैतन्यस्य भूतधर्मत्वा भावः)
- न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । सांख्यसूत्र-३.२० ।
- (चैतन्यस्य भूतधर्मत्वा भावः)
- प्रपञ्चमरणाद्यभावश्च । सांख्यसूत्र-३.२१ ।
- (चैतन्यस्य भूतधर्मत्वा भावः)
- मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । सांख्यसूत्र-३.२२ ।
- (चैतन्यस्य भूतधर्मत्वा भावः)
- ज्ञानान्मुक्तिः । सांख्यसूत्र-३.२३ ।
- (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
- बन्धो विपर्ययात् । सांख्यसूत्र-३.२४ ।
- (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
- नियतकारणत्वान्न समुच्चयविकल्पौ । सांख्यसूत्र-३.२५ ।
- (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
- स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । सांख्यसूत्र-३.२६ ।
- (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
- इतरस्यापि नात्यन्तिकं । सांख्यसूत्र-३.२७ ।
- (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
- सङ्कल्पितेऽप्येवं । सांख्यसूत्र-३.२८ ।
- (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
- भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् । सांख्यसूत्र-३.२९ ।
- (उपासनाफलं)
- रागोपहतिः ध्यानं । सांख्यसूत्र-३.३० ।
- (ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)
- वृत्तिनिरोधात् तत्सिद्धिः । सांख्यसूत्र-३.३१ ।
- (ध्यानसिद्ध्युपायः)
- धारणासनस्वकर्मणा तत्सिद्धिः । सांख्यसूत्र-३.३२ ।
- (ध्यानसाधनानि, तेषां लक्षणानि च)
- निरोधः छर्दिविधारणाभ्यां । सांख्यसूत्र-३.३३ ।
- (ध्यानसाधनानि, तेषां लक्षणानि च)
- स्थिरसुखमासनं । सांख्यसूत्र-३.३४ ।
- (ध्यानसाधनानि, तेषां लक्षणानि च)
- स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । सांख्यसूत्र-३.३५ ।
- (ध्यानसाधनानि, तेषां लक्षणानि च)
- वैराग्यात् अभ्यासाच्च । सांख्यसूत्र-३.३६ ।
- (मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)
- विपर्ययभेदाः पञ्च । सांख्यसूत्र-३.३७ ।
- (बन्धहेतुविपर्ययविभागः)
- अशक्तिरष्टविशतिधा तु । सांख्यसूत्र-३.३८ ।
- (विपर्ययहेतूनां अशक्तीनां भेदाः)
- तुष्टिर्नवधा । सांख्यसूत्र-३.३९ ।
- (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
- सिद्धिरष्टधा । सांख्यसूत्र-३.४० ।
- (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
- अवान्तरभेदाः पूर्ववत् । सांख्यसूत्र-३.४१ ।
- (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
- एवमितरस्याः । सांख्यसूत्र-३.४२ ।
- (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
- आध्यत्मिकादि भेदात् नवधा तुष्टिः । सांख्यसूत्र-३.४३ ।
- (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
- ऊहादिभिः सिद्धिरष्टधा । सांख्यसूत्र-३.४४ ।
- (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
- नेतरादितरहानेन विना । सांख्यसूत्र-३.४५ ।
- (तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)
- दैवादिप्रभेदा । सांख्यसूत्र-३.४६ ।
- (दैवादिसृष्टिप्रभेदाः तदवधयश्च)
- आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । सांख्यसूत्र-३.४७ ।
- (दैवादिसृष्टिप्रभेदाः तदवधयश्च)
- ऊर्ध्वं सत्वविशाला । सांख्यसूत्र-३.४८ ।
- (गुणप्रभेदेन सृष्टिभेदाः)
- तमोविशालामूलतः । सांख्यसूत्र-३.४९ ।
- (गुणप्रभेदेन सृष्टिभेदाः)
- मध्ये रजोविशाला । सांख्यसूत्र-३.५० ।
- (गुणप्रभेदेन सृष्टिभेदाः)
- कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । सांख्यसूत्र-३.५१ ।
- (विचित्रसृष्टीनां निमित्तं)
- आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । सांख्यसूत्र-३.५२ ।
- (आमुक्ति सृष्टीनां हेयत्वं)
- समानं जरामरणादिनं दुःखं । सांख्यसूत्र-३.५३ ।
- (आमुक्ति सृष्टीनां हेयत्वं)
- न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । सांख्यसूत्र-३.५४ ।
- (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
- अकार्यत्वेऽपि तद्योगः पारवश्यात् । सांख्यसूत्र-३.५५ ।
- (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
- स हि सर्ववित् सर्वकर्ता । सांख्यसूत्र-३.५६ ।
- (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
- ईदृशेश्वरसिद्धिः सिद्धा । सांख्यसूत्र-३.५७ ।
- (प्रकृतिलीनस्यैव जन्येश्वरत्वं)
- प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वात् । सांख्यसूत्र-३.५८ ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
- उष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-३.५९ ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
- अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य । सांख्यसूत्र-३.६० ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
- कर्मवत् दृष्टेर्वा कालादेः । सांख्यसूत्र-३.६१ ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
- स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् । सांख्यसूत्र-३.६२ ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
- कर्माकृष्टेर्वानादितः । सांख्यसूत्र-३.६३ ।
- (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
- विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । सांख्यसूत्र-३.६४ ।
- (सृष्टिनिवृत्तिहेतुः)
- इतरैतरवत्तद्दोषात् । सांख्यसूत्र-३.६५ ।
- (सृष्टिनिवृत्तिहेतुः)
- द्वयोरेकतस्य वौदासीन्यमपवर्गः । सांख्यसूत्र-३.६६ ।
- (सृष्टिनिवृत्तिहेतुः)
- अन्यसृष्ट्युपरागेऽपि न विरज्य
- (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । सांख्यसूत्र-३.६७ ।
- (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)
- कर्मनिमित्तयोगाच्च । सांख्यसूत्र-३.६८ ।
- (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)
- नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तं । सांख्यसूत्र-३.६९ ।
- (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
- नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । सांख्यसूत्र-३.७० ।
- (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
- दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । सांख्यसूत्र-३.७१ ।
- (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
- नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । सांख्यसूत्र-३.७२ ।
- (बन्धमोक्षयोः आत्मगतत्वाभावः)
- प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । सांख्यसूत्र-३.७३ ।
- (बन्धमोक्षयोः आत्मगतत्वाभावः)
- रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । सांख्यसूत्र-३.७४ ।
- (बन्धमोक्षनिमित्तानि)
- निमित्तत्वमविवेकस्य न दृष्टहानिः । सांख्यसूत्र-३.७५ ।
- (बन्धमोक्षनिमित्तानि)
- तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः । सांख्यसूत्र-३.७६ ।
- (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
- अधिकारिप्रभेदान्न नियमः । सांख्यसूत्र-३.७७ ।
- (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
- बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः । सांख्यसूत्र-३.७८ ।
- (विवेकविशेषस्यैव निस्तारोपायत्वं)
- जीवन्मुक्तश्च । सांख्यसूत्र-३.७९ ।
- (विवेकविशेषस्यैव निस्तारोपायत्वं)
- उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । सांख्यसूत्र-३.८० ।
- (जीवन्मुक्तिसाधनं)
- श्रुतिश्च । सांख्यसूत्र-३.८१ ।
- (जीवन्मुक्तिसाधनं)
- इतरथा अन्धपरम्परा । सांख्यसूत्र-३.८२ ।
- (जीवन्मुक्तिसाधनं)
- चक्रभ्रमणवत् धृतशरीरः । सांख्यसूत्र-३.८३ ।
- (जीवन्मुक्तिसाधनं)
- संस्कारलेशतः तत्सिद्धिः । सांख्यसूत्र-३.८४ ।
- (जीवन्मुक्तिसाधनं)
- विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । सांख्यसूत्र-३.८५ ।
- (पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)
आख्यायिका
[सम्पाद्यताम्]- राजपुत्रवत् तत्वोपदेशात् । सांख्यसूत्र-४.१ ।
- (तत्त्वोपदेशस्य विवेकहेतुत्वं)
- पिशाचवदन्यार्थोपदेशेऽपि । सांख्यसूत्र-४.२ ।
- (तत्त्वोपदेशस्य विवेकहेतुत्वं)
- आवृत्तिरसकृदुपदेशात् । सांख्यसूत्र-४.३ ।
- (तत्त्वोपदेशस्य विवेकहेतुत्वं)
- पितापुत्रवदुभयोर्दृष्टत्वात् । सांख्यसूत्र-४.४ ।
- (क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः)
- श्येनवत् सुखदुःखी त्याग वियोगाभ्यां । सांख्यसूत्र-४.५ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- अहिनिर्ल्वयिनीवत् । सांख्यसूत्र-४.६ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधमोः)
- छिन्नहस्तवद्वा । सांख्यसूत्र-४.७ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- असाधनानुचिन्तनं बन्धाय भरतवत् । सांख्यसूत्र-४.८ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण
- (शङ्ख) वत् । सांख्यसूत्र-४.९ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- द्वाभ्यामपि तथैव । सांख्यसूत्र-४.१० ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- निराशः सुखी पिङ्गलावत् । सांख्यसूत्र-४.११ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- अनारम्भेऽपि परगृहे सुखी सर्पवत् । सांख्यसूत्र-४.१२ ।
