"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: सत्पाषाढविरचितं श्रौतसूत्र- [प्रथमप्रमे सत्र प्रयोगदोदाहरणत्वामावः । स्वशाखायां च परमामेव काष्ठा गच्छतीत्यर्थवादेन फलकल्पनाऽपि न युक्ता श्रौते फले सति । तस... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:१३, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्पाषाढविरचितं श्रौतसूत्र- [प्रथमप्रमे सत्र प्रयोगदोदाहरणत्वामावः । स्वशाखायां च परमामेव काष्ठा गच्छतीत्यर्थवादेन फलकल्पनाऽपि न युक्ता श्रौते फले सति । तस्मादिदमेव फलमुदाहृत्य विचार्यते कि शाखान्तरीयमत्रोपसंहर्तव्यं फलं न वा । तत्र नोपसंहारः कर्तुं युक्तः । कुतः । दर्शपू. णमाससंज्ञया प्रत्यभिज्ञानेऽपि फलस्याविधेयस्वाद्विहितयोरेव फलानुवादेन विधानमयु- क्तमतोऽभ्यासाकर्मभेद एवेति प्राप्तेऽभिधीयते-

तो समानविधानौ।

अप्रत्यदर्शपूर्णमासाभ्यां समानविधानौ तत्रत्ययोरप्रत्ययोश्वामिन्नयोः समानमेकमेव फलविधानं ब्राह्मणं ययोस्ती तथा । अयं भावः- यथा सर्वेभ्यः कामेभ्यो दर्शपूर्णमासा- वित्यधिकारविधिना दर्शपूर्णमासस्वेन तत्रत्वो विहितो तथा तत्वा तेनैव शब्ने- नैतावपि विहितौ । न च संनिधिर्विशेषकः । प्रत्यभिज्ञया संनिधेरपि साम्पात् । तत्रा. प्येतो यदि प्रत्यभिज्ञातौ तदा कयोरसंनिधिर्मवेत् । तथा च यथोत्पत्त्यादिविधिविहि- तयोस्तत्रत्ययोः फलार्थ विधानमेवमनयोरपीति संतोष्टव्यम् । अन्यथा तत्रापि विहि- तस्य न विधिरिति तयोरपि कर्मभेदे प्राप्ते न कस्यापि कर्मणः फलपत्ता भवेत् । ययोश्च फलवत्ता न तयोरुत्पत्त्यादिविषय इत्यतिविशीर्ण कर्म नानुष्ठेयं स्यात् । न हि निष्फलमनुष्ठेयम् । न च फलवदपि द्रव्यदेवतादिसंबन्धविधुरं दर्शपूर्णमासशब्दप्रतिपाद्य स्यादरूपत्वेन कालसंबन्धानवगमात् । ययोश्चावगतस्तयोरफलत्वादप्राप्ते शास्त्रमर्थवदिति फलोद्देशेन पुनर्विधानं युक्तमिति। तदुक्तं नैमिनिन!- संनिधौ स्वविमागेन फलार्थेन पुनः श्रुतिः' इति । प्रत्यभिज्ञया संनिधापित कर्मणि भेदाभावेन तदेव फलार्थ पुनः श्रुत्या विधीयत इत्यर्थः । एतेन दर्शपूर्णमासप्रकरणं सर्ववेदसर्वशाखास्वेकमेवेत्युक्तम् । सदिदमाहु:--'सर्वशाखाप्रत्ययमेक कर्म ' इति । यदि यादृशं विहितं तादृशमेव चेत्पुनर्विधीयेत तदा भवेदम्यासात्कर्ममेदोऽप्राप्तेऽशे विधानान्न सा विधिपुनःश्रुतिरिति । ननु प्रतिशाखं विविधगुणभेदेन शाखान्तरीयानुष्ठाने प्रायश्चित्तश्रवणाच्च कर्मभेदे प्रत्यभिज्ञा भ्रान्ततिशङ्कानिरासार्थमाह-

निर्देशाद्व्यवतिष्ठेते ।

समानविधानावपि गुणादिभेदेन यस्यां शाखायां निर्दिष्टौ तेषां शाखिना तावेव व्यवस्थितौ च व्यवस्थितविकरुपमाप्तौ विहिताविति यावत् । तेन तं प्रति तथैव निर्दिष्ट- विशेषेणैव व्यवस्थितौ ज्ञेयो । तथा प्रयोगभेदमात्रं स्थान तु कर्मभेदः । यथा नीले घंटे संकेतग्राही पोतेऽपि घटोऽयमिति प्रत्येत्येवं स्वशाखीयकिंचिद्गणविशिष्टयोदर्शपूर्ण मासत्वेनावगती शाखान्तरेऽपि गुणान्तरविशिष्टावपि दर्शपूर्णमासावकत्वेनैव गृह्णातीति , क. ग. च. ८. "दिदं वारतब। २ क. प. प. . . "स्यापि श्रेयस्त्वादि ।