"ऋग्वेदः सूक्तं १.७६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा ।

को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥१॥

एह्यग्न इह होता नि षीदादब्धः सु पुरता भवा नः ।
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥

प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।

१२:५७, १६ एप्रिल् २००९ इत्यस्य संस्करणं

ऋग्वेदः सूक्तं १.७६

का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥१॥
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥३॥
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥४॥
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् ।
एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७६&oldid=4624" इत्यस्माद् प्रतिप्राप्तम्