- (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
- बहुशास्त्र गुरूपासनेऽपि सारादानं षट्पदवत् । सांख्यसूत्र-४.१३ ।
- (सारग्रहणावश्यकता)
- इषुकारवन्नैकचित्तस्य समाधिहानिः । सांख्यसूत्र-४.१४ ।
- (एकाग्रतावश्यकता)
- कृतनियमलङ्घनादानर्थक्यं लोकवत् । सांख्यसूत्र-४.१५ ।
- (शास्त्रविहितनियमानुल्लङ्घनावश्यकता)
- तद्विस्मरणेऽपि भेकीवत् । सांख्यसूत्र-४.१६ ।
- (शास्त्रविहितनियमस्मरणावश्यकता)
- नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । सांख्यसूत्र-४.१७ ।
- (श्रुतार्थमननावश्यकता)
- दृष्टस्तयोरिन्द्रस्य । सांख्यसूत्र-४.१८ ।
- (श्रुतार्थमननावश्यकता)
- प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् । सांख्यसूत्र-४.१९ ।
- (गुरुसेवा)
- न कालनियमो वामदेववत् । सांख्यसूत्र-४.२० ।
- (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
- अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । सांख्यसूत्र-४.२१ ।
- (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
- इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । सांख्यसूत्र-४.२२ ।
- (पुनरावृत्तिहेतुभूतान्युपासनानि)
- विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । सांख्यसूत्र-४.२३ ।
- (ज्ञाननिष्पत्त्यधिकारः)
- लब्धातिशययोगाद्वा तद्वत् । सांख्यसूत्र-४.२४ ।
- (ज्ञाननिष्पत्त्यधिकारः)
- न कामचारित्वं रागोपहते शुकवत् । सांख्यसूत्र-४.२५ ।
- (रागदोषाः तच्छमनोपायाश्च)
- गुणयोगात् बद्धः शुकवत् । सांख्यसूत्र-४.२६ ।
- (रागदोषाः तच्छमनोपायाश्च)
- न भोगाद्रागशान्तिः मुनिवत् । सांख्यसूत्र-४.२७ ।
- (रागदोषाः तच्छमनोपायाश्च)
- दोषदर्शनादुभयोः । सांख्यसूत्र-४.२८ ।
- (रागदोषाः तच्छमनोपायाश्च)
- न मलिनचेतस्युपदेश बीजप्ररोहोऽजवत् । सांख्यसूत्र-४.२९ ।
- (रागदोषाः तच्छमनोपायाश्च)
- नाभासमात्रमपि मलिनदर्पणवत् । सांख्यसूत्र-४.३० ।
- (रागदोषाः तच्छमनोपायाश्च)
- न तज्जस्यापि तद्रपता पङ्कजवत् । सांख्यसूत्र-४.३१ ।
- (रागदोषाः तच्छमनोपायाश्च)
- न भूतियोगेऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् । सांख्यसूत्र-४.३२ ।
- (अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)
परमतनिर्जयः
[सम्पाद्यताम्]- मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । सांख्यसूत्र-५.१ ।
- (मङ्गलाचरणप्रयोजनं)
- नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । सांख्यसूत्र-५.२ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- स्वोपकारादधिष्ठानं लोकवत् । सांख्यसूत्र-५.३ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- लौकिकेश्वरवदितरथा । सांख्यसूत्र-५.४ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- पारिभाषिको वा । सांख्यसूत्र-५.५ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । सांख्यसूत्र-५.६ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- तद्योगेऽपि न नित्यमुक्तः । सांख्यसूत्र-५.७ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः । सांख्यसूत्र-५.८ ।
- (ईश्वरस्य फलदातृवाभवः)
- सत्तामात्राच्चेत्सर्वैश्वर्यं । सांख्यसूत्र-५.९ ।
- (ईश्वरस्य फलदातृत्वाभवः)
- प्रमाणाभावान्न तत्सिद्धिः । सांख्यसूत्र-५.१० ।
- (ईश्वरे प्रमाणाभावः)
- सम्बन्धाभावान्नानुमानं । सांख्यसूत्र-५.११ ।
- (ईश्वरे प्रमाणाभावः)
- श्रुतिरपि प्रधानकार्यत्वस्य । सांख्यसूत्र-५.१२ ।
- (ईश्वरे प्रमाणाभावः)
- नाविद्याशक्तियोगो निस्सङ्गस्य । सांख्यसूत्र-५.१३ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । सांख्यसूत्र-५.१४ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- न बीजाङ्कुरवत् सादिसंसारश्रुतेः । सांख्यसूत्र-५.१५ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः । सांख्यसूत्र-५.१६ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- अबाधे नैष्फल्यं । सांख्यसूत्र-५.१७ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- विद्याबाध्यत्वे जगतोऽप्येवं । सांख्यसूत्र-५.१८ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- तद्रूपत्वे सादित्वं । सांख्यसूत्र-५.१९ ।
- (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
- न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । सांख्यसूत्र-५.२० ।
- (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
- श्रुतिलिङ्गादिभिः तत्सिद्धिः । सांख्यसूत्र-५.२१ ।
- (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
- न नियमः प्रमाणान्तरावकाशात् । सांख्यसूत्र-५.२२ ।
- (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
- उभयत्राप्येवं । सांख्यसूत्र-५.२३ ।
- (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
- अर्थात् सिद्धिश्चेत्समानमुभयोः । सांख्यसूत्र-५.२४ ।
- (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
- अन्तः करणधर्मत्वं धर्मादीनां । सांख्यसूत्र-५.२५ ।
- (धर्माधर्मयोः अन्तः करणधर्मत्वं)
- गुणादीनां च नात्यन्तबाधः । सांख्यसूत्र-५.२६ ।
- (सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
- पञ्चावयवयोगात् सुखसंवित्तिः । सांख्यसूत्र-५.२७ ।
- (सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
- न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । सांख्यसूत्र-५.२८ ।
- (व्याप्तिस्वरूपं तत्साधनं च), पू
- नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । सांख्यसूत्र-५.२९ ।
- (व्याप्तिस्वरूपं तत्साधनं च), सि
- न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.३० ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- निजशक्त्युद्भवमित्याचार्याः । सांख्यसूत्र-५.३१ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- आधेयशक्तियोग इति पञ्चशिखः । सांख्यसूत्र-५.३२ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । सांख्यसूत्र-५.३३ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- विशेषेणानर्थक्य प्रसक्तेः । सांख्यसूत्र-५.३४ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- पल्लवादिष्वनुपपत्तेश्च । सांख्यसूत्र-५.३५ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । सांख्यसूत्र-५.३६ ।
- (परोक्तव्याप्तिस्वरूपादिखण्डनं)
- वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । सांख्यसूत्र-५.३७ ।
- (शब्दप्रामाण्यसाधनं)
- त्रिभिस्साम्बन्धसिद्धिः । सांख्यसूत्र-५.३८ ।
- (लोकवेदयोः शक्तिग्रहणोपायाः)
- न कार्ये नियमः उभयथा दर्शनात् । सांख्यसूत्र-५.३९ ।
- (लोकवेदयोः शक्तिग्रहणोपायाः)
- लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । सांख्यसूत्र-५.४० ।
- (लोकवेदयोः शक्तिग्रहणोपायाः)
- न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । सांख्यसूत्र-५.४१ ।
- (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू
- न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । सांख्यसूत्र-५.४२ ।
- (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि
- निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । सांख्यसूत्र-५.४३ ।
- (वैदिकशब्दशक्तिग्रहव्यवस्था)
- योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । सांख्यसूत्र-५.४४ ।
- (वैदिकशब्दशक्तिग्रहव्यवस्था)
- न नित्यत्वं वेदानां कार्यत्वश्रुतेः । सांख्यसूत्र-५.४५ ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । सांख्यसूत्र-५.४६ ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- मुक्तामुक्तयोरयोग्यत्वात् । सांख्यसूत्र-५.४७ ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । सांख्यसूत्र-५.४८ ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । सांख्यसूत्र-५.४९ ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- यस्मिन् अदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । सांख्यसूत्र-५.५० ।
- (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
- निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । सांख्यसूत्र-५.५१ ।
- (वेदानां स्वतः प्रामाण्यं)
- नासतः ख्यानं नृशृङ्गवत् । सांख्यसूत्र-५.५२ ।
- (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
- न सतो बाधदर्नात् । सांख्यसूत्र-५.५३ ।
- (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
- नानिर्वचनीयस्य तदभावात् । सांख्यसूत्र-५.५४ ।
- (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
- नान्यथाख्यातिः स्ववचोव्याघातात् । सांख्यसूत्र-५.५५ ।
- (अन्यथाख्यातिनिरासः)
- सदसत्ख्यातिः बाधाबाधात् । सांख्यसूत्र-५.५६ ।
- (सदसत्ख्याति निरासः)
- प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । सांख्यसूत्र-५.५७ ।
- (स्फोटनिरासः)
- न शब्दनित्यत्वं कार्यताप्रतीतेः । सांख्यसूत्र-५.५८ ।
- (वर्णनित्यत्वनिरासः)
- पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । सांख्यसूत्र-५.५९ ।
- (वर्णनित्यत्वनिरासः), पू
- सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं । सांख्यसूत्र-५.६० ।
- (वर्णनित्यत्वनिरासः), सि
- नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । सांख्यसूत्र-५.६१ ।
- (आत्माद्वैत निरासः)
- नानात्मापि प्रत्यक्षबाधात् । सांख्यसूत्र-५.६२ ।
- (आत्माद्वैत निरासः)
- नोभाभ्यां तेनैव । सांख्यसूत्र-५.६३ ।
- (आत्माद्वैत निरासः)
- अन्यपरत्वमविवेकानां तत्र । सांख्यसूत्र-५.६४ ।
- (आत्माद्वैतनिरासः)
- नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । सांख्यसूत्र-५.६५ ।
- (आत्माद्वैतनिरासः)
- नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । सांख्यसूत्र-५.६६ ।
- (आत्माद्वैतनिरासः)
- दुःखनिवृत्तेर्गौणः । सांख्यसूत्र-५.६७ ।
- (आत्माद्वैतनिरासः)
- विमुक्तिप्रशंसा मन्दानां । सांख्यसूत्र-५.६८ ।
- (आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । सांख्यसूत्र-५.६९ ।
- (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
- सक्रियत्वात् गतिश्रुतेः । सांख्यसूत्र-५.७० ।
- (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
- न निर्भागत्वं तद्योगात् घटवत् । सांख्यसूत्र-५.७१ ।
- (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
- प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । सांख्यसूत्र-५.७२ ।
- (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
- न भागलाभो भागिनो निर्भागत्वश्रुतेः । सांख्यसूत्र-५.७३ ।
- (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
- नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । सांख्यसूत्र-५.७४ ।
- (मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)
- न विशेषगुणोच्छित्तिस्तद्वत् । सांख्यसूत्र-५.७५ ।
- (मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)
- न विशेषगतिः निष्क्रियस्य । सांख्यसूत्र-५.७६ ।
- (मुक्तेः लोकान्तरगतिरूपत्वाभावः)
- नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । सांख्यसूत्र-५.७७ ।
- (मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)
- न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । सांख्यसूत्र-५.७८ ।
- (मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
- एवं शून्यमपि । सांख्यसूत्र-५.७९ ।
- (मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
- संयोगाश्च विभागान्ता इति न देशादिलाभोऽपि । सांख्यसूत्र-५.८० ।
- (मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)
- न भागियोगो भागस्य । सांख्यसूत्र-५.८१ ।
- (मुक्तेः लयरूपत्वाभावः)
- नाणिमादियोगोऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् । सांख्यसूत्र-५.८२ ।
- (मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)
- नेन्द्रादिपदयोगोऽपि तद्वत् । सांख्यसूत्र-५.८३ ।
- (मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)
- न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । सांख्यसूत्र-५.८४ ।
- (इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)
- न षट् पदार्थनियमस्तद्बोधान्मुक्तिः । सांख्यसूत्र-५.८५ ।
- (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
- षोडशादिष्वप्येवं । सांख्यसूत्र-५.८६ ।
- (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
- नाणुनित्यता तत्कार्यत्वश्रुतेः । सांख्यसूत्र-५.८७ ।
- (अणूनां नित्यत्वनिरासः)
- न निर्भागत्वं कार्यत्वात् । सांख्यसूत्र-५.८८ ।
- (अणूनां नित्यत्वनिरासः)
- न रूपनिबन्धनात् प्रत्यक्षनियमः । सांख्यसूत्र-५.८९ ।
- (परिमाणस्वरूपादि निर्णयः)
- न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । सांख्यसूत्र-५.९० ।
- (सामान्यसाधनं, तत्स्वरूपं च)
- अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । सांख्यसूत्र-५.९१ ।
- (सामान्यसाधनं, तत्स्वरूपं च)
- न तदपलापस्तस्मात् । सांख्यसूत्र-५.९२ ।
- (सामान्यसाधनं, तत्स्वरूपं च)
- नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । सांख्यसूत्र-५.९३ ।
- (साहश्यस्य तत्त्वान्तरता निराकरणं)
- न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । सांख्यसूत्र-५.९४ ।
- (सादृश्यस्य तत्त्वान्तरता निराकरणं)
- निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । सांख्यसूत्र-५.९५ ।
- (सादृश्यस्य तत्त्वान्तरता निराकरणं)
- न संज्ञासंज्ञि सम्बन्धोऽपि । सांख्यसूत्र-५.९६ ।
- (सादृश्यस्य तत्त्वान्तरता निराकरणं)
- न सम्बन्धनित्यतोभयानित्यत्वात् । सांख्यसूत्र-५.९७ ।
- (सादृश्यस्य तत्त्वान्तरता निराकरणं)
- नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । सांख्यसूत्र-५.९८ ।
- (सादृश्यस्य तत्त्वान्तरता निराकरणं)
- न समवायोऽस्ति प्रमाणाभावात् । सांख्यसूत्र-५.९९ ।
- (समवाय निरासः)
- उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । सांख्यसूत्र-५.१०० ।
- (समवायनिरासः)
- नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । सांख्यसूत्र-५.१०१ ।
- (क्रियायाः अनुमेयतानैयत्यनिरासः)
- न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । सांख्यसूत्र-५.१०२ ।
- (शरीरस्य पाञ्चभौतिकत्वनिरासः)
- न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । सांख्यसूत्र-५.१०३ ।
- (शरीरसामान्यस्य स्थूलत्वनिरासः)
- नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा । सांख्यसूत्र-५.१०४ ।
- (इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
- न तेजोऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः । सांख्यसूत्र-५.१०५ ।
- (इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
- प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः । सांख्यसूत्र-५.१०६ ।
- (इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
- भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । सांख्यसूत्र-५.१०७ ।
- (वृत्तेः स्वरूपं)
- न द्रव्यनियमस्तद्योगात् । सांख्यसूत्र-५.१०८ ।
- (वृत्तेः स्वरूपं)
- न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः । सांख्यसूत्र-५.१०९ ।
- (इन्द्रियाणां अभौतिकत्वं)
- निमित्तव्यपदेशात् तदव्यपदेशः । सांख्यसूत्र-५.११० ।
- (इन्द्रियाणां अभौतिकत्वं)
- ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । सांख्यसूत्र-५.१११ ।
- (स्थूलशरीरविशेषाः)
- सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् । सांख्यसूत्र-५.११२ ।
- (स्थूलशरीरविशेषाः)
- न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । सांख्यसूत्र-५.११३ ।
- (प्रणस्य देहारम्भकत्वाभावः)
- भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् । सांख्यसूत्र-५.११४ ।
- (देहाधिष्ठातृ निर्णयः)
- भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । सांख्यसूत्र-५.११५ ।
- (देहाधिष्ठातृ निर्णयः)
- समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । सांख्यसूत्र-५.११६ ।
- (आत्मनो नित्यमुक्तत्वोपपादनं)
- द्वयोः सबीजमन्यत्र तद्धतिः । सांख्यसूत्र-५.११७ ।
- (सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)
- द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ । सांख्यसूत्र-५.११८ ।
- (मोक्षे प्रमाणं)
- वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वं । सांख्यसूत्र-५.११९ ।
- (सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)
- एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.१२० ।
- (जीवन्मुक्तेऽपि संस्कारानुवृत्तिः)
- न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । सांख्यसूत्र-५.१२१ ।
- (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
- स्मृतेश्च । सांख्यसूत्र-५.१२२ ।
- (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
- न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । सांख्यसूत्र-५.१२३ ।
- (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
- त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । सांख्यसूत्र-५.१२४ ।
- (देहेषु चातुर्विध्यं)
- न किञ्चिदप्यनुशयिनः । सांख्यसूत्र-५.१२५ ।
- (देहेषु चातुर्विध्यं)
- न बुद्ध्यादिनित्यत्वं आश्रयाविशेषेऽपि वह्निवत् । सांख्यसूत्र-५.१२६ ।
- (बुद्धीच्छादीनां नित्यतानिरासः)
- आश्रयासिद्धेश्च । सांख्यसूत्र-५.१२७ ।
- (बुद्धीच्छादीनां नित्यतानिरासः)
- योगसिद्धयोऽप्यौषधादिसिद्विवन्नापलापनीयाः । सांख्यसूत्र-५.१२८ ।
- (सिद्धीनां सत्यता)
- न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च । सांख्यसूत्र-५.१२९ ।
- (भूतचैतन्यवाद निरासः)
तन्त्राध्यायः
[सम्पाद्यताम्]- अस्त्यात्मा नास्तित्वसाधनाभावात् । सांख्यसूत्र-६.१ ।
- (आत्मास्तित्व निरूपणं)
- देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् । सांख्यसूत्र-६.२ ।
- (आत्मास्तित्व निरूपणं)
- षष्ठीव्यपदेशादपि । सांख्यसूत्र-६.३ ।
- (आत्मास्तित्व निरूपणं)
- न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । सांख्यसूत्र-६.४ ।
- (आत्मास्तित्व निरूपणं)
- अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । सांख्यसूत्र-६.५ ।
- (आत्मनः कृतकृत्यतानिमित्तं)
- यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । सांख्यसूत्र-६.६ ।
- (आत्मनः कृतकृत्यतानिमित्तं)
- कुत्रापि कोऽपि सुखीति । सांख्यसूत्र-६.७ ।
- (दुःखनिवृत्तेरेव पुरुषार्थत्वं)
- तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । सांख्यसूत्र-६.८ ।
- (दुःखनिवृत्तेरेव पुरुषार्थत्वं)
- सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । सांख्यसूत्र-६.९ ।
- (दुःखनिवृत्तेरेव पुरुषार्थत्वं)
- निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः । सांख्यसूत्र-६.१० ।
- (गुणबन्धस्यैव अविवेकमूलत्वं), पू
- परमधर्मत्वेऽपि तत्सिद्धिरविवेकात् । सांख्यसूत्र-६.११ ।
- (गुणबन्धस्यैव अविवेकमूलत्वं), सि
- अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । सांख्यसूत्र-६.१२ ।
- (अविवेकस्यानादित्वं)
- न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । सांख्यसूत्र-६.१३ ।
- (अविवेकस्यानादित्वं)
- प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । सांख्यसूत्र-६.१४ ।
- (मुक्तिकारणविवरणं)
- अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् । सांख्यसूत्र-६.१५ ।
- (मुक्तिकारणविवरणं)
- प्रकारान्तरासम्भवादविवेक एव बन्धः । सांख्यसूत्र-६.१६ ।
- (बन्धस्वरूपं)
- न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्ति श्रुतेः । सांख्यसूत्र-६.१७ ।
- (मुक्तेर्नित्यत्वं)
- अपुरुषार्थत्वमन्यथा । सांख्यसूत्र-६.१८ ।
- (मुक्तेर्नित्यत्वं)
- अविशेषापत्तिरुभयोः । सांख्यसूत्र-६.१९ ।
- (मुक्तेर्नित्यत्वं)
- मुक्तिरन्तराय ध्वस्तेर्न परः । सांख्यसूत्र-६.२० ।
- (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
- तत्राप्यविरोधः । सांख्यसूत्र-६.२१ ।
- (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
- अधिकारित्रैविध्यान्न नियमः । सांख्यसूत्र-६.२२ ।
- (अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)
- दार्ढ्यार्थमुत्तरेषां । सांख्यसूत्र-६.२३ ।
- (नियमानां आवश्यकता)
- स्थिरसुखमासनमिति न नियमः । सांख्यसूत्र-६.२४ ।
- (नियमानां आवश्यकता)
- ध्यानं निर्विषयं मनः । सांख्यसूत्र-६.२५ ।
- (ध्यानस्वरूपं)
- उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । सांख्यसूत्र-६.२६ ।
- (योगस्यावश्कता)
- निस्सङ्गेऽप्युपरागोऽविवेकात् । सांख्यसूत्र-६.२७ ।
- (उपरागहेतुः)
- जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । सांख्यसूत्र-६.२८ ।
- (उपरागहेतुः)
- ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । सांख्यसूत्र-६.२९ ।
- (उपराग निरोधहेतुः)
- लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । सांख्यसूत्र-६.३० ।
- (उपराग निरोधहेतुः)
- न स्थाननियमः चित्तप्रसादात् । सांख्यसूत्र-६.३१ ।
- (उपराग निरोधहेतुः)
- प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । सांख्यसूत्र-६.३२ ।
- (प्रकृतेरेव जगन्मूलता)
- नित्यत्वेऽपि नात्मनो योग्यत्वाभावात् । सांख्यसूत्र-६.३३ ।
- (प्रकृतेरेव जगन्मूलता)
- श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । सांख्यसूत्र-६.३४ ।
- (प्रकृतेरेव जगन्मूलता)
- पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् । सांख्यसूत्र-६.३५ ।
- (प्रकृतेरेव जगन्मूलता)
- सर्वत्र कार्यदर्शनात् विभुत्वं । सांख्यसूत्र-६.३६ ।
- (प्रकृतेरेव जगन्मूलता)
- गतियोगेऽप्याद्यकारणताहानिरणुवत् । सांख्यसूत्र-६.३७ ।
- (प्रकृतेरेव जगन्मूलता)
- प्रसिद्धाधिक्यं प्रधानस्य न नियमः । सांख्यसूत्र-६.३८ ।
- (प्रकृतेरेव जगन्मूलता)
- सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । सांख्यसूत्र-६.३९ ।
- (प्रकृतेः गुणरूपतासाधनं)
- अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-६.४० ।
- (प्रधानप्रवृत्तिहेतुः)
- कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । सांख्यसूत्र-६.४१ ।
- (प्रधानप्रवृत्तिहेतुः)
- साम्यवैषम्याभ्यां कार्यद्वयं । सांख्यसूत्र-६.४२ ।
- (सृष्टिप्रलनिमित्ते)
- विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । सांख्यसूत्र-६.४३ ।
- (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
- नान्योपसर्पणेऽपि मुक्तोपभोगः निमित्ताभावात् । सांख्यसूत्र-६.४४ ।
- (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
- पुरुषबहुत्वं व्यवस्थातः । सांख्यसूत्र-६.४५ ।
- (प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
- उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं । सांख्यसूत्र-६.४६ ।
- (उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः)
- द्वाभ्यामपि प्रमाणविरोधः । सांख्यसूत्र-६.४७ ।
- (अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)
- द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । सांख्यसूत्र-६.४८ ।
- (अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)
- प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । सांख्यसूत्र-६.४९ ।
- (आत्मनः प्रकाशस्वरूपत्वे दोषः)
- जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । सांख्यसूत्र-६.५० ।
- (आत्मनः प्रकाशस्वरूपत्वे दोषः)
- न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । सांख्यसूत्र-६.५१ ।
- (अद्वैतश्रुतेः स्वपक्षे सामरस्यं)
- जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् । सांख्यसूत्र-६.५२ ।
- (जगत्सत्यत्वसाधनं)
- प्रकारान्तरासंभवात्सदुत्पत्तिः । सांख्यसूत्र-६.५३ ।
- (सत्कार्यवादस्यैव साधुता)
- अहङ्कारः कर्ता न पुरुषः । सांख्यसूत्र-६.५४ ।
- (अहङ्कारस्यैव कर्तृत्वं)
- चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । सांख्यसूत्र-६.५५ ।
- (भोगोपाधिः)
- चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । सांख्यसूत्र-६.५६ ।
- (पुनरावृत्तिहेतुः)
- लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । सांख्यसूत्र-६.५७ ।
- (पुनरावृत्तिहेतुः)
- पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । सांख्यसूत्र-६.५८ ।
- (पुनरावृत्तिहेतुः)
- गतिश्रुतेश्च व्यापकत्वेऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् । सांख्यसूत्र-६.५९ ।
- (आत्मनो गतिश्रुत्युपपत्तिः)
- अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । सांख्यसूत्र-६.६० ।
- (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
- अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । सांख्यसूत्र-६.६१ ।
- (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
- निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । सांख्यसूत्र-६.६२ ।
- (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
- विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । सांख्यसूत्र-६.६३ ।
- (जीवत्वोपाधिः)
- अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । सांख्यसूत्र-६.६४ ।
- (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
- अदृष्टोद्भूतिवत्समानत्वं । सांख्यसूत्र-६.६५ ।
- (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
- महतोऽन्यत् । सांख्यसूत्र-६.६६ ।
- (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
- कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिः बीजाङ्कुरवत् । सांख्यसूत्र-६.६७ ।
- (प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)
- अविवेकनिमित्तो वा पञ्चशिखः । सांख्यसूत्र-६.६८ ।
- (तत्रैव मतभेदः)
- लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । सांख्यसूत्र-६.६९ ।
- (पुरुषार्थस्वरूपनिगमनं)
- तत्त्व समाससूत्राणि । सांख्यसूत्र-६.७० ।
- (कपिलमहर्षिप्रणीतानि)
- तत्त्वपादः
- अथातस्तत्त्वसमासः । सांख्यसूत्र_संयुक्त-२.१.१ ।
- अष्टौ प्रकृतयः । सांख्यसूत्र_संयुक्त-२.१.२ ।
- षोडश विकाराः । सांख्यसूत्र_संयुक्त-२.१.३ ।
- पुरुषः । सांख्यसूत्र_संयुक्त-२.१.४ ।
- त्रैगुण्यं । सांख्यसूत्र_संयुक्त-२.१.५ ।
- सञ्चरः । सांख्यसूत्र_संयुक्त-२.१.६ ।
- प्रतिसञ्चरः । सांख्यसूत्र_संयुक्त-२.१.७ ।
- अध्यात्मं । सांख्यसूत्र_संयुक्त-२.१.८ ।
- अधिभूतं । सांख्यसूत्र_संयुक्त-२.१.९ ।
- अधिदैवतं । सांख्यसूत्र_संयुक्त-२.१.१० ।
- प्रकीर्णपादः
- पञ्चाभिबुद्धयः । सांख्यसूत्र_संयुक्त-२.२.१ ।
- पञ्च कर्मयोनयः । सांख्यसूत्र_संयुक्त-२.२.२ ।
- अञ्च वायवः । सांख्यसूत्र_संयुक्त-२.२.३ ।
- पञ्च कर्मात्मानः । सांख्यसूत्र_संयुक्त-२.२.४ ।
- पञ्चपर्वाविद्या । सांख्यसूत्र_संयुक्त-२.२.५ ।
- अष्टाविंशतिधाशक्तिः । सांख्यसूत्र_संयुक्त-२.२.६ ।
- नवधा तुष्टिः । सांख्यसूत्र_संयुक्त-२.२.७ ।
- अष्टधा सिद्धिः । सांख्यसूत्र_संयुक्त-२.२.८ ।
- दशमूलिकार्थाः । सांख्यसूत्र_संयुक्त-२.२.९ ।
- अनुग्रहः सर्गः । सांख्यसूत्र_संयुक्त-२.२.१० ।
- चतुर्दशविधो भूतसर्गः । सांख्यसूत्र_संयुक्त-२.२.११ ।
- त्रिविधो बन्धः । सांख्यसूत्र_संयुक्त-२.२.१२ ।
- त्रिविधो मोक्षः । सांख्यसूत्र_संयुक्त-२.२.१३ ।
- त्रिविधं प्रमाणं । सांख्यसूत्र_संयुक्त-२.२.१४ ।
- त्रिविधं दुःखं । सांख्यसूत्र_संयुक्त-२.२.१५ ।
- एतत्परं याथातथ्यं । सांख्यसूत्र_संयुक्त-२.२.१६ ।
- एतत्ज्ञात्वा कृतकृत्यः स्यात् । सांख्यसूत्र_संयुक्त-२.२.१७ ।
- नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । सांख्यसूत्र_संयुक्त-२.२.१८ ।